Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 872
________________ ३९४ . साहित्यदर्पणः। [ दशमःकपोतवत् सर्वेषां कारणानां साहित्येनावतारः । समाध्यलङ्कारे त्वेककार्य प्रति साधके समग्रेऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः। 'अरुणे च तरुणि ! नयने तव मलिनं च प्रियस्य मुखम् । मुखमानतं च सखि ! ते ज्वलितश्चास्यान्तरे स्मरज्वलनः ॥ २७६ ॥ अत्रायेऽद्धे गुणयोल्गपद्यम्, द्वितीये क्रिययोः । उभयो-गपद्ये यथा-- 'कलुषं च तवाहितेष्वकस्मात् सितपङ्केरुहसोदरभि चक्षुः । पतितं च महीपतीन्द्र ! तेषां वपुषि मस्फुटमापदां कटाक्षः ॥२७७॥' 'धुनोति चासिं तनुते च कीर्तिम्' इदमुक्तम्-शशी शोभनस्तस्य दिवसधूसरत्वेनाशोभनेन योगः, एवमेव कामिन्यादयः शोभना गलितयौवनत्वादिनाऽशोभनेन च तेषां योग इति सदसद्योगात्मा समुच्चयः । 'शशी दिवसधूसर' इत्यादौ विशेष्यभूताः शश्यादयः शोभना दिवसधूसरादयो विशेषणभूताः । पुनरशोभना इत्युपक्रमः, अस्य च 'नृपाङ्गणगतः खलः' इत्यत्र भङ्गः, विशेष्यस्य खलस्याशोभनत्वात् , विशेषणस्य नृपाङ्गणगतपदार्थस्य शोभनत्वाच । एतेन-'शशिप्रभृतीनां शोभनत्वं खलस्याशोभनत्वं चेति सदसद्योग'इति प्रत्युक्तम् । इति । समाधेरस्य भेदं निर्दिशति-इहास्मिन् समुच्चयोदाहरणे। च । खले धान्यादिक्षेत्रे । कपोतवत् कपोतानामिव । 'तत्र तस्येव ।' ५।१।११६ इति वतिः । सर्वेषाम् । कारणानां धूसरत्वादीनां हेतूनामिति भावः । साहित्येन । अवतारः। समाध्यलङ्कारे। तु । एककार्यम् । प्रति । समग्रे पयाप्ते । अपि । साधके कारणे । अन्यस्य साधकान्तरस्य । काकतालीयन्यायेन । आपतनम् । इति । भेदः। 'यत्र कार्यविशेष मिलितान्येव कारणानि जनयन्ति समुच्चयस्य विषयः । यत्र त्वेकस्मिन् कारणे फलसाधनायानुष्ठीयमाने देवादुत्पन्न कारणान्तरेण तत्फलस्य सुकरत्वं स समाधिरिति भावः ।' इति विवृतिकाराः। अथ गुणयोः क्रिययोश्च समुच्चयमुदाहरति-'हे तरुणि! तव । नयने । अरुणे रक्ते । च (इदं समुच्चयार्थम्) । तव-प्रियस्य । मुखम् । मलिनं विच्छायम् । च । हे सखि! ते तव । मुखम् । आनतम् । च । अस्य त्वत्प्रियस्य । अन्तरेऽन्तः। स्मरज्वलनः कामाग्निः । ज्वलितः। च । नायकदृत्या नायिका प्रत्युक्तिरियम् । उद्गीतिश्छन्दः ॥ २७६ ॥' उदाहृतमथै निर्दिशति-अत्रोदाहते पद्ये । आये । अर्धे । गुणयोररुणत्वमलिनत्वयोः । यौगपद्यमेककालावच्छेदेन समुच्चयः । द्वितीये । 'अर्द्ध' इति शेषः । क्रिययोरानमनज्वलनयोः । 'योगपद्यमिति शेषः । यथा वा'प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः । रक्कं च पथिकहृदयं कपोळपाली मृगीदृशः पाण्डः ॥' अत्र मलि त्वपाण्डत्वगुणानां सदसदां योगः । 'उदितं मण्डलमिन्दोरुदितं सद्यो वियोगिवर्गेण । मुदितं च सकलयुवजनचूडामणि शासनेन मदनेन ॥' अत्रोदयनरोदनमोदनरूपाणां शोभनाशोभनक्रियाणां योगः । ___ गुणक्रिययोयौंगपद्यमुदाहर्तुमाह-उभयोगुणक्रिययोः । यौगपद्ये । 'समुच्चय' इति शेषः । यथा-'हे महीप तीन्द्र महीपतीनां राज्ञामिन्द्रस्तत्सम्बुद्धौ तथोक्त ! राजाधिराजेत्यर्थः । तव । सितपड्केरुहसोदरश्रि सितानि यानि पङ्कहाणि कमलानि तेषां सोदराऽत्यन्तं समाना श्रीः शोभा यस्य तथोक्तम् । चक्षुर्नेत्रम् । अहितेषु शत्रुषु । अकस्मात् दैवात् । कलुषं रोषाबिलम् । च ( इदं समुच्चयार्थम् ) । तेषां तव कलुषचक्षुर्विषयीभूतानां शत्रूणामित्यर्थः । वपुषि (जात्यभिप्रायेणैकत्वम् ) । आपदामापती-तद्रूपाणां कालमाथिकानामिति भावः । कटाक्षः। प्रस्फुटम् । पतितम् च । अत्र कलुषत्वगुणपतनक्रिययोर्योगः । औपच्छन्दसिक वृत्तमिदम्, तल्लक्षणं च यथोक्तम्'गौपच्छन्दसिकम् ।' इति ॥ २७७ ॥ यथा वा मम-'पतिते पतितेऽपि ते कटाक्ष विभुताभिः समुपास्यते स सद्यः । विपदां विरतिस्ततस्तदैव सुरतिस्तत्र मुकुन्द ! सम्पदां च ॥ इति ॥ इति । अस्य प्रायो वैयधिकरण्ये एव सम्भवः, किन्तु क्वचित्सामानाधिकरण्येऽपीत्याशयेनोदाहरति-'असिं खड्गम् । धुनोति कम्पयति चञ्चलयतीति यावत् । च। कीर्तिम् । च । तनुते वितनोति । 'प्रियापणैरप्सरसां प्रमोदिता।

Loading...

Page Navigation
1 ... 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910