Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 868
________________ साहित्यदर्पणः । यथा मम 'वीक्षितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः। अहमेकाकिनी वाला नवेह वसतिः कुतः १ ॥ २७० ॥' अनेन पथिकस्य वसतियाचनं प्रतीयते । २९० दशम: ' का विमा देव्व गई किं लद्धव्वं जणो गुणग्गाही । किं सोक्खं सुकलत्तं किं दुग्गेज्झं खलो लोओ ॥ २७१ ॥ ' अत्रान्यव्यपोहे तात्पर्य्याभावात् परिखङ्ख्यातो भेदः । न चेदमनुमानम्, साध्यसाधनयोर्निर्देश एव तस्याङ्गीकारात् । न च काव्यलिङ्गम्, उत्तरस्य ननं प्रत्यजनकत्वात् । १७१ दण्डापूपिकयाऽन्यार्थागमोऽर्थापत्तिरिष्यते ॥ १३६ ॥ 'मूषिकेण दण्डो भक्षितः' इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवतीति नियतसमानन्यायादर्थान्तरमापततीत्येष न्यायो दण्डापूपिका । अत्र च क्वचित् प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतम् कचिदप्राकरणिकात् प्राकरणिकस्यार्थस्येति द्वौ भेदौ । क्रमेणोदाहरणम्-'तदपर' मिति शेषः । 'असकृ' दिति चमत्कारपुष्ट्यर्थे वचनम्, अतः - 'किमिति कृशाऽसि कृशोदरि ! किं तव परकी - वृत्तान्तैः' इत्यादौ उत्तरस्याकूत गर्भत्वेन सकृदपि चमत्कारित्वेनोपस्कार कमेवेति बोध्यम् ॥ १३५ ॥ उदाहरति- यथा । मम - 'श्वश्रूः स्वामिमाता । वीक्षितुं द्रष्टुं गतागतं बोद्धुमिति यावत् । न । क्षमा शक्ता । अन्धेति भावः । स्वामी । दूरतरं नितान्तं दूरं देशमित्यर्थः । गतः प्राप्तः । अतस्तस्य सहसा प्रत्यागमनसम्भावना नास्तीति भावः । अहम् । बाला । एकाकिनी । अतः - तव पथिकस्य । इह । वसति - र्वासः । कुतः कथं सङ्गच्छेतेति भावः ॥ २७० ॥' अत्र प्रश्नोन्नयं निर्दिशति - अनेनेत्यादिना । अनेनोत्तरेणेत्यर्थः । स्पष्ठमन्यत् । द्वितीयमुदाहरति- 'विसमा विषमा प्रतिकूलेति यावत् । का ? देव्वगई दैवगतिः प्रारब्धभोग ईश्वरेच्छेति यावत् । 'विषमे 'ति शेषः । लद्धव्वं लब्धव्यं यत्नेनोपार्जनीयमिति यावत् । किम् ? गुणग्गाही गुणग्राही । जणो जनः । ' लब्धव्य' इति शेषः । सोक्खं सौख्यं सुखसाधनमिति यावत् । किम् ? सुकलत्तं सुक सुभगायाः सम्पत्तिरिति यावत् । दुग्गेज्झं दुर्ग्राह्यं दुर्वश्यमिति यावत् । किम् ? खलो दुर्जनः । लोओ लोकः । आर्याछन्दः । अत्रासकृत्प्रनः ॥ २७१ ॥ अलङ्कारान्तरतोऽस्य व्यवच्छेदं निर्दिशति-अत्रोत्तरालङ्कारे । 'प्रश्नस्ये 'ति शेषः । अन्यव्यपोहे वस्त्वन्तरनिराकरणे । तात्पर्याभावात् । परिसङ्ख्यातः । भेदो भिन्नत्वम् । इदमुत्तरम् । च । अनुमानम् । न । तस्यानुमानस्य । साध्यसाधनयोर्लिङ्गिलिङ्गयोः । निर्देशे । एव । अङ्गीकारात् । इदम्-काव्यलिङ्गम् । न्व । न । उत्तरस्य प्रतिवचनस्य । प्रश्नं प्रश्नवाक्यम् । प्रति । अजनकत्वात् हेतुत्वाभावात् । अर्थापत्तिं लक्षयति-१७१ दण्डापूपिकया दण्डापूपन्यायेनेत्यर्थः । दण्डापूपयोर्भावो दण्डापूपिका । 'द्वन्द्वमनोज्ञादिभ्यश्च । ५।१।१३३ इति वुञ् । अन्यार्थागमोऽन्यार्थज्ञानम् । अर्थापत्तिस्तदभिधेयोऽलङ्कारः । इष्यते ॥ १३६ ॥ दण्डापूपिकां निर्दिशति - ' मूषिकेण । दण्डः । भक्षितः ।' इति इत्युक्तौ । अनेन दण्डभक्षणेन । 'तरसहचरितं तस्य दण्डस्य सहचरितम् । अपूपभक्षणम् । अर्थात्तात्पय्यैतः । आयातं ज्ञातम् । भवति । इति । नियतसमामन्यायान्नियतस्य नियतवत्त्वेन निश्चितस्य समानन्यायः सदृशः पन्थाः तस्मात् तत्सामर्थ्यादिति भावः । अर्थान्तरम् | आपतत्यर्थतो न तु शब्दतः प्रतिपद्यते । इत्येषः । न्यायः । दण्डापूपिका । मूषिकस् दण्डभक्षणं दुश्शकमिति सुशकं तत्सहचरितापूपभक्षणं सम्भाव्यते यथा, तथा यत्र सहचरितैकसिद्धेरपर सिद्धिरौ चित्यात् सम्भाव्यते सा कविप्रतिभोत्थाऽर्थापत्तिर्नामालङ्कार इति भावः । अस्याश्च भेदद्वयमित्याह-अत्र चेत्यादिना । स्पष्टम् । उदाहरणं निर्दिशति क्रमेण । उदाहरणमुदाह्रियते - १ 'विषमा का दैवगतिः किं लब्धव्यं जनो गुणग्राही । किं सौख्यं सुकलत्रं किं दुर्ग्राह्यं खलो लोकः ॥ ' इति संस्कृतम् ॥

Loading...

Page Navigation
1 ... 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910