________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। . यथा--'राज्ये सारं वसुधा, वसुधायां पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वम् ॥ २५८॥'
१६६ यथासङ्ख्यमनूद्देश उद्दिष्टानां क्रमेण यत् ॥ १३२॥ यथा--'उन्मीलन्ति नखै नीहि वहति क्षौमाञ्चलेनावृणु
क्रीडाकाननमाविशन्ति वलयवाणैः समुत्रालय । इत्थं वजुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिक
ज्याहाराः सुभग ! त्वदीयविरहे तस्याः सखीनां मिथः ॥ २५९ ॥ - १६७. कचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् ।
__ भवति क्रियते वा चेत्तदा पर्याय इष्यते ॥ १३३ ॥ काराः-"केचित्तु 'आश्लोकसमापनमुत्तरोत्तरोत्कर्षेणायमलङ्कारो भवति । तथात्व एव वैचित्र्यविशेषप्रतीतेः।' इत्याहुः । तन्न । 'लोकसजि द्यौर्दिवि चादितेया अप्यादितेयेषु महान् महेन्द्रः । किं कर्तुम यति सोऽपि रागाजागर्ति कक्षा किमतः परा ते ॥' इत्यादौ श्लोकार्घसमाप्तिपर्य्यन्तमुत्कर्षसत्त्वेनाप्यस्यालङ्कारस्य सम्भवात् ।" इत्याहुः ॥
उदाहरति-यथा-'राज्ये । वसुधा पृथिवी । सारं वरम् । सामान्ये नपुंसकम् 'मृदु पचती' त्यादिवत् । अत एव-'शक्यं चान्नेन श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्' इति 'वृद्धिरादैच् ।' १११ इति सूत्रे महाभाष्यम् । बसुधायाम् । पुरं नगरम् । 'सार'मिति पूर्वतोऽनुषज्यते । पुरे नगरे। सौधं सुधालितं मन्दिरम् । 'सार'मिति पूर्ववत् । सौधे। तल्पं शय्या। 'सार'मिति पूर्ववत् । तल्पे। अनङ्गसर्वस्वमनङ्गस्य कामदेवस्य सर्वस्वं तत्स्वरूपा । बराङ्गना । 'सार'मिति पूर्ववत् । रुद्रटस्य पद्यम् । आया॑छन्दः, तल्लक्षणं चोकं प्राक् ॥ २५८ ॥' यथा वा-'तृणाल्लघु. तरस्कुलस्तूलादपि च याचकः । वायुना किन नीतोऽसौ मामयं याचयेदिति ॥' इति, अत्र अश्लाघ्यगुणानामुत्कर्षः पूर्वत्र श्लाघ्यगुणानामिति विशेषः । . यथासङ्ख्यं लक्षयति-१६६ यत् । उद्दिष्टानां निर्दिष्टानां वस्तूनाम् । क्रमेणोद्देशानुपूर्येण । अनूद्देशः पश्चानिर्देशः । तत्-यथासइख्यं सङ्ख्यामनतिक्रम्येति तथोक्तं, तन्नामाऽलङ्कारः। पूर्व निर्दिष्टानां वस्तूनां पुनर्निर्दि-' टेवंस्तुभिः क्रमेण सम्बन्धो यथासङ्ख्यालकार इति भावः । अत्राहु:-'यद्यपि नात्रालङ्कारोपस्कारकत्वं तथाऽपि बहूना क्रमेण सम्बन्धस्य तत्तया स्वीकारोऽभ्युपगन्तव्यः । यथा कारणमालाऽऽदौ ।' इति ॥ १३२॥ ___उदाहरति-यथा-'उन्मीलन्ति प्रफुल्लन्ति 'वजुला' इति शेषः ( इत्येकयोक्तम् ) निखैः । लुनीहि छिन्धि 'तत् पुष्पाणी'ति शेषः (इति द्वितीयया)। एषां दर्शनं एषा मदनार्दिता यथा न लभेतेति भावः । वहति वाति 'दक्षिणानिल' इति शेषः ( इति तृतीयया)। क्षोमाञ्चलेन पट्टवस्त्रेण । आवृणु प्रतिबधान 'त'मिति शेषः । अन्यथाऽस्य स्पर्शेन विपत्स्यतेऽसाविति भावः (इति चतुर्थ्या)। क्रीडाकाननं क्रीडाऽथै निर्मितमुद्यानम् । आविशन्ति प्रविशन्ति 'कोकिलाः' इति शेषः ( इति पञ्चम्या)। वलयक्वाणेवलयानां कङ्कणानां क्वाणाः शब्दास्तैः । समुत्त्रासय । यदि तेषां कलं श्रोष्यति तदेयं सद्यो विपत्स्यत इति भावः ( इति षष्ठयोक्तम् ) । हे सुभग ! इत्थम् । त्वदीयविरहे तव विरहे । तस्या मृतप्रायत्वेन त्वद्विरहेण वा हतभागाया इति भावः । सखीनाम् । मिथः। वजुल-दक्षिणानिल-कुहूकण्ठेषु । वजुला बकुलाः । दक्षिणानिलश्चन्दनसुगन्धितो वायुः । कुहूकण्ठाः कोकिलाः। विषये सप्तमीयम् । साङ्केतिकव्याहारा इङ्गितमात्रेण वचनानि । 'भवन्तीति शेषः । अत्रो'न्मीलन्ती' त्याद्युक्त्वा 'वजुले'त्यादिना पश्चानिर्देशः । शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं चोक्तं प्राक् । नायकं प्रति दूत्या उक्तिरियम् ॥ २५९ ॥'
पर्यायं लक्षयति-१६७ चेत् । क्वचित् । एक 'वस्त्विति शेषः । अनेकस्मिन् । 'भवति क्रियते वा' इति परेणान्वयः । अनेकम् 'वस्त्वि'ति शेषः । च । एकगमेकनिष्ठम् । क्रमात् नतु योगपद्येन (अत एव समुच्चयादौ 'योगपद्येने ति निवेशनीयम्)। भवति । क्रियते । वा। तदा। पायः क्रमिकः, अतस्तन्नामालङ्कारः । इष्यते स्वीक्रियते । अत्र ‘क्रमेणे'ति समुच्चयो, द्वितीयप्रभेदो विशेषश्च व्यवच्छिन्ते। इदम्बोध्यम्-एकमनेकगं भव