________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
२८७ 'ययोरारोपितस्तारो हारस्तेऽरिवधूजनैः । निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुबिन्दवः॥२६३॥'
एषु च-क्वचिदाधारः संहतरूपोऽसंहतरूपश्च, क्वचिदाधेयमपि, यथा-'स्थिताः क्षण'मित्यादावुदबिन्दवः पक्षमादावसंहतरूप आधारे क्रमेणाभवन् विचरन्ति'इत्यादावाधेयभूता वृकादयः संहतरूपारिपुरे क्रमेणाभवन् । एवमन्यत् । अत्र चैकस्यानेकत्र क्रमेणैव वृत्तोर्वशेषालङ्काराद्भेदः, विनिमयाभावात्परिवृत्तेः ।
- १६८ परिवृत्तिर्विनिमयः समन्यूनाधिकैर्भवेत् । ...क्रमेणोदाहरणम्--
'दत्त्वा कटाक्षभेणाक्षी जग्राह हृदयं मम । मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः ॥२६॥'
अत्र प्रथमेऽधैं सभेन, द्वितीयेऽर्धे न्यूनेन । 'अत्रैकः करस्तपसः पूर्व रागदानार्थमधरे, क्रीडाथै कन्दुके कृतः, तपःकाले तु कुशाङ्कुरेक्षसूत्रे च कृत इत्ययं क्रमः ।' इत्याहुः । वंशस्थं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ २६२ ॥' ___ 'ते तव राज्ञ इति यावत् । अरिवधूजनैः शत्रूणां स्त्रीभिः । 'पतिसद्भावे' इति शेषः । ययोः । तारः शुद्धमौक्तिकः । 'तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके।' इति विश्वः । हारः। आरोपितः। तयोः । स्तनयोः। 'पत्यसद्भावे' इति शेषः । स्थूलाः । अश्रुबिन्दवः । निधीयन्ते । राज्ञः स्तुतिरियम् । अत्रैकस्मिन् स्तने हाराद्यनेककारणम् ॥ १६३॥'
यथा वा-प्रथमं श्रितकजकोरकाभावथ शोभामनुभूय कन्दुकानाम् । अधुनाऽऽश्रयितुं कुचौ यतेते दयिते ! ते कारशावकुम्भलीलाम् ॥' इत्यत्र हि कोरकाभाधनेककरणम् ।।
. अस्य प्रकारान्तरं पुनर्निर्दिशति-एषु उदाहृतेषु मध्ये । च । क्वचित् । आधारः । संहतरूपः समुदितरूपः । असंहतरूपः । च । एवम्-क्वचित् । आधेयम् । अपि 'संहतरूपमसंहतरूपं चेति शेषः। यथा । 'स्थिताःक्षण' मित्यादौ उदाहृतपूर्व पद्ये । उदबिन्दवः। 'संहतरूपा आधेया' इति शेषः । असंहतरूपे । आधारे। पक्षमादौ। क्रमेण । अभवन् । 'विचरन्ति' इत्यादौ । आधेयभूताः। 'संहतरूपा आधेया' इति शेषः। वृकादयः । संहतरूपारिपुरे । क्रमेण । अभवन् । एवम् विसृष्टरागादित्यादावसंहतरूपे धरादावाधारे' इति शेषः । अन्यत 'असंहतरूपस्य करस्य संहतरूपस्य हारादेः क्रमेण करण'मिति शेषः । ' ___अस्यालङ्कारान्तराद्भेदं निर्दिशति-अत्रास्मिन् पर्य्यायालङ्कारे । च । क्रमेण । एव । एकस्य । अनेकत्र । वृत्तेः । विशेषालङ्काराद् यौगपद्येनैकस्यानेकत्र वृत्तिमुपजीव्य दर्शिताद्विशेषाख्यादलङ्कारात् । 'अस्येति शेषः । भेदः। विनिमयाभावादेकवस्तुत्यागोपाधिकापरवस्तूपादानरूपस्य विनिमयस्याभावात् । परिवृत्तेस्तदाख्यादलङ्काराद्वेदः । एवं च-पूर्वत्र वस्तुभेदाभावादन्यत्रान्यवस्तूपादानं प्रत्यन्यवस्तुत्यागस्याभावात् तद्विच्छित्तिकात् परिवृत्त्यलङ्काराद्भेद इति भावः। __परिवृत्तिं लक्षयति-१६८ समन्यूनाधिकैः समानि च न्यूनानि चाधिकानि चेति तैः । विनिमयः परिवर्तनम्। परिवृत्तिः। भवेत् । तथा च-समं न्यूनमधिकं वा दत्त्वा समस्यान्यूनस्य न्यूनस्य चादानं परिवृत्तिः । अत एवायं त्रिविध इति फलितोऽर्थः।।
उदाहर्तुमुपक्रमते-क्रमेणेत्यादिना । स्पष्टम् । 'एणाक्षी मृगनयना । कटाक्षम् । दत्वा । मम । हृदयम् । जग्राहाददौ । मया । तु हृदयमन्तःकरणम् । दत्वा । मदनज्वरः कामजनितः सन्तापः । गृहीत आत्त इत्यर्थः ॥ २६४ ॥'
अत्र प्रभेदद्वयं निगमयति-अत्र। प्रथमे । अर्धे। समेन तुल्येन कटाक्षेण समस्य हृदयस्य परिवर्तन'मिति शेषः । द्वितीये । अर्धे। न्यूनेन मदनज्वरेण 'अन्यूनस्य हृदयस्य परिवर्तन'मिति शेषः । यथा वा-'किमहं कथयामि योषितामधर बिम्बफलं समर्प्य याः । सुरसानि हरन्ति हन्त हा विदुषां पुण्यफलानि सत्त्वरम् ॥' इत्यत्र न्यूनेनाधरेणीतमस्य पुण्यफलस्य परिवर्तनम् ।