________________
साहित्यदर्पणः।
[दशमः. १६४ पूर्वपूर्व प्रति विशेषणत्वेन परम्परम् ।
स्थाप्यतेऽपोह्यते वा चेत्स्यात्तदैकावली द्विधा ॥ १३१॥ क्रमेणोदाहरणम्-'सरो विकसिताम्भोजमम्भोज भृङ्गसङ्गतम् ।
भृङ्गा यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम् ॥ २५५ ॥' 'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद् यदलीनषट्पदम् । न षट्पदोऽसौ न जुगुञ्ज यः कलं न जुञ्जितं तन्न जहार यन्मनः ॥२५६॥' क्वचिद्विशेष्यमपि यथोत्तरं विशेषणतया स्थापितमपोहितं च दृश्यते । यथा-'वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु । · कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु पदम् ॥ २५७ ॥ एवमपोहनेऽपि।
१६५ उत्तरोत्तरमुत्कर्षों वस्तुनः सार उच्यते ॥ काव्येन वाणी, तया लोकान्तःकरणानुरागरसिकः सभ्यः, सभा चामुना । दारिद्रयानलदह्यमानजगतीपीयूषधाराधरक्षो. णीनाथ ! तया भवांश्च भवता भूमण्डलं भासते ॥' इति, अत्र भासनधर्मेणान्वयः ।
एकावली लक्षयति-१६४ चेद यदि । पूर्वपूर्वम् । प्रति । परम्परमुत्तरमुत्तरम् । विशेषणत्वेनोपलक्षणेन विशेष्यत्वेन घेत्यर्थः । उपलक्षणे तृतीया। अत एव-'क्वचिद्विशेष्यमपी'त्यादि वक्ष्यति । स्थाप्यते विधीयते ।अपोह्यते निषिध्यते । वा। तदा 'स्थापनापोहनात्मकतया' इति शेष: । एकावली एकरूपेण विशेषणत्वेन विशेष्यत्वेन विहितानामपोहितानां वाऽऽवली पङ्क्तिस्तथोक्ता, तन्नामालङ्कार इति भावः । द्विधा । स्यात् ॥ १३१॥
उदाहर्तुमाह-क्रमेण । उदाहरणम् । तत्राद्या. यथा-'सरस्तडागः । विकसिताम्भोजम् । अम्भोज कमलम् । भृङ्गसङ्गतं भृङ्गभ्रमरैः सङ्गतम् । भृङ्गा अत्र 'भोभगो अघो अपूर्वस्य योऽशि ।' ८।३.१७ इति यत्वं तलोपश्च । यत्र । ससङ्गीताः सङ्गीतपराः । सङ्गीतं सुष्ठ गानम् । सस्मरोदयं स्मरोदयेन कामोल्लासकत्वेन सह वर्तत इति तथोक्तम् । अत्राम्मीजादीनि उत्तरोत्तरत्र विशेष्याणि पूर्वपूर्वत्र विशेषणात्मना विहितानि ॥ २५५ ॥' यथा वा-'पुराणि यस्यां सवराङ्गनानि वराङ्गनारूपपरिस्कृताङ्गथः । रूपं समुन्मीलितसद्विलासमात्रं विलासाः कुसुमायुधस्य ॥'
द्वितीयामुदाहरति-'तत् । जलम्। न यत् । सुचारुपङ्कज सुचारूण्यत्यन्तं रमणीयानि पङ्कजानि यत्र तथोक्तम् । न । तत् । पङ्कजम् ।न । यत् । अलीनषट्पदं न लीनाः षट्पदा भ्रमरा यत्र तथोक्तम् । असौ। षट्पदः। न । यः। कलं रमणीयम् । न। जुगुञ्ज गुजितवान् । तत्त् । गुञ्जितम्मत्तभ्रमरशब्दः । न । यत् । मनः । न । जहाराचकर्ष । अत्र पङ्कजादीन्युत्तरोत्तरत्र विशेष्याणि जलादिफ विशेषणभूतात्मनाऽपोहितानि । भट्टेः पद्यमिदम् । अत्र वंशस्थविलं छन्दस्तल्लक्षणं चोक्तं प्राक् ॥ २५६ ॥'
प्रकाशकारादिनाऽलक्षितामपि द्वितीयस्वरूपामेकावली दर्शयितुमाह-क्वचित् । विशेष्यम् । अपि । यथोत्तरमुत्तरमुत्तरं प्रति । विशेषणतया । उपलक्षणे तृतीयेयम् । स्थापितम् । अपोहितं निराकृतम् । च। दृश्यते ।
भावः- पूर्वपूर्व विशेषणं प्रत्युत्तरोत्तरं विशेष्यं यत् स्थाप्यतेऽपोह्यते वा, तत् उत्तरोत्तरं विशेष्यं प्रति पूर्वपूर्व विशेध्यमित्यय विवेकः । इति ।
उदाहरति-यथा। वाप्यः। विमलाः स्वच्छजलाः । भवन्ति । वापीषु । कमलानि । स्फुटन्ति विकसन्ति । अलयो भ्रमराः। कमलेषु । पतन्ति । अलिषु । सङ्गीतं सुन्दरं गानम् । पदमधिकारम् । करोति । अत्र वाप्यादय उत्तरोत्तरत्र विशेषणात्मानः पूर्वपूर्व विशेष्यतया वर्णिताः । अत्रार्याछन्दः ॥ २५७ ॥'
एतदिग्दर्शनमित्याशयेनाह-एवमित्यादि । स्पष्टम् । यथा-'पुण्यक्षेत्रं न सर्वत्र पुण्यक्षेत्रे न नास्तिकाः । नास्तिकेषु न धर्मोऽस्ति न धर्म दुःखहेतुता ॥' इति, अत्र परंपरं विशेषणभूताः पूर्वपूर्व पुण्यक्षेत्रादयो विशेष्यतयाऽपोहिताः।
सारं लक्षयति-१६५ वस्तुनो विशेष्यस्य । उत्तरोत्तरम् । उत्कर्षः । सारः । उच्यते । अत्र विकृति