Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
३०३
अत्र प्रत्यक्षायमाणस्यैव वर्णनान्नायमलङ्कारः । वर्णनावशेन प्रत्यक्षायमाणत्वस्यास्य सरूपत्वात् । यत् पुनरप्रत्यक्षायमाणस्यापि वर्णने प्रत्यक्षायमाणत्वं तत्रायमलङ्कारो भवितुं युक्तः । यथोदाहृते- 'आसीदञ्जनमत्रे' स्यादौ ।
१८६ लोकातिशयसम्पत्तिवर्णनोदात्तमुच्यते ॥ १४७ ॥ पि प्रस्तुतस्याङ्गं महतां चरितं भवेत् ।
क्रमेणोदाहरणम्
'अधः कृताम्भोधर मण्डलानां यस्यां शशाङ्कोपलकुट्टिमानाम् । ज्योत्स्ना निपातात् क्षरतां पयोभिः केलीवनं वृद्धिमुरीकरोति ॥ २९६ ॥ 'नाभिप्रपन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचित योगनिद्रः संहृत्य लोकान् पुरुषोऽधिशेते ॥ २९७ ॥ ' १८७ रसभावौ तदाभासौ भावस्य प्रशमस्तथा ॥ १४८ ॥ गुणीभूतत्वमायान्ति यदाऽलङ्कृतयस्तदा ।
रसवत्प्रेय ऊर्जस्वि समाहितमिति क्रमात् ॥ १४९॥
एषः । अचामरः । अपि । सदा । एव । विलासवालव्यजनेन । वीज्यते । अतः - अयम् । कोऽपि अलौकिकगुण इत्यर्थः । वंशस्थविलं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ २९५ ॥ '
अत्र - इत्यत्रेत्यर्थः । प्रत्यक्षायमाणस्य । एव । 'नतु भूतस्य भविष्यतो वे 'ति शेषः । वर्णनात् । अयम्भाविकनामा | अलङ्कारः । न । तदेव पुनः स्पष्टयति- अस्य भाविकस्य । वर्णनावशेन वर्णनमहिना । 'नतु विद्यमा नत्वेने 'ति शेषः । प्रत्यक्षायमाणत्वस्य 'भूतभाविनो 'रिति शेषः । सरूपत्वात् । यत् यत्र । पुनः । अप्रत्यक्षायमाणस्य भूतस्य भविष्यतो वेत्यर्थः । वर्णने । अपि । प्रत्यक्षायमाणत्वम् । तत्र । अयं भाविकनामा । अलङ्कारः । भवितुम् । युक्तः । उदाहरति यथेत्यादिना । स्पष्टम् ।
उदात्तं द्विधा लक्षयति- १८६ लोकातिशयसम्पत्तिवर्णना लोकानतिशेतेऽतिक्रामतीति लोकातिशया, साऽसौ सम्पत्तिर्धनादिसम्पत्तस्या वर्णना व्यञ्जनया बोधनम् । यद्वा । अपि । प्रस्तुतस्य वर्णनीयस्य । अङ्गम् । महतां महाप्रभावाणाम् । चरितम् अङ्गमनुप्राणकम् । भवेत् । तदा- उदात्तं तदाख्योऽलङ्कारः । उच्यते । तथा - द्विविधमिदमुदात्तम्, अलौकिकं वैभववर्णनम्, प्रस्तुतानुप्राणक महच्चरितवर्णनं च । उदात्तत्वं च महनीयतावर्णनशालित्वम्, तच्चोभयत्रानुगतमिति बोध्यम् ॥ १४७ ॥
क्रमादुदाहर्तुकाम आह- क्रमेणेत्यादि । स्पष्टम् । 'यस्याम् 'पुर्य्या' मिति शेषः । अधः कृताम्भोधरमण्डलानामधः कृतान्यम्मोधर (मेघ) मण्डलानि ( उच्चतया ) यैस्तथोक्तानाम् । शशाङ्कोपलकुट्टिमानां शशाङ्कोपलाचन्द्रकान्तमणयः कुट्टिमेषु येषां तादृशानाम् । अत एव - ज्योत्स्नानिपाता चन्द्रप्रतिच्छायापातेन । पयोभिर्जलैः । क्षरताम् । केलीवनं क्रीडाऽर्थ निर्मितमुद्यानम् । वृद्धिम् । उरीकरोत्यङ्गीकरोति । उपेन्द्रवजेन्द्रवज्रयोरुपजा • तिरछन्दः, तलक्षणं चोक्तं प्राक् ॥' अत्र स्फुटं पौराणां समृद्धत्वं व्यज्यते ॥ २९६ ॥'
'युगान्तोचित योगनिद्रो युगान्ते प्रलये उचिता योग्या योगनिद्रा यस्य तादृशः । पुरुषः 'पुराण' इति शेषः । नारायण इत्यर्थः । नाभिप्रपन्नाम्बुरुहासनेन नाभेः प्रपन्नमुत्थितं यदम्बुरुहं कमलं तदेवासनं यस्य तादृशेन । प्रथमेन जगदायेन । धात्रा । संस्तूयमानः । लोकान् । संहत्य । अमुं समुद्रम् । अधिशेतेऽधिकृत्य खपिति । अत्र समुद्रमहत्त्वस्याङ्गं नारायणचरितम् । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः, तल्लक्षणं चोकं प्राक् । रघुवंशस्येदं पद्यम् ॥ २९७॥' रसवत्प्रेय ऊर्जखिसमाहितानि लक्षयति- १८७ रसभावौ रसो भावश्चेत्यर्थः । तदाभासौ तयो रसभावयोरामास । तथा । भावस्य । प्रशमः क्षयः । यदा । गुणीभूतत्वं न्यग्भूतचमत्कारत्वम् । आयान्ति । तदा । क्रमात् । रसवत् । प्रेयः । ऊर्जस्वि । समाहितम् । इति । अलङ्कृतयोऽलङ्काराः । तथा च - रसस्य
Loading... Page Navigation 1 ... 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910