________________
३९४ . साहित्यदर्पणः।
[ दशमःकपोतवत् सर्वेषां कारणानां साहित्येनावतारः । समाध्यलङ्कारे त्वेककार्य प्रति साधके समग्रेऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः।
'अरुणे च तरुणि ! नयने तव मलिनं च प्रियस्य मुखम् । मुखमानतं च सखि ! ते ज्वलितश्चास्यान्तरे स्मरज्वलनः ॥ २७६ ॥ अत्रायेऽद्धे गुणयोल्गपद्यम्, द्वितीये क्रिययोः । उभयो-गपद्ये यथा--
'कलुषं च तवाहितेष्वकस्मात् सितपङ्केरुहसोदरभि चक्षुः ।
पतितं च महीपतीन्द्र ! तेषां वपुषि मस्फुटमापदां कटाक्षः ॥२७७॥' 'धुनोति चासिं तनुते च कीर्तिम्' इदमुक्तम्-शशी शोभनस्तस्य दिवसधूसरत्वेनाशोभनेन योगः, एवमेव कामिन्यादयः शोभना गलितयौवनत्वादिनाऽशोभनेन च तेषां योग इति सदसद्योगात्मा समुच्चयः । 'शशी दिवसधूसर' इत्यादौ विशेष्यभूताः शश्यादयः शोभना दिवसधूसरादयो विशेषणभूताः । पुनरशोभना इत्युपक्रमः, अस्य च 'नृपाङ्गणगतः खलः' इत्यत्र भङ्गः, विशेष्यस्य खलस्याशोभनत्वात् , विशेषणस्य नृपाङ्गणगतपदार्थस्य शोभनत्वाच । एतेन-'शशिप्रभृतीनां शोभनत्वं खलस्याशोभनत्वं चेति सदसद्योग'इति प्रत्युक्तम् । इति ।
समाधेरस्य भेदं निर्दिशति-इहास्मिन् समुच्चयोदाहरणे। च । खले धान्यादिक्षेत्रे । कपोतवत् कपोतानामिव । 'तत्र तस्येव ।' ५।१।११६ इति वतिः । सर्वेषाम् । कारणानां धूसरत्वादीनां हेतूनामिति भावः । साहित्येन । अवतारः। समाध्यलङ्कारे। तु । एककार्यम् । प्रति । समग्रे पयाप्ते । अपि । साधके कारणे । अन्यस्य साधकान्तरस्य । काकतालीयन्यायेन । आपतनम् । इति । भेदः। 'यत्र कार्यविशेष मिलितान्येव कारणानि जनयन्ति समुच्चयस्य विषयः । यत्र त्वेकस्मिन् कारणे फलसाधनायानुष्ठीयमाने देवादुत्पन्न कारणान्तरेण तत्फलस्य सुकरत्वं स समाधिरिति भावः ।' इति विवृतिकाराः।
अथ गुणयोः क्रिययोश्च समुच्चयमुदाहरति-'हे तरुणि! तव । नयने । अरुणे रक्ते । च (इदं समुच्चयार्थम्) । तव-प्रियस्य । मुखम् । मलिनं विच्छायम् । च । हे सखि! ते तव । मुखम् । आनतम् । च । अस्य त्वत्प्रियस्य । अन्तरेऽन्तः। स्मरज्वलनः कामाग्निः । ज्वलितः। च । नायकदृत्या नायिका प्रत्युक्तिरियम् । उद्गीतिश्छन्दः ॥ २७६ ॥'
उदाहृतमथै निर्दिशति-अत्रोदाहते पद्ये । आये । अर्धे । गुणयोररुणत्वमलिनत्वयोः । यौगपद्यमेककालावच्छेदेन समुच्चयः । द्वितीये । 'अर्द्ध' इति शेषः । क्रिययोरानमनज्वलनयोः । 'योगपद्यमिति शेषः । यथा वा'प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः । रक्कं च पथिकहृदयं कपोळपाली मृगीदृशः पाण्डः ॥' अत्र मलि त्वपाण्डत्वगुणानां सदसदां योगः । 'उदितं मण्डलमिन्दोरुदितं सद्यो वियोगिवर्गेण । मुदितं च सकलयुवजनचूडामणि शासनेन मदनेन ॥' अत्रोदयनरोदनमोदनरूपाणां शोभनाशोभनक्रियाणां योगः ।
___ गुणक्रिययोयौंगपद्यमुदाहर्तुमाह-उभयोगुणक्रिययोः । यौगपद्ये । 'समुच्चय' इति शेषः । यथा-'हे महीप तीन्द्र महीपतीनां राज्ञामिन्द्रस्तत्सम्बुद्धौ तथोक्त ! राजाधिराजेत्यर्थः । तव । सितपड्केरुहसोदरश्रि सितानि यानि पङ्कहाणि कमलानि तेषां सोदराऽत्यन्तं समाना श्रीः शोभा यस्य तथोक्तम् । चक्षुर्नेत्रम् । अहितेषु शत्रुषु । अकस्मात् दैवात् । कलुषं रोषाबिलम् । च ( इदं समुच्चयार्थम् ) । तेषां तव कलुषचक्षुर्विषयीभूतानां शत्रूणामित्यर्थः । वपुषि (जात्यभिप्रायेणैकत्वम् ) । आपदामापती-तद्रूपाणां कालमाथिकानामिति भावः । कटाक्षः। प्रस्फुटम् । पतितम् च । अत्र कलुषत्वगुणपतनक्रिययोर्योगः । औपच्छन्दसिक वृत्तमिदम्, तल्लक्षणं च यथोक्तम्'गौपच्छन्दसिकम् ।' इति ॥ २७७ ॥ यथा वा मम-'पतिते पतितेऽपि ते कटाक्ष विभुताभिः समुपास्यते स सद्यः । विपदां विरतिस्ततस्तदैव सुरतिस्तत्र मुकुन्द ! सम्पदां च ॥ इति ॥ इति ।
अस्य प्रायो वैयधिकरण्ये एव सम्भवः, किन्तु क्वचित्सामानाधिकरण्येऽपीत्याशयेनोदाहरति-'असिं खड्गम् । धुनोति कम्पयति चञ्चलयतीति यावत् । च। कीर्तिम् । च । तनुते वितनोति । 'प्रियापणैरप्सरसां प्रमोदिता।