________________
साहित्यदर्पणः।
[दशमःभत्र कयाचित् कुङ्कुमभेदेन खलक्षितं कस्याश्चित् पुरुषायितं पाणौ पुरुषचिह्नखगलेखालेखनेन सूचितम् । इङ्गितेन यथा'सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । हसनेवार्पिताकूतं लीलापनं निमीलितम्॥२९०॥'
अत्र विटस्य भ्रूक्षेपादिना लक्षितः सङ्केतकालाभिप्रायो रजनीकालभाविना पद्मनिमीलनेन प्रकाशितः।
१८३ व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः ॥ १४५ ॥ यथा-शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस- .
द्रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः। आः शैत्यं तुहिमाचलस्य करयोरित्यूचिवान् सस्मितं शैलान्तःपुरमातृमण्डलगणदृष्टोऽवतादः शिवः ॥ २९१॥'
बिन्दवो विपरीतसुरतजन्यश्रमबिन्दवस्तेषां प्रबन्धास्तैः । कण्ठे। भिन्नम्भेदं प्राप्तम् । कुङ्कमम् । दृष्टा । अत एवस्मित्वा । तन्व्याः स्ववयस्यायास्तस्या इति भावः । पुंस्त्वं पुरुषत्वम् । व्यञ्जयन्ती। पाणौ 'नायिकाया' इति शेषः । खद्धलेखां खङ्गस्य लेखा पक्तिस्ताम् । लिलेख लिखितवती । स्त्रीणां हस्तेऽलङ्कारार्थ चन्दनादिभिलतापत्रादेर्लेखनं सम्प्रदायः,अतस्तच्छलेन सख्याः पुरुषायितं सूचयितुं पुरुषहस्ते लेखनीया खगलेखा लिखितेति बोध्यम् । अनुकूलसुरते उत्तानाया नायिकाया मुखमण्डलाद्गलितानां स्वेदाम्बूनां पृष्ठे एव गमनम् , कण्ठे तेषां गमनं तु विपरीतसुरत एवेति 'वक्त्रस्यन्दी' त्यादिना सूचितम् । शालिनीछन्दः, तल्लक्षणं च यथोक्तम्, 'शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः ।। इति ॥ २८९ ॥'
उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना । स्पष्टम् । अत्राहुः 'अत्र स्वेदलिङ्गकस्वानुमितिविषयस्य पुरुषायितत्वस्य खालेखालेखनेनाभिव्यजनम् । अत्र विद्यमानमप्यनुमानं सूक्ष्माङ्गम्, स्ववैदग्ध्यप्रकाशनद्वारा सूक्ष्मस्यैव चमत्कारित्वात् ।' इति ।
इजितात् सल्लक्षितस्य सूचनमुदाहतकाम आह-इडितेन । यथा 'विदग्धया चतुरया । हसन्नेत्रार्पिताकतं हसन्ती प्रसीदन्ती नेत्रे ताभ्यामर्पितं सूचितमाकूतं रहस्यं येन तादृशम् । विटं जारम् । सङ्केतकालममसं सङ्केतकाले मनो यस्य तादृशम् । सङ्केतसमयमवजिगमिषुम् । ज्ञात्वा । लीलापनं क्रीडाथै धृतं पद्मम् । निमीलितं सङ्को. चितम् ॥ २९॥
उदाहृतमर्थं निर्दिशति-अत्रेत्यादिना । स्पष्टम् ।
व्याजोक्तिं लक्षयति-१८२ उद्भिन्नस्य प्रकटितस्य । अपि । वस्तुनः । व्याजात् केनापि प्रतारणोपायेन । गोपनम् । व्याजोक्तिर्व्याजेनोक्तिरिति तन्नामाऽलङ्कार इत्यर्थः ॥ १४५ ॥
- उदाहरति-यथा-'शैलेन्द्र...शैलेन्द्रेण हिमालयगिरिणा प्रतिपाद्यमाना दीयमाना या गिरिजा पार्वती तस्या हस्तस्तस्योपगूढं सम्बन्धस्तेनोल्लसदुद्गच्छद् यद्रोमाञ्चादिःतेन विसंष्ठुलो ब्यग्रोऽव्यवस्थ इति यावत् योऽखिलविधिः समस्त. वैवाहिककर्तव्यत्वं तस्य व्यासङ्गस्तत्परता तस्य भङ्गस्तेनाकुलश्चकित इति तथोक्तः। उपगृहनमुपगूढम् , भावे क्तः । एवम्भूत एष-शैलान्तःपुरमातृमण्डलगणशैलस्य हिमाद्रेरन्तःपुरमवरोधस्तत्र यन्मातृमण्डलम्मेनकापरिवारस्तस्य गणास्तैः, यद्वा-शैलान्तःपुरं ( मेनका) च मातृमण्डलं (मातृणां ब्राह्मीवैष्णवीतत्सखीप्रभृतीनाम्मण्डलम् ) च गणः (देववृन्दं प्रमथादिगणो वा) चेति तैस्तथोक्तैः । सस्मितं मन्दहासपूर्व यथा स्यात्तथा । दृष्टः। आः कष्टम् । तुहिनाचलस्य हिमालयस्य । करयोः। शैत्यम् (कन्यादानसमये. हिमाचलकरयोः सम्बन्धे रोमाञ्चादिसात्त्विक भावभावगोपनायेदमुक्तम् )। इत्यूचिवान् । इत्येवं कथितवान् इत्यर्थः । शिवः। वो युष्मान् । अवतात् रक्षतात् । भवानीशङ्करयोवैवाहिकवृत्तस्य वर्णनं प्रस्तूयाशीर्वादोऽयम् । अत्र रोमाञ्चकम्पादिरूपेण कार्येण प्रकटितस्य पार्वतीविषयकस्य भावस्य शैत्यरूपकारणान्तरोद्भावनेन गोपनम् । शार्दूलविक्रीडितं वृत्तम् ॥ २९१ ॥'