Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 846
________________ २६८ . साहित्यदर्पणः। [ दशमः___ 'न धत्ते शिरसा गङ्गां भूरिभारभिया हरः। त्वद्धाजिराजिनि—तधूलिभिः पङ्किला हि सा॥२१६॥' .... इत्यत्र हिशब्दोपादानेन पङ्किलत्वादितिवद्धतुत्वस्य स्फुटतया नायमलङ्कारः, वैचित्र्यस्यैवा. लङ्कारत्वात् । - १४५ अनुमानं तु विच्छित्त्या ज्ञानं साध्यस्य साधनात् ॥ ११६ ॥ यथा--'जानीमहेऽस्या हदि सारसाक्ष्या विराजतेऽन्तः प्रियवक्रचन्द्रः । एवंविधं भेदमनङ्गीकृत्य समर्थकहेतोरपि काव्यलिङ्गविषयत्वखीकारेऽर्थान्तरन्यासोच्छेदप्रसङ्ग इति भावः ।' इति । ___ अस्या विषयमुदाहरति-'हरः। भूरिभारभिया। गङ्गाम् । शिरसा । न । धत्ते विभर्ति । हि यतः । सा गङ्गा । त्वदाजिराजिनि—तधूलिभिः । पङ्किला पङ्कवती । राज्ञः स्तुतिरियम् ॥२१६॥ इत्यत्र । हिशब्दो. पादानेन । पङ्किलत्वादितिवत् । हेतुत्वस्य । स्फुटतया । अयं काव्यलिङ्गाख्यः । अलङ्कारः। न । हेतुं निर्दिशति-वैचित्र्यस्य विच्छित्तिविशेषस्य । एव । अलङ्कारत्वात् । अत्राहुः कौस्तुभकारा:-"यत्तु (रसगङ्गाधरे ) काव्यलिङ्गं नालङ्कारः, कविप्रतिभानिर्मितत्वप्रयुक्तचमत्कारविशेषात्मकविच्छित्तिविरहात् । हेतुहेतुमद्भावस्य लोकसिद्धत्वात् । श्लेषादिसंमिश्रणजन्यस्तु चमत्कारः श्लेषप्रयुक्तत्वात् तदंशस्यैवालङ्कारतां कल्पयति, नतु काध्यलिङ्गस्य; तत्प्रयोज्यचमत्कारान्तराभावात्' इति । तत्तुच्छम् । लौकिकत्वेऽपि कविप्रतिभामात्रगम्यतया चमत्कारजनकत्वात् एतदीयहेतुहेतुमद्भावमात्रस्य लोकसिद्धत्वाभावाच । न ह्युक्तसुखालोकोच्छेदादीनां महामोहता. दात्म्यादिहेतुत्वं क्वचित् सिद्धम् । किञ्च एवमप्युपमाऽऽदेरप्यलङ्कारत्वं न स्यात् सादृश्यस्य वास्तवत्वेन कविप्रतिभाकल्पितत्वविरहात् । नच तत्राप्युपमाप्रयोजकसाधारणधर्माभेदांशे तत् कल्पितत्वमेवेति वाच्यम्, रमणीयत्वादिनिमित्तधर्मस्यापि लोकप्रसिद्धत्वात् , 'गोसदृशो गवय'इत्यादेरपि वस्तुतो भिन्नसाधारणधर्माभेदाध्यवसायमूलकत्वात् , द्रव्यत्वादिनिमित्तकसादृश्यस्य शक्तिपरिच्छेदकत्वायोगात् । अभेदांशस्यैव शक्तिकल्पिततया तदंशस्यैवालङ्कारत्वं, नतु सादृश्यस्येत्युक्तदोषापरिहाराच । कल्पितत्वावच्छेदकधर्मावच्छिन्नचमत्काराजनकतायास्तद्धर्मावच्छिन्नमात्रालङ्कारत्वप्रयो. जकतायास्त्वयैवोक्तत्वात् । चमत्कारजनकस्य लौकिकस्याप्यलङ्कारत्वे बाधकाभावात्सर्वालङ्कारोच्छेदापत्तश्च । इति । अनुमानं लक्षयति-१४५ विच्छित्याऽलकारत्वोपस्कारकेण चमत्कारविशेषेण । अभेदे तृतीयेयम् । तथा च-विच्छित्यभिन्नमित्यर्थः । साध्यस्य साधयितुं योग्यमिति, तस्य वह्नयादेरित्यर्थः । साधनात् साध्यतेऽनेन वहृयादिरिति, तस्मात् धूमादेरित्यर्थः । ज्ञानमवगमः । तु पुनः। अनुमानमनुमीयते ज्ञायते साध्यस्य यत्तदिति तथोक्तं, तन्नामाऽलकार इति भावः । इदम्बोध्यम्-धर्मिमणि नियतो व्यापकसम्बन्धः साध्यत्वम्, पक्षवृत्तित्वसपक्षवृत्तित्वविपक्षावृत्तित्वेन त्रिरूपो हेतुविशेषः साधनम् । तथा च-यथा 'पर्वतो वह्निमान् धूमात्' इत्यत्र पर्वते पक्षे धूमस्य हेतुविशेषस्य वृत्तित्वमस्ति, एवं वह्निरूपसाध्यनिश्चयवति महानसेऽपि सपक्षे, तथा वह्निरूपसाध्याभावनिश्चयवति हदे विपक्षे धूमस्य हेतुविशेषस्य वृत्तित्वं नास्तीति त्रिविधेन धूमेन ज्ञापकेन हेतुना पर्वते पक्षे साध्यस्य वर्ज्ञानं यज्जायते तदनुमानम् , अस्य च 'पर्वतो वह्निमान् धूमा'दित्यादौ सत्त्वेऽपि विच्छित्त्यनालिङ्गितत्वेन नालङ्कारव्यपदेश्यत्वम्, इत्युक्तं विच्छित्त्येति । विच्छित्तिश्च अलङ्कारान्तरोद्भाविता कविप्रतिभोद्भाविता च चमकत्यपरपर्यायाऽलङ्कारत्वोपस्कारकत्व. सम्पत्तिः । विवृतं च कौस्तुभकारैः-'अव्यभिचरितसामानाधिकरण्यरूपव्याप्तिविशिष्टस्य साधनस्य दर्शनात् धर्मिणि पक्षे तनिष्ठाल्यन्ताभावाप्रतियोगित्वरूपव्यापकत्वविशिष्टस्य साध्यस्य यज् ज्ञानं तदनुमानमित्यर्थः । अत्रानुमितिरेवानु. मानपदेनोच्यते, तस्या एव चमत्कारजनकत्वेनालङ्कारत्वात् तां विना परामर्शमात्रेण प्रकृतानुकूलार्थसिद्धिविरहात् । व्याप्तिश्च पारमार्थिकी कविकल्पिता च ।' इति । अयं चालङ्कार:-मन्ये -शङ्के-जाने-अवैमीत्यादिवाचकपदोपादाने वाच्यः । यत्र लिङ्गलिङ्गिनोः सत्त्वं तत्र तेषामनुमितिबोधकत्वम्, यत्र सादृश्यादिनिमित्तसद्भावस्तत्र तेषामुत्प्रेक्षाबोधकत्वम् , अत एवैवमेतयोर्भेदः । वक्ति कथयती-त्यादिलक्षकपदोपादाने पुनर्लक्ष्यः, एवं मन्ये इत्यादीनां वक्तीत्यादीनां चानुपादाने साध्यसाधनाभ्यां तदाक्षेपे व्यायः । इति ॥ ११६॥ उदाहरति-यथा-अस्याः। सारसाक्ष्याः सारसे कमले इवायते अक्षिणी यस्यास्तस्याः, कमलायतनेत्रायाः कान्ताया इति भावः । हदि हृदये । अन्तो रहसि । प्रियवऋचन्द्रः प्रियस्य नायकस्य वक्रचन्द्रो वकं वदनमेव १ मन्ये इत्यादीनाम् ।

Loading...

Page Navigation
1 ... 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910