________________
साहित्यदर्पणः ।
यथा मम
'वीक्षितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः। अहमेकाकिनी वाला नवेह वसतिः कुतः १ ॥ २७० ॥' अनेन पथिकस्य वसतियाचनं प्रतीयते ।
२९०
दशम:
' का विमा देव्व गई किं लद्धव्वं जणो गुणग्गाही ।
किं सोक्खं सुकलत्तं किं दुग्गेज्झं खलो लोओ ॥ २७१ ॥ ' अत्रान्यव्यपोहे तात्पर्य्याभावात् परिखङ्ख्यातो भेदः । न चेदमनुमानम्, साध्यसाधनयोर्निर्देश एव तस्याङ्गीकारात् । न च काव्यलिङ्गम्, उत्तरस्य ननं प्रत्यजनकत्वात् ।
१७१ दण्डापूपिकयाऽन्यार्थागमोऽर्थापत्तिरिष्यते ॥ १३६ ॥
'मूषिकेण दण्डो भक्षितः' इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवतीति नियतसमानन्यायादर्थान्तरमापततीत्येष न्यायो दण्डापूपिका । अत्र च क्वचित् प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतम् कचिदप्राकरणिकात् प्राकरणिकस्यार्थस्येति द्वौ भेदौ । क्रमेणोदाहरणम्-'तदपर' मिति शेषः । 'असकृ' दिति चमत्कारपुष्ट्यर्थे वचनम्, अतः - 'किमिति कृशाऽसि कृशोदरि ! किं तव परकी - वृत्तान्तैः' इत्यादौ उत्तरस्याकूत गर्भत्वेन सकृदपि चमत्कारित्वेनोपस्कार कमेवेति बोध्यम् ॥ १३५ ॥ उदाहरति- यथा । मम - 'श्वश्रूः स्वामिमाता । वीक्षितुं द्रष्टुं गतागतं बोद्धुमिति यावत् । न । क्षमा शक्ता । अन्धेति भावः । स्वामी । दूरतरं नितान्तं दूरं देशमित्यर्थः । गतः प्राप्तः । अतस्तस्य सहसा प्रत्यागमनसम्भावना नास्तीति भावः । अहम् । बाला । एकाकिनी । अतः - तव पथिकस्य । इह । वसति - र्वासः । कुतः कथं सङ्गच्छेतेति भावः ॥ २७० ॥'
अत्र प्रश्नोन्नयं निर्दिशति - अनेनेत्यादिना । अनेनोत्तरेणेत्यर्थः । स्पष्ठमन्यत् ।
द्वितीयमुदाहरति- 'विसमा विषमा प्रतिकूलेति यावत् । का ? देव्वगई दैवगतिः प्रारब्धभोग ईश्वरेच्छेति यावत् । 'विषमे 'ति शेषः । लद्धव्वं लब्धव्यं यत्नेनोपार्जनीयमिति यावत् । किम् ? गुणग्गाही गुणग्राही । जणो जनः । ' लब्धव्य' इति शेषः । सोक्खं सौख्यं सुखसाधनमिति यावत् । किम् ? सुकलत्तं सुक सुभगायाः सम्पत्तिरिति यावत् । दुग्गेज्झं दुर्ग्राह्यं दुर्वश्यमिति यावत् । किम् ? खलो दुर्जनः । लोओ लोकः । आर्याछन्दः । अत्रासकृत्प्रनः ॥ २७१ ॥
अलङ्कारान्तरतोऽस्य व्यवच्छेदं निर्दिशति-अत्रोत्तरालङ्कारे । 'प्रश्नस्ये 'ति शेषः । अन्यव्यपोहे वस्त्वन्तरनिराकरणे । तात्पर्याभावात् । परिसङ्ख्यातः । भेदो भिन्नत्वम् । इदमुत्तरम् । च । अनुमानम् । न । तस्यानुमानस्य । साध्यसाधनयोर्लिङ्गिलिङ्गयोः । निर्देशे । एव । अङ्गीकारात् । इदम्-काव्यलिङ्गम् । न्व । न । उत्तरस्य प्रतिवचनस्य । प्रश्नं प्रश्नवाक्यम् । प्रति । अजनकत्वात् हेतुत्वाभावात् ।
अर्थापत्तिं लक्षयति-१७१ दण्डापूपिकया दण्डापूपन्यायेनेत्यर्थः । दण्डापूपयोर्भावो दण्डापूपिका । 'द्वन्द्वमनोज्ञादिभ्यश्च । ५।१।१३३ इति वुञ् । अन्यार्थागमोऽन्यार्थज्ञानम् । अर्थापत्तिस्तदभिधेयोऽलङ्कारः । इष्यते ॥ १३६ ॥
दण्डापूपिकां निर्दिशति - ' मूषिकेण । दण्डः । भक्षितः ।' इति इत्युक्तौ । अनेन दण्डभक्षणेन । 'तरसहचरितं तस्य दण्डस्य सहचरितम् । अपूपभक्षणम् । अर्थात्तात्पय्यैतः । आयातं ज्ञातम् । भवति । इति । नियतसमामन्यायान्नियतस्य नियतवत्त्वेन निश्चितस्य समानन्यायः सदृशः पन्थाः तस्मात् तत्सामर्थ्यादिति भावः । अर्थान्तरम् | आपतत्यर्थतो न तु शब्दतः प्रतिपद्यते । इत्येषः । न्यायः । दण्डापूपिका । मूषिकस् दण्डभक्षणं दुश्शकमिति सुशकं तत्सहचरितापूपभक्षणं सम्भाव्यते यथा, तथा यत्र सहचरितैकसिद्धेरपर सिद्धिरौ चित्यात् सम्भाव्यते सा कविप्रतिभोत्थाऽर्थापत्तिर्नामालङ्कार इति भावः ।
अस्याश्च भेदद्वयमित्याह-अत्र चेत्यादिना । स्पष्टम् । उदाहरणं निर्दिशति क्रमेण । उदाहरणमुदाह्रियते - १ 'विषमा का दैवगतिः किं लब्धव्यं जनो गुणग्राही । किं सौख्यं सुकलत्रं किं दुर्ग्राह्यं खलो लोकः ॥ ' इति संस्कृतम् ॥