Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 876
________________ २९८ साहित्यदर्पणः। दशमः'सदैव शोणोपलकुण्डलानां यस्याम्मयूखैररुणीकृतानि । कोपोपरक्तान्यपि मानिनीनां मुखानि शङ्कां विदधुर्न यूनाम् ॥ २८४ ॥ अत्र माणिक्यकुण्डलानामरुणिमा मुखेष्वागन्तुकः। १७९ सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः । यथा--'मल्लिकाचितधम्मिल्लाश्चारुचन्दनचर्चिताः। ___ अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः ॥ २८५ ॥' मीलिते उत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानम् , इह तूभयोस्तुल्यगुणतया भेदाग्रहः । १८० तद्गुणः स्वगुणत्यागादत्युत्कृष्टगुणग्रहः ॥ १४३ ॥ यथा-'जमाद वदनच्छद्मपद्मपर्यन्तपातिनः। नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥२८६ ॥ मीलिते प्रकृतस्य वस्तुनो वस्त्वन्तरेणाच्छादनम्, इह तु वस्त्वन्तरगुणेनाक्रान्तता प्रतीयत इति भेदः। १८१ तद्रपाननुहारस्तु हेतौ सत्यप्यतद्गुणः । । 'यस्यां नगर्याम् । सदा । एव । शोणोपलकुण्डलानां शोणा रक्ता उपला रत्नानि येषु तादृशानि यानि कुण्डलानि तेषाम् । मयूखैः किरणैः। अरुणीकृतानि रक्तिमानं नीतानि । मनिनीनाम। कोपोपरक्तानि कोपेन क्रोधनोपरक्तानि रक्तप्रभत्वं गतानि । अपि । मुखानि । यूनां कामुकानाम् । शङ्का कोपभयम् । न । विदधुश्चक्रः । कस्याश्चिन्नगा वर्णनमिदम् । अत्र माणिक्यप्रभया कोपरक्तिम्नो निगृहनम् । उपेन्द्रवजेन्द्रवज्रयोरुपजातिश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ २८४ ॥' अत्र तिरोधायिकायाः कान्ते आगन्तुकत्वमित्याह-अत्रेत्यादि । स्पष्टम् । सामान्य लक्षयति-१७९ सदृशैः । गुणैः। प्रकृतस्य प्रस्तुतस्य वयस्येति यावत् । अन्यतादात्म्यमन्य. स्याप्रस्तुतस्य तादात्म्यमभिन्नत्वम् , नतु तिरोभावः । सामान्यं तदाख्योऽलङ्कारः। उदाहरति-यथा-मल्लिकाचितधम्मिल्ला मल्लिकाभिः तृणशून्यपुष्पैराचिता अलङ्कृता धम्मिल्लाः संयताः कचा यास तथोक्ताः । 'तृणशुन्यं तु मल्लिका।' इत्यमरः । चारुचन्दनचार्चताश्चारु शुभ्रातिशयिततया सुन्दरं यत् चन्दनं तेन चर्चिताः कृतसङ्गिरागाः । अत एव-चन्द्रिकासु । अविभाव्या भिन्नत्वेनानिश्चेयाः । अभिसा. रिकाः कान्तसझाभिलाषेण सङ्केतस्थानगन्त्र्यो नायिकाः । सुखम् । यान्ति । अत्र चन्द्रिकासदृशैर्मल्लिकादिगुणचन्द्रिकाऽभिन्नत्वेनाभिसारिकाणां प्रत्ययः ॥ २८५॥' मीलितादस्य भेदं निर्दिशति-मीलित इत्यादिना । स्पष्टम् । तद्गुणं लक्षयति-१८० स्वगुणत्यागात् स्वस्य प्रस्तुतस्य गुणस्तस्य त्यागस्तस्मात् तं कृस्वेत्यर्थः । ल्यबर्थेयं पञ्चमी । अत्यस्कष्टगुणग्रहोऽत्युत्कृष्टस्याप्रस्तुतस्य गुणस्तस्य ग्रहो ग्रहणम् । तद्वणः सोऽत्युत्कृष्टो वस्त्वन्तरगतो गुणो यत्र तथोक्तः, तन्नामाऽलङ्कारः ॥ १४३ ॥ उदाहरति-यथा । 'वदनच्छद्मपद्मपर्यन्तपातिनो वदनं मुखं छद्म कपटो यस्य तादृशं यत् पद्मं तस्य पर्यन्तः तत्र पातिनस्तान् । मुखकमललुब्धानित्यर्थः । मधुलिंहो भ्रमरान । उदग्रदशनांशुभिरुद्रना उन्नता ये दशनांशवो दन्तकान्तयस्तैः । श्वैत्यम् । नयन् प्रापयन् (द्विकर्मकोऽयं धातुः ) । बलदेव इति प्रकृतोऽर्थः । जगाद । अत्र भ्रमराणां निकृष्टस्य मालिन्यस्य त्यागपूर्वकमुत्कृष्टस्य श्चैत्यस्य ग्रहणम् । शिशुपालवधस्येदं पद्यम्॥२८६॥' मनु उत्कृष्टेन निकृष्टस्य तिरोधानसाम्ये मीलितादस्य को भेदः ? इत्याशङ्कयाह-मीलित इत्यादि । स्पष्टोऽर्थः । अयम्भावः-मीलिते वस्तुनस्तिरोभावः, अत्र गुणमात्रस्येति विशेषः । इति । ... अतद्गुणं लक्षयति-१८१ हेतौ कारणे । सति । अपि । तद्रूपाननुहारस्तस्याप्रस्तुतस्य रूपं खरूपं तस्याननुहारोऽनुहाराभावो ग्रह्णाभाव इति यावत् । तु अतद्गुणस्तन्नामाऽलङ्कार इत्यर्थः । परगुणग्रहणसामग्रीसत्त्वेऽपि परगुणाग्रहणमतद्गुणों नामालङ्कार इति फालतोऽथः ।

Loading...

Page Navigation
1 ... 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910