________________
• साहित्यदर्पणः।
[ दशमः'मय्येव जीर्णतां यातु यत्त्वयोपकृतं हरे !। नरःप्रत्युपकारार्थी विपत्तिमभिकाङक्षति ॥२४९॥" ...'अखिलेषु विहङ्गेषु हन्त ! स्वच्छन्दचारिषु। शुकः! पञ्जरबन्धस्ते मधुराणां गिरां फलम्२५०॥'
यथा वा-'नरत्वमेव साधीयो धिगस्तु सुरसम्पदम्।।
नरा मुक्तिं प्रपद्यन्ते सुरा नीचैश्युतिं बलात् ॥ २५१॥') - १६० व्याघातः सतु केनापि वस्तु येन यथा कृतम् ।
तेनैव चेदुपायेन कुरुतेऽन्यस्तदन्यथा ॥ १२८ ॥ यथा-'दृशा दग्धं मनसिज'मित्यादि।
१६१ सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि । व्याघात इत्येव । 'इहैव त्वं तिष्ठ द्रुतमहमहोभिः कतिपयैः समागता कान्ते ! मृदुरसि न चायाससहना ।
मृदुत्वं मे हेतुः सुभग! भवता गन्तुमधिकं न मृद्धी सोढा यद्विरहकृतमायासमसमम्॥२५२॥' शमटम्या ।लब्धो गोपकिशोर्या मध्ये रथ्यं महेन्द्रनीलमणिः ॥' इति, अत्र हि तकविक्रयणकार्यकरणेन महेन्द्रनीलमण्यु. पार्जनस्य सम्पादनम् ।
(चतुर्थमुदाहरति-'हे हरे हनुमन् ! यत् । त्वया। उपकृतम् । तत्-मयि रामे । एव । जीर्णताम् । यातु । यत्-प्रत्युपकारार्थी 'एतेन ममैतदुर्पकृतमिति मयाऽप्येतस्य यदि विपत्स्यात्तदोपकारः कर्तव्य'इत्यभिलाषी। नरः। उपकर्तुः-विपत्तिम् । अभिकाङ्क्षति । रामचन्द्रस्य हनुमन्तं प्रत्युक्तिरियम् । अत्र प्रत्युपकारस्य गुणस्य दोषत्वेन बोधनम् ॥ २४९ ॥
पञ्चममुदाहरति-'हे शुक ! अखिलेषु समस्तेषु । विहङ्गेषु पक्षिषु । स्वच्छन्दचारिषु । सत्यर्थेय सप्तमी । हन्त कष्टम् । ते तव । पञ्जरबन्धः पञ्जरे बन्धः । मधुराणाम् । गिरां वाचाम् । फलम् । अत्र मधुराणां वाचा दोषरूपेण बोधनम् ॥ २५० ॥' __ प्रकारान्तरेणोदाहरति-यथा। वा-नरत्वं मनुष्यत्वम् । एव । साधीयो वरम् । सुरसम्पदं दैवताना
भूतिम् । धिक् । अस्तु । नरा मनुष्याः । मुक्तिम् । प्रपद्यन्ते । सुराः। नीचैरधः । च्युतिं पातम् । बलात् पारतन्येण । 'प्रपद्यन्ते' इति पूर्वतोऽन्वेति । अत्र देवसम्पदि दोषोद्भावनम् ॥ २५१ ॥')
व्याघातं लक्षयति-१६० येन । केनापि केनचिदुपायन । यथा येन प्रकारेण । कृतमुत्पादितम् । वस्तु । 'यदिति शेषः । तेन । एव न त्वन्येन । उपायेन । चेत् । अन्यस्तद्भिन्नो जनः । तत'कार्य'मिति शेषः । अन्यथा प्रकारान्तरेण । कुरुते । तदा-सः। तु। व्याघातः। यः कश्चिद् यं कञ्चिदुपायमालम्ब्य येन केनापि प्रकारेण विशेषितं यत् किञ्चित् कृतम्, तदन्यः तमेवोपायमालम्ब्य तद्भिन्नविशेषणविशेषितं तत् कर्म कुरुते तदा तस्यान्यथाभूतत्वेन व्याहन्यमानत्वात् तद्वर्णनोपस्कृतोऽयं व्याघातनामाऽलङ्कार इति भावः । व्याहननं व्याघात इति चास्यान्वथैयं सज्ञा ॥ १२८ ॥ ___ उदाहरति-यथा-'दृशा..' इति । व्याख्यातपूर्व पद्यम् । अत्र महेश्वरेण दशा दाहितस्य स्मरस्य कान्ताभिर्दशैव तस्य जीवनम् ॥
__प्रकारान्तरेण लक्षयति-१६१सौकर्येण सुकरतया आयासेनेति यावत् । यदि । कार्यस्य । विरुद्धम् । क्रियते लक्षणथा क्रियमाणं वर्ण्यत इति भावः । च 'व्याघात'इति पूर्वतोऽन्वेति।
आकाङ्क्षापूर्तय आह-व्याघातः । इत्येव पूर्वतोऽध्याहृत्य योजनीयमिति शेषः ।
उदाहरति-हे कान्ते ! इह । एव । 'गृहे 'इति शेषः । त्वम् । तिष्ठ । अहम् । कतिपयैः । अहोभिदिनैः । द्रतं शीघ्रम् । समागन्ता समागमं का भविष्यामि प्रत्यावृत्त्य त्वया सङ्गमिष्यामीति भावः । त्वम्मृदः कोमलाङ्गी। असि। भायाससहना क्लेशसहनयोग्या । च। न 'असीति पूर्वतो'देहलीदीपक'न्यायेनानुयुज्यते । (इति प्रवत्स्यतः कान्तस्योक्तिः)।.हे सुभग ! यत् यस्मात् । असमं विषमं भयङ्करमिति यावत् ।