________________
२८६ साहित्यदर्पणः।
[ दशमःक्रमेण यथा--'स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सैधनिपातचूर्णिताः।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥ २६० ॥' 'विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः। वृककाकशिवास्तत्र धावग्यरिपुरे तव।२६१॥' .
'विसृष्टरागादधरात्रिवर्तितः स्तनाङ्गरागादरुणाच्च कन्दुकात् ।
कुशाङ्करादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः॥२६॥" तीत्येकः, अनेकमेकगं भवतीति द्वितीयः, एकमनेकगं क्रियते इति तृतीयः, अनेकमेकगं क्रियत इति चतुर्थोऽयं पर्यायः । एवं चास्य चत्वारो भेदाः । इति ॥ १३३ ॥
उदाहर्तुमुपक्रममाण आह-क्रमेणेत्यादि । स्पष्टम् । 'स्थिता इत्यादि।
'प्रथमोदबिन्दवः प्रथमाः प्रथमं निपतिता उदबिन्दवो वृष्टिजलबिन्दवः, नतु उदधारा इति तथोक्ताः । तस्या घोरतपःकर्मणि । द्रढिलतया प्रसिद्धाया भगवत्याः पार्वत्याः । क्षणं नतु दीर्घकालम् । पक्ष्मस् । स्थिताः पक्ष्मणां श्लक्ष्णत्वेन 'क्षणं घनतयाऽऽधारौचित्येन वा स्थिततया 'स्थिता' इति चोक्तम् । अथ-ताडिताधरास्ताडितोऽधरो यैस्तथाभूताः, एतेनाधरस्य नदिमा द्योतितः, प्रपतनक्रियाखाभाव्यं च दर्शितम् । पयोधरोत्सेधनिपातचूर्णिताः पयो. धरयोः कुचयोरुत्सेध उच्चत्वं तत्र निपातस्तेन चूर्णिताः । एतेन काठिन्यं घोतितम् । अत एव-वलीषु त्रिवलीमध्ये । स्खलिताः स्खलनं प्राप्ताः सन्तः । चिरेण बहोः कालात् । नाभिम् । प्रपेदिरे प्रापुः । कुमारसम्भव. स्येदं पद्यम् । भगवत्याः पार्वत्या 'महेश्वर एव मे पाणिं गृह्णातु'इति तपःप्रवृत्तायाः समाधौ प्रीष्मान्ते कदाचित् निपततां घृष्टिबिन्दूनां पतनक्रमनिर्देशपूर्वकं समाधिसौन्दर्य्यप्रत्यायिका करियमुक्तिः । अत्र बिन्दुरूपमेकं वस्त्वनेकपक्ष्मादिगतत्वेन वर्णितमिति यथोक्तोऽलङ्कारस्त्वस्त्येव, किन्तु-'स्थिता'इत्यनेन पक्ष्मणामविरलत्वं, 'क्षण'मित्यनेन तेषां मसृणत्वं च, 'ताडिताधरा' इत्यनेनाधरमृदुत्वम्, 'पयोधरो.' इत्यादिना कुचयोः काठिन्यम्, वलीषु तेषां स्खलनपातोक्त्या क्लीनां विस्पष्टत्वं, नाभौ प्रवेशोत्तया तस्यातिगभीरत्वं, 'चिरेणेति च तत्र प्रवेशमान्थोक्या बलीनां व्यासश्चेति सौन्दर्य्याभिव्यञ्जनम् , 'नासाऽग्रन्यस्तनयनः संवृतास्यः सुनिश्चलः । ध्यायीत मनसा देवमुरो विष्टभ्य चाग्रतः ॥ इति समाहितानामवस्थानोक्त दिशा तप्तदेहोपरि सुखपारवश्यसम्भ्रमहेतावपि अविहता देव्याः समाध्यवस्था चावेद्यते । तथा हि-तत्र, पक्ष्मसु स्थिता'इत्यनेन नासाऽग्रन्यस्तनयनत्वात्मकमर्धनिमीलनं नयनयोरभिव्यज्यते, सर्वथा निमीलने तेषामधोऽप्रतया, सर्वथोन्मीलने तेषामूख्यतया तेषु जलबिन्दूनां स्थित्यसम्भवात् , आस्ये प्रवेशानुक्त्याऽधरोष्ठे निपत्य ततस्तेषां च्युत्युक्त्या संवृतास्यत्वं व्यज्यते । ततश्च्युतानां तेषां स्तनोत्सेधनिपतनादिवर्णनयोरोविष्टम्भः, अलसवदनावस्थाने हि स्तनयोरन्तःसङ्कुचिताकारतया तदुत्सेधयोश्च्युतिन स्यात् । कथञ्चित्तयोः पतित्वा वलित्रयं प्राप्तानामपि तिर्यगेव गमनं स्यात्, न नाभिदेशप्रतिपत्तिः । नाभौ च संघृतायां प्रवेशो न स्यात् । पक्ष्माधरादिच्युतिक्रमोक्त्या च निश्चलत्वमभिव्यज्यते वदनादिसञ्चलने पक्षमच्युतानां तेषामधर. पयोधरादिपातासम्भवात् ।इति बोध्यम् । वंशस्थविलं वृत्तम्, एतल्लक्षणं चोक्तं प्राक् ॥ २६०॥'
'यत्र यस्मिंस्त्वदरिपुरे। श्रोणिभरालसाः श्रोण्यो भरेणालसाः । विलासिन्यः। विचरन्ति । 'स्मेति शेषः । तत्र तस्मिन् । तव । भरिपुरे शत्रूणां स्थाने । वृककाकशिवा काश्च काकाश्च शिवाः शृगाल्यश्चेति तथोक्ताः। 'शिवा गौरी फेरवयोः' इत्यमरः । धावन्ति । शत्रूणां त्वया समापितत्वात्तनगरं वनीभूतमिति भावः राज्ञः स्तुतिरियम् । अत्र विलासिनीनां वृकादीनां चैकत्र क्रमेण सम्भवो वर्णितः ॥२६१॥'
यथा वा-'मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति । अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव ॥' अत्र खलवचसि सुधाहालाहलयोः क्रमेण निर्देशः । 'विसृष्टरागाद विसृष्टस्त्यक्तो। व्रतविरोधितया परिहृतो रागस्ताम्बूलचर्वणेन रजनं यस्य तथोक्तात् । अधरादधरोष्ठात् । तथा-स्तनाङ्गरागात स्तनयोरङ्गरागो गौरवर्णत्वं तस्मात् तं प्राप्येत्यर्थः । अरुणात् । कन्दुकात् । च । निवर्तितः । तया पार्वत्या। कुशाङ्करादानपरिक्षतागुलिः कुशाङ्कुराणांमादानेनोच्चाट्यग्रहणेन परिक्षताः परितः क्षता अगुलयो यस्य तादृशः । करः । अक्षसूत्रप्रणयी, अक्षाणां रुद्राक्षाणां सूत्रं मालारूपं तन्तुस्तत्र प्रणयी प्रेमी। कृतः। कुमारसम्भवस्येदं पद्यम् । एकस्य करस्याधरात् कन्दुकाच निवर्तितत्वे जपमालायां निरतत्वे च विधानमुक्तम् । तर्कवागीशास्तु