Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 875
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः। - २९७ १७७ उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः ॥ १४१॥ कल्पितेऽप्युपमानत्वे प्रतीपं केचिदूचिरे । यथा-'अहमेव गुरुः सुदारुणानामिति हालाहल ! ताप्त ! मा स्म दृप्यः । मनु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥ २८२॥' अत्र प्रथमपादे उत्कर्षातिशय उक्तः। तदनुक्तौ तु नायमलङ्कारः, यथा-'ब्रह्मेव ब्राह्मणो वदती'त्यादि। १७८ मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा ॥ १४२ ॥ अत्र समानलक्षणं वस्तु क्वचित्सहज, क्वचिदागन्तुक; क्रमेण यथा-- 'लक्ष्मीवक्षोजकस्तूरीलक्ष्म वक्षःस्थले हरेः । ग्रस्तं नालक्षि भारत्या भासा नीलोत्पलाभया॥२८॥ अत्र भगवतः श्यामा कान्तिः सहजा। मतान्तरेण प्रतीपं लक्षयति-१७७ केचित । अत्युत्कृष्टस्य येन धर्मेण यदत्युत्कृष्टं तस्येति भावः । वस्तुनः। अत्यन्तम् । उत्कर्ष तेन धर्मणोत्कृष्टत्वम्। उक्ता कथयित्वा । च (इदं प्रकारान्तरबोधनार्थम् ) । उपमानत्वे । कल्पिते । अपि । 'तदपकर्षप्रत्यायन मिति शेषः । प्रतीपम् । ऊचिरे कथयामासुः । अयम्भावः-येन धर्मेण यदुत्कृष्टं तस्योपमानतयाऽप्रसिद्धस्यापि तेनैव 'धर्मेणोत्केषमभिधाय तस्यापकः द्योतयितुमुपमानत्वकल्पनमपि प्रतीपम् । इति ॥१४१ ॥ ___उदाहरति-यथा-'हे तात वत्स ! हालाहल ! सुदारुणानाम् । गुरुर्मुख्यः । अहम् ( हालाहलः ) । एव । इति । त्वम्-मा। स्म। दृप्यो गर्व कृथाः । हेतु निर्दिशति-ननु । अस्मिन् । भुवने संसारे । भवाह'शानि भवत्सदृशानि । दुर्जनानाम्। वचनानि । भूयः पुनः । सन्ति । अत्र हालाहलस्यात्युत्कटदुःखहेतुत्केनोत्कर्षमभिधाय दुर्जनवचनोपमानत्वेन तस्याप्रसिद्धस्यापि उपमानत्वं कल्पयित्वाऽसदृशत्वनिराकरणेन तिरस्करणम् । एवं च तिरस्कारफलकोपमानापकर्षबोधानुकूलव्यापारस्य स्फुटं समन्वयः । मालभारिणीछन्दः, तल्लक्षणं च यथोक्तम्-'विषमे ससजा यदा गुरू चेत्सभरा येन तु मालभारिणीयम् । ' इति ॥ २८२॥' ... नन्वत्रोपमैव किं न स्वीक्रियत इत्याशङ्कयाह-अत्रोदाहृते पद्ये । प्रथमपादे । उत्कर्षातिशयोऽत्युत्कटदुःखहेतुत्वेनासदृशत्वोक्तिमूलोऽतिशयः । उक्तः। तदनुक्तौ । तु । अयं प्रतीपाख्यः । अलङ्कारः । न । यथा।'ब्राह्मणः। ब्रह्मा । इव । वदति ।' इत्यादि । इदमुक्तम्-'ब्रह्मैवे'त्यादौ उपमैव, नतु प्रतीपालङ्कारः, अत्र य प्रतीपमेव, न तूपमा; उपमानत्वेनाभिधास्यमानस्य हालाहलस्यात्युत्कर्षाभिधानात्, तत्र च ब्रह्मणोऽत्युत्कर्षानभिधानाच्च । इति । मीलित लक्षयति-१७८ केनचित् । तुल्यलक्ष्मणा तुल्यं लक्ष्म यस्य तथोक्तेन, सदृशेन वस्तुनेति भावः । वस्तुनः । गुप्तिस्तिरोभावोऽलक्षितत्वमिति यावत् । मीलितं तदाख्योऽलङ्कारः ॥ १४२ ॥ येन निगृहनं तस्य द्वैविध्यं निर्दिशति-अत्रेत्यादिना । स्पष्टम् । अत एवाहुः-'समेन लक्ष्मणा वस्तु वरतुना यन्निग. ह्यते । निजेनागन्तुना वाऽपि तन्मीलितमिति स्मृतम् ॥' इति । एवं च-तुल्यस्वरूपयोरपि वस्तुनोरेकस्थ व वतोऽन्येन वा केनापि हेतुनोत्कृष्टत्वं सम्भवति तेन यदि अपरस्य वस्तुनस्तिरोधानम्भवेत् तर्हि मीलितं नामालङ्कारः । उत्कर्षस्य च द्विविधतयाऽस्यापि द्विविधत्वम् । इति फलितम् । उदाहत्तुमुपक्रमते-क्रमेण । यथा-'भारत्या सरस्वत्या सपत्न्येति भावः (कर्तृपदमिदम् ) । हरेर्नारयणस्य । नीलोत्पलाभया नीलोत्पलस्याभेवाभा यस्यास्तया तथोक्तया। भासा कान्या । ग्रस्तं तिरोहितम् । वक्षःस्थले। लक्ष्मीवक्षोजकस्तूरीलक्ष्म लक्ष्म्या वक्षोजौ कुचौ तयोः (आलिङ्गनकाले समर्पितम् ) कस्तूरीलक्ष्म कस्तयाँ लक्ष्म चिह्नमिति तथोक्तम् ( इदं कर्मपदम् ) । न । अलक्षि । अत्र भगवतो देहप्रभया कस्तूरीलक्ष्मणो निगृहनम् । एतच्च-उत्कृष्टेन निकृष्टस्यैव सम्भवतीति बोध्यम्, अत एव-सामान्यादस्य भेदो वक्ष्यते ॥ २८३ ॥' तिरोधायिकाय भासः स्वाभाविकत्वमत्रोह्यमित्याह-अत्रेत्यादि । स्पष्टम् । ३८

Loading...

Page Navigation
1 ... 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910