________________
३८०
साहित्यदर्पणः।
[देशम:१५७ आश्रयायिणोरेकस्याधिक्येऽधिकमुच्यते ॥ १२५ ॥ आश्रयाधिक्ये यथा-'किमधिकमस्य बूमो महिमानं वारिधेर्यत्र।
. अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि ॥ २४३ ॥' आश्रिताधिक्ये यथा-'युगान्तकालप्रतिसंहतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः॥२४४॥
१५८ अन्योऽन्यमुभयोरेकक्रियायाः करणं मिथः । 'त्वया सा शोभते तन्वी तया त्वमपि शोभसे । रजन्या शोभते चन्द्रश्चन्द्रेणापि निशीथिनी॥२४५॥'
१५९ यदाधारमनाधारमेकं चानेकगोचरम् ॥ १२६ ॥
किश्चित् प्रकुर्वतः कार्यमशक्यस्येतरस्य वा।
कार्यस्य करणं दैवात् (गुणे दोषेऽपि वाऽन्यथा । अधिकं लक्षयति-१५७ आश्रयाश्रयिणोराधाराधेययोर्मध्ये इति भावः । एकस्यैकतरस्याश्रयस्याश्रयियो वेति यावत् । आधिक्ये। अधिकम् । तन्नामाऽलङ्कार इति भावः । उच्यते । तथा च-आश्रयाधिक्यनिबन्धनमाश्रय्याधिक्यनिबन्धनं चेति द्विप्रभेदमेतदिति फलितम् ॥ १२५ ॥
तत्राद्यमुदाहरति-आश्रयाधिक्ये । यथा-'कुक्षौ । भुवनानि भूर्भुवःस्खलाकान् । निक्षिप्य । हरिविष्णुः । यत्र यस्मिन् । अज्ञातोऽविदितमहत्त्वः । एव । शेते । अस्य तस्येति शेषः । वारिधेः सागरस्य । अधिकम् । महिमानं महत्त्वम् । किम् । ब्रूमः। इत्येवास्य महत्त्वम् , यत् 'येन कुक्षौ भुवनानि निक्षिप्तानि, सोऽपि (एवम्-अत्यन्तं महनीयोऽपि)हरियस्यैकांशे स्थितो न ज्ञायते, कुत्र विलीन' इति । स्फुटं चैवाधेयाधिक्यापेक्षयाऽऽधारा. धिक्यम् । आ-छन्दः ॥ २४३ ॥'
द्वितीयमुदाहरति-आश्रिताधिक्ये । यथा-'युगान्तकालप्रतिसंहतात्मनो युगान्तकाले प्रतिसंहृताः खोदरं प्रवेशिता आत्मानः समस्ता जीवा येन तथोक्तस्व । कैटभद्विषः कैटभनिहन्तुः श्रीकृष्णस्य । यस्याम् । तनौ शरीरे । जगन्ति लोकाः । सविकासं सावकासम् (क्रियाविशेषणमेतत् )। आसताविद्यन्त । तत्र तस्यां तनौ । तपोधनाभ्यागमसम्भवास्तपोधनस्य नारदस्याभ्यागमः स सम्भव उत्पत्तिस्थानं यासां तास्तथोक्ताः । मुदो हर्षाः । न । ममुरवकासं लब्धवन्तः । अवकासालाभादाश्रितानो मुदामतिमहत्त्वं व्यज्यते। शिशुपालवधस्येदं पद्यम् । वंशस्थविलं छन्दः ॥ २४४ ॥'
अन्योऽन्य लक्षयति-१५८ उभयोयोर्वस्तुनोरित्यर्थः । एकक्रियाया एकस्याः क्रियायाः, उपचाराद् गुणस्य च। मिथः। करणं सम्पादनम् । 'विच्छित्तिविशेषेणे'ति शेषः । अन्योऽन्यं तन्नामाऽलङ्कार इत्यर्थः ।
उदाहरति-'त्वया कान्तेन । सा। तन्वी। शोभते । तया तन्व्या। त्वं (कान्तः) । अपि । शोभसे । रजन्या रात्र्या। चन्द्रः। शोभते । चन्द्रेण| निशीथिनी रात्रिः । अपि शोभते'इति शेषः । अत्र परस्परं शोभनक्रियायाः समुत्पादनम् ॥ यथा वा-'परपूरुषदृष्टिपातवज्राहतिभीता हृदयं प्रियस्य सीता। अविशत् परकामिनीभुजङ्गीभयतः सत्वरमेव सोऽपि तस्याः ॥' अत्र सीतारामयोः परस्परं प्रवेशनक्रियाया उत्पादनम् । गुणस्य विशेषाधायकत्वं यथा-'सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया। अलिकेन च हेमकान्तिना विदधे काऽपि रुचिः परस्परम् ॥ इति । अत्र हि रुचिरूपस्य गुणस्योत्पादनम् । नच विधानरूपायाः क्रियाया उत्पादनं वाच्यम्, भावनासामान्यरूपस्य विधानस्याचमत्कारितयाऽविशिष्टत्वात् । मिथ इत्यनेन 'दुदोद गां स यज्ञाय सस्याय मघवा दिवम् ।' इत्यादौ नातिप्रसङ्गः । अत्र हि स्वस्वं दोहनं प्रति स्वस्वमेव साधनम् ॥ २४५ ॥'
विशेष लक्षयति-१५९ यत् । आधारम् । अनाधारमीषत् ( अप्रसिद्धः) आधारो यस्य तत्तथोक्तम् (प्रतिपायेत तदकः) च । एकम् । अनेकगोचरमनेकेऽनेकविधा गोचरा विषया एककाले यस्य तथोक्तम् ( एक वस्तु एकस्मिन्समयेऽनेकगोचरं प्रतिपाद्येत तदा द्वितीयः) । किश्चिदनिर्दिष्टम् । कार्यम् । प्रकुर्वतः साधयतो जनस्य ।