Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 863
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः। . यथा--'राज्ये सारं वसुधा, वसुधायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वम् ॥ २५८॥' १६६ यथासङ्ख्यमनूद्देश उद्दिष्टानां क्रमेण यत् ॥ १३२॥ यथा--'उन्मीलन्ति नखै नीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमाविशन्ति वलयवाणैः समुत्रालय । इत्थं वजुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिक ज्याहाराः सुभग ! त्वदीयविरहे तस्याः सखीनां मिथः ॥ २५९ ॥ - १६७. कचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् । __ भवति क्रियते वा चेत्तदा पर्याय इष्यते ॥ १३३ ॥ काराः-"केचित्तु 'आश्लोकसमापनमुत्तरोत्तरोत्कर्षेणायमलङ्कारो भवति । तथात्व एव वैचित्र्यविशेषप्रतीतेः।' इत्याहुः । तन्न । 'लोकसजि द्यौर्दिवि चादितेया अप्यादितेयेषु महान् महेन्द्रः । किं कर्तुम यति सोऽपि रागाजागर्ति कक्षा किमतः परा ते ॥' इत्यादौ श्लोकार्घसमाप्तिपर्य्यन्तमुत्कर्षसत्त्वेनाप्यस्यालङ्कारस्य सम्भवात् ।" इत्याहुः ॥ उदाहरति-यथा-'राज्ये । वसुधा पृथिवी । सारं वरम् । सामान्ये नपुंसकम् 'मृदु पचती' त्यादिवत् । अत एव-'शक्यं चान्नेन श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्' इति 'वृद्धिरादैच् ।' १११ इति सूत्रे महाभाष्यम् । बसुधायाम् । पुरं नगरम् । 'सार'मिति पूर्वतोऽनुषज्यते । पुरे नगरे। सौधं सुधालितं मन्दिरम् । 'सार'मिति पूर्ववत् । सौधे। तल्पं शय्या। 'सार'मिति पूर्ववत् । तल्पे। अनङ्गसर्वस्वमनङ्गस्य कामदेवस्य सर्वस्वं तत्स्वरूपा । बराङ्गना । 'सार'मिति पूर्ववत् । रुद्रटस्य पद्यम् । आया॑छन्दः, तल्लक्षणं चोकं प्राक् ॥ २५८ ॥' यथा वा-'तृणाल्लघु. तरस्कुलस्तूलादपि च याचकः । वायुना किन नीतोऽसौ मामयं याचयेदिति ॥' इति, अत्र अश्लाघ्यगुणानामुत्कर्षः पूर्वत्र श्लाघ्यगुणानामिति विशेषः । . यथासङ्ख्यं लक्षयति-१६६ यत् । उद्दिष्टानां निर्दिष्टानां वस्तूनाम् । क्रमेणोद्देशानुपूर्येण । अनूद्देशः पश्चानिर्देशः । तत्-यथासइख्यं सङ्ख्यामनतिक्रम्येति तथोक्तं, तन्नामाऽलङ्कारः। पूर्व निर्दिष्टानां वस्तूनां पुनर्निर्दि-' टेवंस्तुभिः क्रमेण सम्बन्धो यथासङ्ख्यालकार इति भावः । अत्राहु:-'यद्यपि नात्रालङ्कारोपस्कारकत्वं तथाऽपि बहूना क्रमेण सम्बन्धस्य तत्तया स्वीकारोऽभ्युपगन्तव्यः । यथा कारणमालाऽऽदौ ।' इति ॥ १३२॥ ___उदाहरति-यथा-'उन्मीलन्ति प्रफुल्लन्ति 'वजुला' इति शेषः ( इत्येकयोक्तम् ) निखैः । लुनीहि छिन्धि 'तत् पुष्पाणी'ति शेषः (इति द्वितीयया)। एषां दर्शनं एषा मदनार्दिता यथा न लभेतेति भावः । वहति वाति 'दक्षिणानिल' इति शेषः ( इति तृतीयया)। क्षोमाञ्चलेन पट्टवस्त्रेण । आवृणु प्रतिबधान 'त'मिति शेषः । अन्यथाऽस्य स्पर्शेन विपत्स्यतेऽसाविति भावः (इति चतुर्थ्या)। क्रीडाकाननं क्रीडाऽथै निर्मितमुद्यानम् । आविशन्ति प्रविशन्ति 'कोकिलाः' इति शेषः ( इति पञ्चम्या)। वलयक्वाणेवलयानां कङ्कणानां क्वाणाः शब्दास्तैः । समुत्त्रासय । यदि तेषां कलं श्रोष्यति तदेयं सद्यो विपत्स्यत इति भावः ( इति षष्ठयोक्तम् ) । हे सुभग ! इत्थम् । त्वदीयविरहे तव विरहे । तस्या मृतप्रायत्वेन त्वद्विरहेण वा हतभागाया इति भावः । सखीनाम् । मिथः। वजुल-दक्षिणानिल-कुहूकण्ठेषु । वजुला बकुलाः । दक्षिणानिलश्चन्दनसुगन्धितो वायुः । कुहूकण्ठाः कोकिलाः। विषये सप्तमीयम् । साङ्केतिकव्याहारा इङ्गितमात्रेण वचनानि । 'भवन्तीति शेषः । अत्रो'न्मीलन्ती' त्याद्युक्त्वा 'वजुले'त्यादिना पश्चानिर्देशः । शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं चोक्तं प्राक् । नायकं प्रति दूत्या उक्तिरियम् ॥ २५९ ॥' पर्यायं लक्षयति-१६७ चेत् । क्वचित् । एक 'वस्त्विति शेषः । अनेकस्मिन् । 'भवति क्रियते वा' इति परेणान्वयः । अनेकम् 'वस्त्वि'ति शेषः । च । एकगमेकनिष्ठम् । क्रमात् नतु योगपद्येन (अत एव समुच्चयादौ 'योगपद्येने ति निवेशनीयम्)। भवति । क्रियते । वा। तदा। पायः क्रमिकः, अतस्तन्नामालङ्कारः । इष्यते स्वीक्रियते । अत्र ‘क्रमेणे'ति समुच्चयो, द्वितीयप्रभेदो विशेषश्च व्यवच्छिन्ते। इदम्बोध्यम्-एकमनेकगं भव

Loading...

Page Navigation
1 ... 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910