Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 874
________________ २९६ साहित्यदर्पणः । प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् ॥ १४० ॥ निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥ १७६ क्रमेण यथा- 'वत्र समानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये! तव मुखच्छायानुकारी शशी । येsपि वमनानुसारिगतयस्ते राजहंसा गतास्वत्वादृश्य विनोदमात्रमपि में दैवेन न क्षम्यते ॥ २८० ॥ 'तद्वक्रं यदि मुद्रिता शशिकथा हा हेम, खा चेद् द्युतिस्तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत्स्मितं का सुधा । धिक् कन्दर्पधनुर्भुव यदि च ते किंवा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तु विमुखः सर्गक्रमो वेधसः ॥ २८९ ॥' अत्र वादिभिरेव चन्द्रादीनां शोभाऽतिवहनात्तेषां निष्फलत्वम् । [ दशम: संसृतिगर्त्तमध्ये नैतावता तव गमिष्यति पुत्रशोकः ॥' इति । यत्तक्तं गङ्गाधरकारैः - 'अत्र विचार्यते - हेतुत्प्रेक्षयैव गतार्थत्वान्नेदमलङ्कारान्तरम्भवितुमर्हति ।... हेतुतायाश्च स्फुटं प्रतीतेः । ' अस्मिन्नलङ्कारे हेतुत्वं निश्चीयमानम्, हेतूत्प्रेक्षायां तु सम्भाव्यमानमित्यस्ति विशेष इति चेत् ! प्रतीयमान हेतूत्प्रेक्षात्वापत्तेः । वाचकस्यैवादेरभावाद्धेतुत्वस्य निश्चीयमानतायास्तत्रापि वक्तुं शक्यत्वात् । 'अस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवकसदृशाकृर्ति कृती राहुरिन्दुमधुनाऽपि बाधते ॥' इत्यलङ्कारसर्वस्वकृतोदाहृते प्राचीनपयेऽपि भगवद्वैरानुबन्धादिव भगवद्वसदृशमिन्दुं राहुबधत इति प्रतीतेरुत्प्रेक्षैव गम्यमाना । 'मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु ताम्मदनः ॥' इति कुवलयानन्दकारेणोदाहृते तु पये हेत्वंश उत्प्रेक्षांशश्वेत्युभयमपि शाब्दमिति कथङ्कारमस्यालङ्कारस्योदाहरणतां नीतमिदमायुष्मतेति न विद्मः । प्रतिपक्षगतबलवत्त्वस्वात्मगतदुर्बलत्वयोः प्रतीतेर्हेतूत्प्रेक्षान्तरादस्य वैलक्षण्यम् । नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमीष्टे, तदविनाभावात् । किंतु तदवान्तरविशेषीभवितुम् । नहि पृथिव्यवान्तरभेदाद्धात् पटो विलक्षण इति पृथिव्या बहिर्भवतीत्यपि वदन्ति ।' इति, तन्निराकृतं तस्यैव व्याख्यातृभिः 'हेतूत्प्रेक्षासत्त्वेऽपि तद्धेतुकप्रतिपक्षीयबाधे नैतद्विषयत्वाच्चिन्त्यमिदम् ।' इति ॥ २७९ ॥ प्रतीपं लक्षयति- १७६ प्रसिद्धस्य । उपमानस्य सादृश्यप्रतियोगिनः । उपमेयत्वप्रकल्पनमुपमेयत्वस्य सादृश्यानुयोगित्वस्य प्रकल्पनम् । वा यद्वा । निष्फलत्वाभिधानं व्यर्थत्वकथनम् । प्रतीपम् । इति । कथ्यते । । इदम्बोध्यम्-उपमानापकर्षानुभावको वाग्व्यापारः प्रतीपनामाऽलङ्कारः, स च द्विविधः, उपमानस्यापकर्षमनुभावयितुमुपमेयत्वेनाभिधानम्, निष्फलत्ववचनं चेति ॥ १४० ॥ उदाहर्तुमुपक्रमते - क्रमेणेत्यादि । स्पष्टम् । 'यत्त्वदित्यादि । व्याख्यातपूर्वमिदम् । अत्र नेत्रादेरुपमेयस्येन्दीवराद्युपमानं प्रसिद्धं, तस्य च वैपरीत्याभिधानात् प्रतीपम् ॥ २८० ॥ 1 'यदि । तत् । वक्रम्मुखम् । तर्हि शशिकथा शशिनश्चन्द्रस्य कथोत्कर्षप्रत्यायिका चर्चेति तथोक्ता । मुद्रिता सङ्कुचिता नष्टेति यावत् । चेत् । सा । द्युतिः शोभा । तर्हि हे हेम स्वर्ण ! हा कष्टं त्वं मृतमिति भावः । यदि । तत् । चक्षुत्रम् । तर्हि - कुवलयैर्नीलकमलैः । हारितं पराभूतं पराभवोऽङ्गीकृत इति यावत् । चेत् । तत् । स्मितं मन्दहसितम् । तर्हि सुधा । का। यदि । च । ते । भ्रुवौ । तर्हि कन्दर्पधनुः कन्दर्पस्य कामस्य धनुस्तत्तथोक्तम् । धिक् । किंवा । बहु । ब्रूमहे कथयामः । यत् । वेधसो ब्रह्मणः । पुनरुक्तवस्तुविमुखः पुनरुक्तं पुनरुक्तिविषयं यद्वस्तु तस्मात् विमुखः शून्यः । सर्गक्रमः सृष्टिनियमः । इति तत् सत्यम् । सीतां ध्यायतो रावणस्येयमुक्तिः । तत्पदं च दृष्टपूर्वतत्तद्वैलक्षण्यसूचनार्थम् । हनुमन्नाटकस्येदम्पयम् । शार्दूलविक्रीडितं वृत्तम्, तल्लक्षणं चोक्तं प्राक् ॥ २८१ ॥ ' उदाहृतमर्थं निर्दिशति-अत्रेत्यादिना । स्पष्टम् ।

Loading...

Page Navigation
1 ... 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910