Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ]
offerख्यया व्याख्यया समेतः ।
अत्रादाहे एकस्मिंश्चन्दनक्ष्माभृञ्जन्मरूपे कारणे सत्यपि दाक्षिण्यादीनां हेत्वन्तराणामुपादानम् । अत्र सर्वेषामपि हेतूनां शोभनत्वात् सयोगः । अत्रैव चतुर्थपादे मत्तादीनामशोभनानां योगादसद्योगः । सदसद्योगो यथा --
'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ २७५ ॥ ' इह केचिदाहुः - ' शशिप्रभृतीनां शोभनत्वम्, खलस्याशोभनत्वं चेति सदसद्योग' इति । अन्ये तु 'शशिप्रभृतीनां स्वतः शोभनत्वम्, धूसरत्वादीनां त्वशोभनत्वमेवेति सदसद्योगः । अत्र हि शशिप्रभृतिषु धूसरत्वादेरनुचितत्वमिति विच्छित्तिविशेषस्यैव चमत्कारविधायित्वम् 'मनखि सप्त शल्यानि मे' इति सप्तानामपि शल्यत्वेनोपसंहारश्च । 'नृपाङ्गणगतः खल' इति तु क्रमभेदाद् दुष्टत्वमेवावहति, सर्वत्र विशेष्यस्यैव शोभनत्वेन प्रक्रमात् । इति । इह च खले
२९३
उदाहरणं सङ्गमयति-अत्र । अदाहे दाहाभावे दाहकत्वानौचित्यसमर्थन इति यावत् । एकस्मिन् । चन्दनक्ष्माभृज्जन्मरूपे । कारणे । सत्यपि । दाक्षिण्यादीनाम् । आदिपदेन गोदावरीवारिपरिचय - धीरत्वयोर्ग्रहणम् । हेत्वन्तराणाम् । उपादानम् । अथ-अत्र । सर्वेषां चन्दनक्ष्माभृज्जन्मादीनाम् । अपि । हेतूनाम् । शोभनत्वात् । सद्योगः । तथा-अत्र । एव । चतुर्थपादे । मत्तादीनां मत्तत्त्वादीनामित्यर्थः । 'सर्वेषामपीति शेषः । अशोभनानाम् । योगात् । असद्योगः ।
सदसद्द्योगमुदाहरति- सदसद्योग इत्यादिना । स्पष्टम् । 'शशी चन्द्रः । दिवसधूसरो दिवसे धूसरो गतप्रभः । कामिनी । गलितयौवना गलितं नष्टं यौवनं यस्याः तादृशी । सरस्तडागः । विगतवारिजं विग तानि निरस्तानि वारिजानि कमलानि यस्मात्तथोक्तम् । स्वाकृतेः शोभनाऽऽकृतिर्नासिकाद्यङ्गनिवेशपूर्विका ऽङ्गरमणीयता यस्य तस्य भावः । मुखम् । अनक्षरं विद्याहीनम् । प्रभुः खामी । धनपरायणो धनलुब्धः कदय इति यावत् । सज्जनः । सतत दुर्गतः सततं निरन्तरं दुर्गतो दरिद्रः । 'निःखस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः । ' इत्यमरः । खलः पिशुनः । नृपाङ्गणगतो राजसभायां स्थित इति भावः । 'पिशुनो दुर्जनः खलः । इत्यमरः । इत्येतानि सप्त । मे मम । मनसि । शल्यानि बाणाप्रभूतानीति भावः । 'शल्यं तु न स्त्रियां शङ्कौ, क्लीबं क्ष्वेडेषु- तोमरे । मदनदुश्वाविधोर्ना' इति मेदिनी । भर्तृहरिकृतस्य नीतिशतकस्येदं पद्यम् । अत्र पृथ्वीछन्दः, तल्लक्षणं यथोक्तम्' पृथ्वी सौ सौ योग वसुनवकौ ।' इति ॥ २७५ ॥'
1
अत्र द्वैविध्येन सदसद्योगं समर्थयते - इह । केचित् । आहु: । 'शशिप्रभृतीनां चन्द्रादीनाम् । शोभत्वम् | खलस्य । च । अशोभनत्वम् । इति इत्येवम् । सदसयोगः शोभनाशोभनमेलनम् ।' इति । अन्ये । तु । ‘आहुः' इति पूर्वतोऽन्वेति । 'शशिप्रभृतीनाम् । स्वतः स्वभावतः । शोभनत्वम् । धूसरत्वादीनाम् । तु । अशोभनत्वम् । एव । इति 'शोभनाशोभनात्मनां कारणानां योगा' दिति शेषः । सद खद्योगः । ननु 'शशिप्रभृतीनां शोभनत्वं, खलस्य चाशोभनत्व' मित्येव सदसद्योगः किं न स्वीक्रियते ? इत्याशङ्कयाह - हि यतः । अत्र । शशिप्रभृतिषु । धूसरत्व । देर्दिवसधूसरत्वादेः । अनुचितत्वम् । अशोभनत्वम् । इति इत्येतद्विहितस्येत्यर्थः । शोभनेषु अशोभनतापातवर्णनसमर्पितस्येति भावः । विच्छित्तिविशेषस्य । एव । चमत्कारविधायित्वम् । नन्वेतत् कथमवगतमित्याशङ्कय - ' उपक्रमोपसंहाराभ्या' मिति नयं सूचयन्नाह - 'मनसि सप्त शल्यानि मे' इति इत्येवम् । सप्तानाम् । अपि । शल्यत्वेन । उपसंहारः । च । अत्र 'चे'त्यनेम तथौपक्रमस्त्वस्त्वेवे'ति सूच्यते । अयम्भावः - सतां शशिप्रभृतीनां दिवसधूसरत्वायुपक्रम्य तस्यैव 'मनसि सप्त शल्यानि में ' इति समर्थक उपसंहारः । अन्येऽप्याहु: - इह शोभनस्य सतोऽशोभनत्वमिति विवक्षा.. अत एवैकत्रोपसंहृतं 'मनसि सप्त शल्यानि मे ' इति इति । 'नृपाङ्गणगतः । खलः । इति । तु । क्रमभेदात् क्रमस्य विशेष्यस्यान्यत्र सर्वत्र शोभनत्वं विशेषणस्य चाशोभनत्वमित्यस्य मार्गस्य भेदो भिन्नस्तस्मात् । दुष्टत्वम् । एव । आवहति । सर्वत्र । विशेष्यस्य । एव । शोभनत्वेन । प्रक्रमात् । 'अतः - 'नृपाङ्गणमसतुत 'मिति पाठः साधीयान् ।' इति शेषः ।
Loading... Page Navigation 1 ... 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910