________________
पारच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। 'हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तामामप्यवस्थेयं के वयं स्मरकिङ्कराः॥२७॥'
'विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
अतितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिणाम् ॥ २७३ ॥' अत्र च समानन्यायस्य श्लेषमूलत्वे वैचित्र्यविशेषः, यथोदाहते'हारोऽय'मित्यादौ । न चेदमनुमानम्, समानन्यायस्य सम्बन्धरूपत्वाभावात् ।
१७२ विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः । यथा--'नभ्यन्तां शिरांसि, धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्यो वा'
अत्र शिरसां धनुषां च नमनयोः सन्धिविग्रहोपलक्षणत्वात् , सन्धिविग्रहयोश्चैकदा कर्जुमशक्यत्वाद्विरोधः, स चैकपक्षाश्रयणपर्यवसानः । तुल्यबलत्वं चात्र धनुःशिरोनमनयोईयोरपि स्पर्धया सम्भाव्यमानत्वात् , चातुर्य च औपम्यगर्भत्वेन । एवं-कर्णपूरीक्रियन्ता'मित्यत्रापि ।
अयं मुक्तानां पुञ्जभूतः । हारस्तदाख्यं भूषणम् । हरिणाक्षीणाम् । स्तनमण्डले । लुठति अवज्ञात इव पतितो भवतीति भावः । मुक्तानां (मौक्तिकानाम् ) विरतानाम् । अपि । इयम् । अवस्था। 'चेत्तहीति शेषः । स्मरकिङ्कराः स्मरेण किङ्करत्वं नीताः। के। वयम् । अस्माकं तु कथैव केत्यर्थः । मुक्तानां तावद् योषिदालिङ्गन
पथ यदि तत्सुघटम् , किं पुनः स्वभावतो रक्तानां तत्सुघटत्वे संशयनमिति तत्त्वम् । अत्र मुक्तानां वर्णनीया त्वेन प्राकरणिकत्वम् ॥ २७२॥'
द्वितीयामुदाहरति-'सोऽजो नाम राजेन्द्रः । सहजां खभावसिद्धाम् । अपि । धीरताम् । अपहाय । बाष्पगद्गदम् । विललाप । अतितप्तम् । अयो लोहम् । अपि । मार्दवं मृदुत्वम् । भजते । शरीरिणाम् । कथा । एव । का। यदि संतप्तं लोहमपि द्रवति, तर्हि अज इन्दुमत्या वियोगेन सन्तप्तस्तथाभूतो जात इति किं चित्रमिति भावः । रघुवंशस्येदं पद्यम् । वैतालीयं छन्दः । अत्रायसो वर्णनीयत्वाभावादप्राकरणिकत्वम् ॥ २७३ ॥' ___ अत्र वैचित्र्यहेतुं निर्दिशति-अवार्थापत्तौ । च । समानन्यायस्य दण्डापूपिकान्यायस्य । श्लेषमूलत्वे । वैचित्र्यविशेषः । उदाहरति-यथा। उदाहते । 'हारोऽय'मित्यादौ । व्याख्यातपूर्वमिदम् । अनुमानादस्य व्यवच्छेदमाह-इदमर्थापत्तिरूपम् । च। अनुमानम् । न । समानन्यायस्य । सम्बन्धरूपत्वाभावाद व्याप्तिरूपत्वाभावात् । व्याप्तिश्च ज्ञाप्यज्ञापकयोरव्यभिचरितसामानाधिकरण्यरूपः, प्रकृते तु एकस्य साधर्म्यग्रहण तत्सधर्मणो योग्यतया तादृशधर्मग्रहो भवतीति नात्रानुमानशङ्केति भावः ।
विकल्पं लक्षयति-१७२ तुल्यबलयोस्तुल्यं बलं ययोस्तादृशयोः । 'अर्थयो'रिति शेषः । चातुरीयुतश्चातुरी चातुर्ये वैचित्र्यमिति यावत् तया युतः । विरोधः। विकल्पः।
उदाहरति-यथा-'शिरांसि । नम्यन्ताम् । 'यदि योद्धमशक्ति'रिति शेषः । धनूंषि । वा'नम्यन्ता मिति पूर्वतोऽन्वेति । 'यदि योद्धं शक्ति'रिति शेषः । आज्ञाः 'अस्माक'मिति शेषः । कर्णपूरीक्रियन्तां कर्णपूरा इव क्रियन्तामित्यर्थः । श्रूयन्तामिति भावः । 'यदि सन्धित्से'ति शेषः । मौयों धनुाः । वा । 'कर्णपूरीक्रियन्ता मिति पूर्वतोऽन्वेति आकृष्यन्तामिति भावः । 'यदि युयुत्से'ति शेषः । कमपि शत्रु प्रति राज्ञो दूतद्वारोक्तिरियम् । गद्यमिदम् ।'
उदाहृतं सङ्गमयति-अत्र । शिरसाम् । धनुषाम् । च । नमनयोः । सन्धिविग्रहोपलक्षणत्वाद सन्ध्युपलक्षणत्वात् विग्रहोपलक्षणत्वाच्चेत्यर्थः । उपलक्षणं परिचायकम् । सन्धिविग्रहयोः। च । एकदा । कर्तुम् । अशक्यत्वात् । विरोधः। ननु सर्वत्र तथा विरोधो न सम्भवतीत्यत आह-स विरोधः । च । एकपक्षाश्रयणपर्यवसान एकपक्षस्य शिरोधनुनमनयोरेकतरस्य पक्षस्याश्रयणं तत्र पर्यवसानं समाप्तिर्यस्य तादृशः । तदन्यतरपक्षाश्रयणे तस्य निराकरणमिति भावः। 'तथा च-तुल्यबलयोरेकतरस्मिन् प्रकृतेऽनन्वयविरोध इति परमतात्पर्य मिति विवृतिकाराः । एवमुपलक्षणमाश्रित्य तुल्यबलत्वं साधितम् , अथ तदन्तरा साधयति-तुल्यबलत्वम् । च । अत्र । द्वयोः । अपि । धनुःशिरोनमनयोः । स्पर्धया । 'वक्तु'रिति शेषः । सम्भाव्यमान :