________________
परिच्छेदः । रुधिराख्यया व्याख्यया समेतः।
२८३ अब नायकैन नायिकाया मृदुत्वं सहगमनाभावहेतुत्वेनोक्तम्, नायिकया प्रत्युत सहगमने • ततोऽपि सौकर्येण हेतुतयोपन्यस्तम् ।
१६२ परंपरं प्रति यदा पूर्वपूर्वस्य हेतुता ॥ १२९ ॥
तदा कारणमाला स्यात् यथा-'श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात् । ___ लोकानुरागो विनयान किं लोकानुरागतः॥ २५३ ॥'
१६३ तन्मालादीपकं पुनः ।
धर्मिणामेकधर्मेण सम्बन्धो यद्यथोत्तरम् ॥ १३० ॥ यथा-'स्वयि सङ्गरसम्प्राप्ते धनुषाऽऽखादिताः शराः। शरैररिशिरस्तेन भूस्तया त्वं त्वया यशः२५४'
___ अत्रासादनक्रिया धर्मः। विरहकृतं तवे'ति शेषः । आयासं परिश्रमम् । मृद्धी मृदुला । 'अहमिति शेषः । न । सोढा शक्ता । तत्-मे मम । मृदुत्वम् । भवता त्वया सह । गन्तुम्। अधिकमतिशयितं यथा स्यात्तथा । हेतुः। इति तं प्रति प्रवत्स्यन्नायकाय नायिकाया उक्तिः.)। अत्र शिखरिणीवृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ २५२ ॥'
उदाहतस्य सङ्गतिं निर्दिशति-अत्रेत्यादिना। स्पष्टम् ।
कारणमाला लक्षयति-१६२ परम्परमुत्तरमुत्तरं कारणं काय वेति भावः । प्रति । पूर्वपूर्वस्य पूर्वस्य पूर्वस्य कार्य्यस्य कारणस्य वेति भावः । यदा । हेतुता कारणत्वमुपचारात् कार्यत्वं चेति भावः । तदा। कारणमाला कारणानां मालेति तदाख्योऽलङ्कार इत्यर्थः । स्यात् । तथा चेयं द्विविधा, परम्परं कारणं प्रति पूर्वपूर्वस्य कार्य्यस्य कारणत्वरूपैका, परम्परं कायें प्रति पूर्वपूर्वस्य कारणस्य कार्य्यत्वरूपाऽपरा । अत्र कारणानामिव कार्याणामपि मालेति कार्यमालेत्यपि सुवचम्, अथायं व्यपदेशः 'विपक्षापूर्विका हि शब्दार्थप्रतिपत्ति'रिति न्यायेन कारणगुणवर्णनमपेक्ष्यैव कवे. रुयोगात् । अत एव गङ्गाधरकाराः 'सैव शङ्खलाऽऽनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला।' इति सूत्रयित्वा 'तत्र पूर्वं पूर्व कारणं परं परकार्यमित्येका, पूर्वं पूर्व कार्य परम्परं कारणमित्यपरा' इति विवृतम् ॥ १२९ ॥ '
उदाहरति-यथा-'कृतधियां कृता निपुणतां प्रापिता धीर्बुद्धिर्विज्ञानमिति यावत् यस्तेषां तथोक्तानाम्, निपुणताभाषितात्मना विदुषामिति भावः । सङ्गात् प्रसङ्गात् । श्रुतं शास्त्रं लक्षणया तज्ज्ञानम् । जायते । श्रुतात् शास्त्रज्ञानात् । विनयोऽनुद्धतत्वम् । 'जायत' इति पूर्वतोऽन्वेति । विनयात् । लोकानुरागो लोकस्यानुराग: प्रेमा। 'जायत' इति पूर्वतोऽन्वेति । लोकानुरागतो लोकप्रीतेः । किम् । न 'जायते' इति पूर्वतोऽन्वेति । अत्र श्रुतादिकं प्रति कृतधीसङ्गादिकारणत्वेन वर्णितम् ॥ २५३ ॥' द्वितीया यथा-वर्गापवौं खलु दानलक्ष्मीनं प्रसूते विपुला समृद्धिः । समृद्धिमल्पेतरभागधेयं भाग्यं च शम्भो ! तव पादभक्तिः ॥' इति, अत्र हि स्वर्गादिकं प्रति दानलक्ष्म्यादेः कारणत्वं निर्दिष्टम् ।।
मालादीपकं लक्षयति-१६३ यत् । यथोत्तरमुत्तरोत्तरम् । अत्र वीप्सायां यथाशब्दः । धर्मिणां नतु धर्मिणो धर्मिणोति शेषः । बहूनां धर्मिणामिति भावः । एकधर्मेण । सम्बन्धः। तत् । पुनः । मालादीपकं मालायां यथाऽनेकेषां पुष्पाणामवस्थानं, तथा बहूनां धर्मिणामवस्थानं माला, तस्या दीप इव धर्मेक्येन प्रकाशनमिति तथोक्तम्, तनामालङ्कार इति भावः ॥ १३०॥
उदाहरति-यथा-'त्वयि । सङ्गरसम्प्राप्ते सगरे सङ्ग्रामे सम्प्राप्ते सतीत्यर्थः। धनुषा। शराः।आलादिता गृहीताः। शरैः। अरिशिरः । लिङ्गवचनविपरिणामेन 'आसादित'मित्यनुषञ्जनीयम् । तेनारिशिरसा | भूः। अत्रापि पूर्ववत् 'आसादिते'ति । तया भुवा । त्वम् । (राजा)। अत्रापि पूर्ववत् । 'आसादित इति । त्वया। यशः । अत्रापि पूर्ववल्लिङ्गवचनविपरिणामेन 'आसादित' मित्यनुषञ्जनीयम् ॥ २५४ ॥'
अत्र धनुरादीनामेकधर्माभिसम्बन्धं निर्दिशति-अत्रेत्यादिना । स्पष्टम् । यथा वा-'आखादेन रसो, रसेन कविता,