________________
.
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। . २८१
बोधनं प्रतिपाद्येत) विशेषस्त्रिविधस्त (पञ्चधा त) तः ॥ १२७ ॥ क्रमेण यथा-'दिवमप्युपयातानामाकल्पमनल्पगुणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कवयो म ते वन्द्याः ॥२४६॥' 'कानने सरिदुद्देशे गिरीणामपि कन्दरे । पश्यन्त्यन्तकसङ्काशं त्वामेकं रिपवः पुरः ॥२४७॥"
'गृहिणी, सचिवः, सखी मिथः, प्रियशिष्या ललिते कलाविधौ।
करुणाविमुखेन मृत्युना हरता त्वां बद्र किन्न मे हृतम् ॥३४८॥' दैवाद्भाविमहिम्ना । इतरस्य तस्माद्भिन्नस्य । अशक्यस्य दुःसाध्यस्य । वा यद्वा । कार्य्यस्य। करणं सम्पादनम् । (प्रतिपाद्येत तदा तृतीयः । गुणे । वा दोषे । अपि । अन्यथा दोषरूपेण गुणरूपेण चेत्यर्थः । बोधनम् । प्रति. पायेत तदा चतुर्थः पञ्चमश्च )। ततः। विविधः (पश्चधा पञ्चविधः ।) विशेषो विशेषणमाधेयादेरनाधारत्वप्रतिपादनादिनेति तथोक्तः, तन्नामाऽलङ्कार इत्यर्थः । अत्रेदम्बोध्यम्-यद्यपि प्रायो विशेषालङ्कारस्त्रिविध एवानातः, तथाऽपि अनुज्ञालेशयोरत्रान्तर्भाव सिसाधयिषव आमनन्ति, तथा हि-त्रिविध इत्युपलक्षणम्, तेनानुज्ञालेशयोग्रहणम् । ननु 'दोषस्याभ्यर्थनाऽनुज्ञा तत्रैव गुणदर्शनात् ।' 'लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम् ।' इत्युक्तदिशा गुणदोषयो. रन्यथा बोधनस्य लेशमात्रविषयतयाऽनुज्ञाया अवशिष्टत्वेन कथमन्तर्भावः ? इति चेत् ! दोषेऽपि गुणमवधाय तदभ्यर्थनरूपाया अनुज्ञाया दोषेऽपि गुणत्वकल्पनरूपाल्लेशादनतिरिक्तत्वेन न काऽपि अनुपपत्तिः । यद्यपि-एनयोरप्रस्तुतप्रशंसाकाव्यलिङ्गदृष्टान्तादिष्वपि यथातथमन्तर्भावः कतै शक्यः, तथाऽपि विशेषविशेषत्वाङ्गीकार ऋजुः पन्थाः । एतेनैनयोः पार्थक्यम्, अनुज्ञायाश्च लेशातिरिक्तत्वं च परैरङ्गीक्रियमाणमपास्तम् । एवं-'सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः।' इत्युक्तामुद्राया अलङ्कारत्वमेव न, प्रकृतोपस्कारकत्वाभावात् , अमुच्या नाटकोपकरणमात्रत्वाच्च । 'क्रमिकं प्रकृतार्थानां न्यासं रत्नावली विदुः । चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते ॥' इति लक्षितस्य क्रमिकस्य तु रूपकेणैव गतार्थत्वम्, तद्भिन्नविच्छित्त्यनुपलब्धेः । यच्च-'दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषस्तिरस्कारः।' इति तिरस्कारस्यालङ्कारान्तरत्वं समर्थितं गङ्गाधरकारैः, तन्न; तस्याप्येनयोरेवान्तर्भावात् । इति दिक् ॥ १२६ ॥ १२७ ॥
उदाहर्तुमाह-क्रमेण । यथा-'दिवं वर्गम् । उपयातानां प्राप्तानाम् । मृतानामिति भावः । अपि। येषां 'कवीना'मिति शेषः । अनल्पगुणा अनल्पा बहवो गुणा याखिति तथोक्ताः । गिरो बचांसि । आकल्पम । जगन्ति । रमयन्ति रजयन्ति । ते । कवयः। कथमिव कथम् । 'कथमिहे'ति पाठान्तरम्, तत्र-इहास्मिलोक इत्यर्थः । न । वन्द्याः । अत्र कविरूपमाधारमन्तरैव गिरामुपस्थितिणितेति बोध्यम् । आधाराधेयभावश्चायं कविप्रकपितः । 'शब्दगुणमाकाश'मिति गिरामाधारस्तु आकाशमेव वास्तविकम् । आर्याछन्दः, तल्लक्षणं चोक्तं प्राक् ॥ २४६. ॥' यथा वा-'अये राजन्नाकर्णय कुतुकमाकर्णनयन ! त्वदाधारा कीर्तिर्वसति किल मौलौ दशदिशाम् :। त्वदेकालम्बोऽयं गुणगणकदम्बो गुणनिधे ! मुखेषु प्रौढानां विलसति कवीनामविरतम् ॥" युक्तं तु याते दिवमासफेन्दौ तदाश्रितानां यदभूद्विनाशः । इदं तु चित्रं भुवनावकाशे निराश्रया खेलति तस्य कीर्तिः ॥' इति वा ।
द्वितीयमुदाहरति-रिपवः। कानने वने । सरिदद्देशे सरिता नदीनामुद्देश उत्कृष्टो देशस्तत्र । गिरीणां पर्वतानाम् । कन्दरे गुहाप्रदेशे । अपि । त्वाम् । एकाम् । अन्तकसंकाशं यमराजसदृशम् । पुरः । पश्यन्ति । अत्र राज्ञः काननादयोऽनेकविधा विषया निर्दिष्टाः ॥ २४७ ॥'
तृतीयमुदाहरति-'हे' प्रिये (इन्दुमति ! 'त्वं में' इत्यध्याहार्य्यम् । गृहिणी गृहेश्वरी । सचिवः (हितो.
मन्त्री। मिथो रहसि । 'मिथोऽन्योऽन्य रहस्यपि।' इत्यमरः । सखी । ललिते सुन्दरे। कलाविधौ कलानां चातुर्य्यविशेषाणां कामकलानां वा विधिविधानं तत्र । प्रियशिष्या प्रेमास्पदतया शिक्षणीया । एवंविधाम्त्वाम् । हरताऽपहरता । करुणाविमुखेन निर्दयेन । मृत्युना कालाधिष्टात्रा । 'मृत्युर्ना मरणे यमे ।' इति मेदिनी। बत कष्टम् । किम् । मे मम । न । हृतम्, अपि तु सर्वमेव हृतम् । अजविलापोऽयम् । अत्रेन्दुमती. हरणरूपमेकं कुर्वता यमेन तेनैवैकदैव गृहिण्यादिकं सर्व हृतमित्यशक्यस्यास्य कार्यान्तरस्य करणम् । अपरवकं छन्दः, तल्लक्षणं च यथोक्तम्, 'अपरवकं नौ लौ गन्नौ जौ।' इति ॥२४८॥ यथा वा-'लोभाद्वराटिकानां विक्रेतुं तक्रमानि