________________
रुचिराख्यया म्यारूपया समेतः ।
परिच्छेदः]
३०१ नेयं प्रथमापहतिः, अपह्नवकारिणो विषयस्यानभिधानात् । द्वितीयापहृते दस्तु तत्प्रस्तावे दर्शिवः।
१८४ स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम् । दुरूहयोः कविमानवेद्ययोरर्थस्य डिम्भादेः स्वयोस्तदेकाश्रययोश्चेष्टास्वरूपयोः। यथा मम--
'लाङ्गलेनाभिहत्य क्षितितलमसकृद् दारयन्नग्रपझ्यामात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन् विक्रमेण । स्फूर्जद्धङ्कारघोषःप्रतिदिशमखिलान् द्रावयन्नेष जन्तून्कोपाविष्टः प्रविष्टः प्रतिवनमरुणोच्छूनचक्षुस्तरक्षुः ॥ २९२ ॥' १८५ अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः ॥ १४६ ॥
यत् प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतम् । ननु प्रकृतगोपनेनाप्रकृतोद्भावनरूपाया अपहृतेरस्याः को भेद इत्याशक्कयाह-इयं व्याजोक्तिः । प्रथमा प्रकृतनिषेधपूर्वकाप्रकृतोद्भावनरूपा । अपहतिः। न । हेतुं निर्दिशति-अपह्नवकारिणः प्रतिषेधकारिणः । विषयस्या प्रकृतारोपविषयस्य । अनभिधानात । अयम्भावः-अपह्नतौ प्रकृतं निषिध्याप्रकृतं स्थाप्यते, अनानिषिध्यैव लिङ्गादिना प्रकटितस्य वस्तुनो गोपनम् । इति । द्वितीयापहृतेः। भेदः। तु । तत्प्रस्तावे तस्या अपहृतेः प्रस्तावः प्रसङ्गस्तत्र । दर्शितः। 'गोपनकृता गोपनीयस्यापि प्रथममभिहितत्वाच्च व्याजोक्तेः' इत्यनेनेति शेषः । तत्र गोपनकृता गोपनीयं प्रथममभिधीयते, अत्र तु न तथैत्येतयोर्भेद इति भावः।
स्वभावोक्किं लक्षयति-१८४ दुरुहार्थस्वक्रियारूपवर्णनं दुरूहे ये अर्थस्त्रक्रियारूपे तयोर्वर्णनम् । अर्थस्य खक्रियारूपे इत्यर्थखक्रियारूपे । स्वे खकीये ये क्रियारूपे इति खक्रियारूपे । स्वभावोक्तिस्तन्नामाऽलङ्कारः । अयम्भावः-यस्य या क्रिया रूपं वा, तयोः कविमात्रवेद्ययोः सतोवर्णनं खभावोक्तिर्नामालङ्कारः । इति ।
सूत्रं सुगमयितुं तत्कठिनाशं व्याचष्टे-दुरूहयोः । कविमात्रवेद्ययोः। मात्रपदेन पामरजननिरासः, एतेन'वा मुखं व्यादाय बुक्कतीत्वादो नातिप्रसङ्गः । अर्थस्य । डिम्भादेः। आदिपदेन-जन्त्वन्तरमात्रस्य ग्रहणम् । डिम्भो बालः । स्वयोः स्वीययोः । तदेकाश्रययोः (इति यावत् )। चेष्टास्वरुपयोः। 'वर्णनं स्वभावोक्ति'रिति शेषः ।* तथा च-दुरूहे ये डिम्भाद्याश्रिते क्रियारूपे तयोवर्णनं खभावोक्तिरिति फलितम् ।।
उदाहरति-यथा। मम-'एषः। तरक्षुयाघ्रविशेषः । 'तरक्षुस्तु मृगादनः ।' इत्यमरः । असकृत् वारंवारम् । लाइलेन पुच्छेन । 'पुच्छोऽस्त्री लूमलाइाले' इत्यमरः । क्षितितलं पृथ्वीम् । अभिहत्य ताडयित्वा। अग्रपद्धयां पादाप्राभ्याम् । 'असकृत् क्षितितल'मिति पूर्वतोऽन्वेति । दारयन भिन्दन् । आत्मनि स्वशरीरे । एव ।
अवलीय विलीय सकुचद्वपुर्भूत्वेति यावत्। अथ । द्रतं त्वरितम् । विक्रमेण । गगनमाकाशम् । प्रोत्पतनुलम्फन् । , स्फूर्जदूवारघोषः स्फूर्जन हङ्कारघोषो यस्य तथोक्तः । भयङ्करं हुङ्कारं कुर्वनिति भावः । प्रतिदिशं दिशिदिशि।
अखिलान् । जन्तून् मृगादीन् । द्रावयन सवेग सञ्चालयन् । कोपाविष्टः कुपितः । अत एव-अरुणोच्छनचक्षररुणे शोणवणे अथ च-उच्छूने स्फीते चक्षुषी नेत्रे यस्य तथोक्तः 'सन्नि'ति शेषः । प्रतिवनं वनंवनम्, यद्वा-वनं प्रतीत्यर्थः । प्रविष्टः । अत्र कोपाविष्टस्य क्रियारूपं च दर्शितम् । शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥२९२॥' यथा वा-'प्रीवाभङ्गाभिरामम्मुहरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । शष्पैरआँवलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुव्या प्रयाति ॥' इति ॥
• भाविकं लक्षयति-१८४ भूतस्य जातस्य । अथ । भविष्यतो भाविनः । अद्भुतस्य । पदार्थस्य । यत् । प्रत्यक्षायमाणत्वं प्रत्यक्षवद्भासमानत्वम् । तत् । भाविकम्भावो वक्तरभिप्रायो वर्णनीयस्वरूपेणास्तीति तथोक्तम् (व्यङ्गथम्) उपचारात्तनामाऽलङ्कारः। उदाहतं कथितम् ॥ १४६ ॥