________________
२८८
- साहित्यदर्पणः ।
[दशम:'तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽधुना।
येन जर्जरकलेवरव्ययात् क्रीतमिन्दुकिरणोज्वलं यशः ॥२६५ ॥ अत्राधिकेन । १६९ प्रश्नादप्रश्नतो वाऽपि कथिताद्वस्तुनो भवेत् ॥ १३४ ॥
तागन्यव्यपोहश्वेच्छाब्द आर्थोऽथवा तदा ।
परिसङ्ख्या क्रमेणोदाहरणम्-'किं भूषणं ? सुदृढमत्र यशो, न रत्नं; किं कार्यमार्यचरितं सुकृतं, न दोषः।
किं चक्षुरप्रतिहतं ? धिषणा, न नेत्र; जानाति कस्त्वदपरः सदसद्विवेकम् ॥ २६६ ।' अत्र व्यवच्छेद्यं रत्नादि शाब्दम्।
येन । जर्जरकलेघरव्ययाजजरं जराक्षीणं यत् कलेवरं शरीरं तस्य व्ययः सीताकृते रावणेन विनाशनं तस्मात् । इन्दुकिरणोज्ज्वलं चन्द्रकिरणवद्विमलम् । यशः। क्रीतम् । तस्य । च । प्रवयसः प्रवद्धस्य । जटायुषस्तन्नाम्नो गृध्रराजस्य । अधुना रामदत्तपितृगत्या दानानन्तरमिति भावः । स्वर्गिणः । किमिव । शोच्यते न किमपि शोच्यत इति भावः । रथोद्धताछन्दः ॥ २६५॥' .
अत्र । अधिकेन विमलेन यशसा न्यूनस्य. कलेवरस्य परिवृत्ति'रिति शेषः । यथा वा-'गरिमाणमर्पयित्वा लधिमानं कुचयुगात् कुरङ्गादृशाम् । स्वीकुर्वते नमस्ते यूनां धैर्ध्याय निर्विवेकाय ॥' अत्रोत्तमेन गरिम्णा न्यूनस्य लघिम्नः परिवृत्तिः । अत्राहुर्गङ्गाधरकारा:-'एषु दानादानव्यवहारः कविकल्पित एव, नतु वास्तवः । यत्र वास्तवस्तत्र नालङ्कारः । यथा-'क्रीणन्ति प्रविकचलोचनाः समन्तान् मुक्ताभिर्बदरफलानि यत्र बालाः । इदं चापरं बोध्यम्-अत्रपरस्मै स्वकीययकिञ्चिद्वस्तुत्यागमात्रम् । 'किशोरभावं परिहाय रामा बभार कामानुगुणां प्रणालीम् ।' इत्यत्रातिव्याप्त्यापत्तेः । न चेदं लक्ष्यमेवेति वाच्यम् , पूर्वावस्थात्यागपूर्वकमुत्तरावस्थाग्रहणस्य वास्तवत्वे नालङ्कारत्वात् ।' इति ।
* परिसङ्ख्या लक्षयति- १६९ चेत् । प्रश्नात् प्रश्नं कृत्वा प्रश्नादुत्तरमिति यावत् । अप्रश्नतः प्रश्नमकृत्वा । था। अपि । कथितानिर्णीतात् । वस्तुनः पदार्थात् । शाब्दः शब्दप्रतिपाद्यः । भवेत । अथवा। आर्थोंऽर्थगम्यः । ताहक कथितसदृशः । अन्यव्यपोहोऽन्यस्य कथितभिन्नस्य वस्तुनो व्यपोहो निषेधः । तदा । परिसङख्या तदाख्योऽलङ्कारः स्यादिति भावः । 'प्रश्ना'दित्यादिभेदवचनम् , 'कथिताद्वस्तुनस्तादृगन्यव्यपोह' इति खरूपवचनम् । अतएव गङ्गाधरकारैः 'सामान्यतः प्राप्तस्यार्थस्य कस्माच्चिदर्थाद् व्यावृत्तिः परिसङ्ख्या।' इत्येवोक्तम् । इदम्बोध्यम्-'परेर्वर्जने।' ८११५ इति निर्देशात् परिशब्दो वर्जनार्थः । सख्याशब्दश्च 'यत्साङ्ख्यैः प्राप्यते स्थान' मिति बुद्धयर्थः । तथा च-वर्जनबुद्धिः पारसङ्ख्येति फलितम् । तावन्मात्रायाश्चालङ्कारोपस्कारकत्वाभावात् यत्र कविप्रतिभोन्नीतोऽन्यव्यपोहः स एवास्या विषय इति सिद्धम् , तेन ‘पञ्चे पञ्चनखा भक्ष्या' इत्यादौ नातिप्रसङ्गः । इयं चप्रश्नपूर्विकाऽप्रश्नपूर्विका चेति द्विविधा, असावपि शाब्दी आर्थी चेति चतुर्विधा । इति ॥ १३४ ॥
उदाह काम आह-क्रमेण । उदाहरणम् । 'भूषणम् । किम् (इति प्रश्ने)। अत्रास्मिल्लोके । सुदृढं सात्त्विकतयाऽनपोहनीयविकाशम् । यशः। 'भूषण'मिति शेषः । रत्नं माणिक्यादि । न 'भूषण'मिति शेषः (इत्यु. त्तरम् ) । कार्य कर्त्तव्यम् । किम् (इति प्रश्ने )। सुकृतं सात्त्विकतयाऽऽचरितम् । आर्यचरितमार्याणां 'महाजनो येन गतः स पन्था' इत्युक्तानां सज्जनविशेषाणां चारतम्। 'कार्य'मिति शेषः। दोषो दुष्टत्वमनार्यचारतसेवनमिति यावत् । न । 'कार्य'इति शेषः । (इत्युत्तरम् )। अप्रतिहत निर्मलविकाशम् । चक्षुः । किम् (इति प्रश्ने)। धिषणा बुद्धिः । 'चक्षुरिति शेषः । नेत्र प्रसिद्धं चर्ममयं चक्षुरिति भावः । न । 'चक्षुरिति शेषः। एबमुचितमुत्तरयन्तं प्रष्टा प्रशंसते-त्वत् । अपरः सदसद्विवेकं सदसतोरुत्तमदूषितयोविवेकस्तम् । कः। जानाति। न कोऽपि'इति शेषः । वसन्ततिलकं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ २६६ ॥'
उदाहृतमर्थ निर्दिशति-अत्र । शब्द 'न रत्न' मित्यादिशब्दवोध्यमारत्नादि।'प्रश्नपूर्वक मिति शेषाव्यवच्छेचं