________________
२९२
साहित्यदर्पणः ।
[दशम:एवं युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः।' 'अत्र श्लेषावष्टम्भन चारुत्वम् । 'दीयतामर्जितं वित्तं देवाय ब्राह्मणाय च ।' इत्यत्र चातुर्याभावान्नायमलङ्कारः।
१७३ समुच्चयोऽयमेकस्मिन् सति कार्यस्य साधके ॥ १३७ ॥
खले कपोतिकान्यायात्तत्करः स्यात्परोअपि चेत् ।
गुणौ क्रिये वा युगपत् स्यातां यद्वा गुणक्रिये ॥ १३८ ॥ यथा मम--'हंहो धीरसमीर ! हन्त ! जननं ते चन्दनक्षमाभृतो
दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः। प्रत्यङ्गं दहसीह मे त्वमपि चेदुद्दामदावाग्निवन्मत्तोऽयं मलिनात्मको वनचरः किं वक्ष्यते कोकिलः ॥२७४॥'
त्वात् । चातुर्य वैचित्र्यम् । च । औपम्यगर्भवेन 'धनूंषीव शिरांसि नम्यन्ता मिति विच्छित्तिविशेषशालि. त्वेन । अभेदार्थयं तृतीया ।एवम् । 'कर्णपूरीक्रियन्ता' मित्यत्र । अपि । एतेन 'मौर्यो वा' इत्यस्य ग्रहणम् ।
एवमुदाहरणं सङ्गमयान्यत्राप्येवं सङ्गमनीयमित्याह-एवमित्यादिना । स्पष्टोऽर्थः । 'भक्तिप्रहविलोकनप्रणयिनी
ठस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैनीते हितप्राप्तये । लावण्यस्य, महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥' इति समस्तं पद्यम् । अत्र द्विवचनैकवचनश्लेषः । 'अत्र तनुनेत्रयोर्भ: वार्तिशमनसाधनक्षमत्वेन तुल्यबलत्वम् । तयोरेकतरस्यैव भवार्तिशमनरूपे प्रकृतकार्य हेतुत्वेनान्वयो, नतु समुच्चयवदुभयोरिति विरोधः।' इति विवृतिकाराः । यथा वा-'पतत्यविरतं वारि नृत्यन्ति शिखिनो मुदा । अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥' इत्यत्र विप्रलम्भानुगुण्येन वैचित्र्यम् । यथा वा-'प्राणानर्पय सीतां वा, गृध्रांस्तर्पय वा द्विजान् । यमं भजस्व रामं वा यथेच्छसि तथा चर ॥' इत्यत्र त्वौपम्यगम्येन चातुर्यम् ।। . समुच्चयं लक्षयति-१७३ चेत् । एकस्मिन् । कार्यस्य प्रस्तुतार्थस्य । साधके । सति स्थिते सतीति भावः। खलेऽन्नोत्पत्तिस्थानविशेषे। कपोतिकान्यायात् कपोता इवेति सैव न्यायस्तस्मात् । 'इवे प्रतिकृतौ।' ५।३।९६ इति कन् । खले यथा कपोतामां युगपत् भक्षणरूपैककार्यार्थ पतनं तथेति भावः । परोऽन्यः । अपि । तत्करस्तस्य कार्यस्य करः साधकः । स्यात् । तदैकः' इति शेषः । अयम्। समुच्चयः। अथ चेतू-गुणौ गुणद्वयम् । युगपदेककालम् । स्यात् 'तदा द्वितीयः' इति शेषः । वा यद्वा । क्रिये क्रियाद्वयम् । युगपत। स्याताम् 'तदा तृतीय' इति शेषः । यद्वा । गुणक्रिये । एको गुण एका च क्रियेति भावः । युगपत् स्याताम् । 'तदा चतुर्थ'इति शेषः । 'अयं समुच्चय' इति पूर्वतोऽनुषज्यते । तथा च-समुच्चयनं कारणयोर्गुणयोः क्रिययोगुणक्रिययोर्वा युगपदुपस्थानमिति समुच्चय इति साधारण लक्षणम् । अत्र द्वित्वं चाविवक्षितम् । चतुर्विधोऽप्ययं सद्योगेऽसद्योगे सदसयोगे चेति त्रिधा भिन्नो द्वारशविधः ॥ १३७॥ १३८॥
उदाहरति-यथा। मम । 'हंहो विस्मयः । हे धीरसमीर धीरवायो ! ते तव । चन्दनक्ष्माभूतश्चन्दनः प्रधावात् पर्वतात् । जननमुत्पत्तिः । हन्त ! जगदुत्तरं जगत्युत्तरं विलक्षणम् , अलौकिकमिति भावः । तवदाक्षिण्यं चातुर्य्य परसन्तोषकत्वमिति यावत् । गोदावरीवारिभिः । परिचयः सङ्गः । अत एवंविध:-अपि । त्वम् । चेत् । उद्दामदावाग्निवदुद्दामा प्रचण्डोऽसौ दावाग्निस्तद्वत् । इह । मे । (अनागसः) । प्रत्यङ्ग सर्वाङ्गम् । दहसि । तत्-अयम् । मत्तः प्रमादं प्राप्तः । मलिनात्मको मलिन आत्मा स्वभावो देहो वा यस्य तथोक्तः । वनचरः। कोकिलः । किम् । वक्ष्यते न किमपि वक्तुं शक्य इति भावः । यदि साधुतया सर्वथाख्यातोऽपि धीरः समीरस्त्वं मां दहसि, तदयं मलिनः कोकिलस्त्वत्साहाय्यं कर्त्तमुपस्थितः केन प्रतिषेध्य इति निष्कर्षः। विरहिणः कोकिलखनेन पीडयमानस्य दक्षिणानिलं प्रत्युक्तिरियम् । शार्दूलविक्रीडितं वृत्तम्, तल्लक्षणं चोक्तं प्राक् ॥ २७४ ॥'