Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 866
________________ २८८ - साहित्यदर्पणः । [दशम:'तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽधुना। येन जर्जरकलेवरव्ययात् क्रीतमिन्दुकिरणोज्वलं यशः ॥२६५ ॥ अत्राधिकेन । १६९ प्रश्नादप्रश्नतो वाऽपि कथिताद्वस्तुनो भवेत् ॥ १३४ ॥ तागन्यव्यपोहश्वेच्छाब्द आर्थोऽथवा तदा । परिसङ्ख्या क्रमेणोदाहरणम्-'किं भूषणं ? सुदृढमत्र यशो, न रत्नं; किं कार्यमार्यचरितं सुकृतं, न दोषः। किं चक्षुरप्रतिहतं ? धिषणा, न नेत्र; जानाति कस्त्वदपरः सदसद्विवेकम् ॥ २६६ ।' अत्र व्यवच्छेद्यं रत्नादि शाब्दम्। येन । जर्जरकलेघरव्ययाजजरं जराक्षीणं यत् कलेवरं शरीरं तस्य व्ययः सीताकृते रावणेन विनाशनं तस्मात् । इन्दुकिरणोज्ज्वलं चन्द्रकिरणवद्विमलम् । यशः। क्रीतम् । तस्य । च । प्रवयसः प्रवद्धस्य । जटायुषस्तन्नाम्नो गृध्रराजस्य । अधुना रामदत्तपितृगत्या दानानन्तरमिति भावः । स्वर्गिणः । किमिव । शोच्यते न किमपि शोच्यत इति भावः । रथोद्धताछन्दः ॥ २६५॥' . अत्र । अधिकेन विमलेन यशसा न्यूनस्य. कलेवरस्य परिवृत्ति'रिति शेषः । यथा वा-'गरिमाणमर्पयित्वा लधिमानं कुचयुगात् कुरङ्गादृशाम् । स्वीकुर्वते नमस्ते यूनां धैर्ध्याय निर्विवेकाय ॥' अत्रोत्तमेन गरिम्णा न्यूनस्य लघिम्नः परिवृत्तिः । अत्राहुर्गङ्गाधरकारा:-'एषु दानादानव्यवहारः कविकल्पित एव, नतु वास्तवः । यत्र वास्तवस्तत्र नालङ्कारः । यथा-'क्रीणन्ति प्रविकचलोचनाः समन्तान् मुक्ताभिर्बदरफलानि यत्र बालाः । इदं चापरं बोध्यम्-अत्रपरस्मै स्वकीययकिञ्चिद्वस्तुत्यागमात्रम् । 'किशोरभावं परिहाय रामा बभार कामानुगुणां प्रणालीम् ।' इत्यत्रातिव्याप्त्यापत्तेः । न चेदं लक्ष्यमेवेति वाच्यम् , पूर्वावस्थात्यागपूर्वकमुत्तरावस्थाग्रहणस्य वास्तवत्वे नालङ्कारत्वात् ।' इति । * परिसङ्ख्या लक्षयति- १६९ चेत् । प्रश्नात् प्रश्नं कृत्वा प्रश्नादुत्तरमिति यावत् । अप्रश्नतः प्रश्नमकृत्वा । था। अपि । कथितानिर्णीतात् । वस्तुनः पदार्थात् । शाब्दः शब्दप्रतिपाद्यः । भवेत । अथवा। आर्थोंऽर्थगम्यः । ताहक कथितसदृशः । अन्यव्यपोहोऽन्यस्य कथितभिन्नस्य वस्तुनो व्यपोहो निषेधः । तदा । परिसङख्या तदाख्योऽलङ्कारः स्यादिति भावः । 'प्रश्ना'दित्यादिभेदवचनम् , 'कथिताद्वस्तुनस्तादृगन्यव्यपोह' इति खरूपवचनम् । अतएव गङ्गाधरकारैः 'सामान्यतः प्राप्तस्यार्थस्य कस्माच्चिदर्थाद् व्यावृत्तिः परिसङ्ख्या।' इत्येवोक्तम् । इदम्बोध्यम्-'परेर्वर्जने।' ८११५ इति निर्देशात् परिशब्दो वर्जनार्थः । सख्याशब्दश्च 'यत्साङ्ख्यैः प्राप्यते स्थान' मिति बुद्धयर्थः । तथा च-वर्जनबुद्धिः पारसङ्ख्येति फलितम् । तावन्मात्रायाश्चालङ्कारोपस्कारकत्वाभावात् यत्र कविप्रतिभोन्नीतोऽन्यव्यपोहः स एवास्या विषय इति सिद्धम् , तेन ‘पञ्चे पञ्चनखा भक्ष्या' इत्यादौ नातिप्रसङ्गः । इयं चप्रश्नपूर्विकाऽप्रश्नपूर्विका चेति द्विविधा, असावपि शाब्दी आर्थी चेति चतुर्विधा । इति ॥ १३४ ॥ उदाह काम आह-क्रमेण । उदाहरणम् । 'भूषणम् । किम् (इति प्रश्ने)। अत्रास्मिल्लोके । सुदृढं सात्त्विकतयाऽनपोहनीयविकाशम् । यशः। 'भूषण'मिति शेषः । रत्नं माणिक्यादि । न 'भूषण'मिति शेषः (इत्यु. त्तरम् ) । कार्य कर्त्तव्यम् । किम् (इति प्रश्ने )। सुकृतं सात्त्विकतयाऽऽचरितम् । आर्यचरितमार्याणां 'महाजनो येन गतः स पन्था' इत्युक्तानां सज्जनविशेषाणां चारतम्। 'कार्य'मिति शेषः। दोषो दुष्टत्वमनार्यचारतसेवनमिति यावत् । न । 'कार्य'इति शेषः । (इत्युत्तरम् )। अप्रतिहत निर्मलविकाशम् । चक्षुः । किम् (इति प्रश्ने)। धिषणा बुद्धिः । 'चक्षुरिति शेषः । नेत्र प्रसिद्धं चर्ममयं चक्षुरिति भावः । न । 'चक्षुरिति शेषः। एबमुचितमुत्तरयन्तं प्रष्टा प्रशंसते-त्वत् । अपरः सदसद्विवेकं सदसतोरुत्तमदूषितयोविवेकस्तम् । कः। जानाति। न कोऽपि'इति शेषः । वसन्ततिलकं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ २६६ ॥' उदाहृतमर्थ निर्दिशति-अत्र । शब्द 'न रत्न' मित्यादिशब्दवोध्यमारत्नादि।'प्रश्नपूर्वक मिति शेषाव्यवच्छेचं

Loading...

Page Navigation
1 ... 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910