Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 849
________________ परिच्छेदः ] , रुचिराख्यया व्याख्यया समेतः। २७१ निषेध इति द्वौ भेदौ, उक्तविषये च क्वचिद्रस्तुस्वरूपस्य निषेधः, क्वचिदस्तुकथनस्येति द्वावित्याक्षेपस्य चत्वारो भेदाः। क्रमेण यथा 'स्मरशरशतविधुराया भणामि सख्याः कृते किमपि । क्षणमिह विश्राम्य सखे ! निर्दयहृदयस्य किं वदाम्यथवा ॥ २२०॥' अत्र संख्या विरहस्य सामान्यतः सूचितस्य वक्ष्यमाणविशेष निषेधः। 'तव विरहे हरिणाक्षी निरीक्ष्य नवमालिकां दलिताम् । हन्त नितान्तमिदानीमाः! किं हतजल्पितैरथवा ॥ २२१ ॥' 'अत्र मरिष्यती'त्यंशेनोक्तम् । 'बालअ ! णाहं दूती तुअ पिओसि तिण मह बाबारो। सा मरह तुज्झ अअसो एअं धमक्खरं भणिमो'॥ २२२ ॥' ऽन्यस्मिन्नंशे । उक्तिविषयांशातिरिक्तऽश इति भावः । निषेधः। इति । द्वौ । भेदौ । तथा च-वक्ष्यमाण प्रयगतोऽयं द्विविधा तत्र सामान्यतः सचितस्य सर्वस्य निषेधात्मा,अंशेनाभिधानेऽशान्तरे निषेधात्मा चेति फलितम् । उक्तविषये । क्वचित् कस्मिंश्चिलक्ष्ये। वस्तुस्वरूपस्य वस्तुनो यत् स्वरूपमवच्छेदकं तस्य । वस्तुनि यद्वस्तुत्वावच्छेदकं तस्येति भावः । च। निषेधः। क्वचित् । वस्तुकथनस्य वस्तुनो विषयस्य यत् कथनं तस्य । 'निषेध'इति देहलीदीपकन्यायेनानुषज्यते । इति । द्वौ। 'भेदा' इति पूर्वतोऽनुषज्यते। तथा च-उक्तविषयगतोऽप्ययं द्विधा, वस्तुत्वनिषेधात्मा, वस्तुकथननिषेधात्मा च; इति फलितम् । इति । आक्षेपस्य । चत्वारः । भेदाः। उदाहर्तुकाम आह-क्रमेण । यथा । 'हे सखे! स्मरशरशतविधुरायाः स्मरस्य शरशतेन विधुरा दुःखिता तस्यास्तथोकायाः। कामदेवस्य बहबाणप्रहारेण व्याकुलीकृताया इति भावः । 'वैकल्येऽपि च विश्लेषे विधुरं विकले त्रिषु।' इति त्रिकाण्डशेषः । सख्याः । कृते निमित्तम् । किमपि किञ्चित् । भणामि कथये । अत:-क्षणम् । इह । विश्राम्य उपविश । अथवा । किम् । निर्दयहृदयस्य निष्करुणान्तःकरणस्य । कर्मणि सम्बन्धमात्रविवक्षया षष्ठी। वदामि वदेयमित्यर्थः । न किमपि वक्तं शक्यमिति भावः । अत्र वक्ष्यमाणवस्तुगत आक्षेपः । अत्रोद्गीतिश्छन्दः, तल्लक्षणं चोतं प्राक् ॥ २२० ॥ उदाहृतमर्थ निर्दिशति-अत्र नायिकासख्या नायकं प्रत्युक्तौ । सख्याः सखीसम्बन्धिनः। विरहस्य । सामा. न्यतः। सचितस्य स्मरशरे'त्यादिनेति शेषः । वक्ष्यमाणविशेषे वक्ष्यमाणे (वस्तुनि) विशेषोऽशक्यवक्तव्यस्वरूपं वैलक्षण्यं तत्र, तस्मिन् विषय इति भावः । निषेधः 'निर्दयहृदयस्ये त्यनेन विवक्षितं व्यञ्जयित्वेति शेषः । हरिणाक्षी। तव तदेकाधारस्य भवत इति भावः । विरहे सान्निध्याभावे सतीति भावः । नवमालिकाम् । दलितां विकसिताम् । निरीक्ष्य दृष्ट्वा । हन्त कष्टम् । इदानीम् । नितान्तम् । आः! 'मृतप्राये'ति शेषः । अथवा । हतजल्पितर्हतानि वचनानहाँणि यानि जल्पितानि वचनानि तैः । किम । न किमपि प्रयोजनम् । अत्रापि वक्ष्यमाण आक्षेपः, किन्तु अंशत उक्त्वेति विशेषः । उपगीतिश्छन्दः ॥ १२१॥' उदाहरणसङ्गतेर्हेतुं निर्दिशति-अत्र । 'मरिष्यतीति 'अशक्यं वक्तव्य' मिति शेषः । अंशेनेकदेशेन 'हन्त नितान्तमिदानी'मित्यनेन । उक्तम् । 'अंशान्तरेण पुनरशक्यवक्तव्यतया तस्य निषेधः । अशक्यवक्तव्यतायाश्च 'हतजल्पितैरित्यनेन जल्पितनिन्दनद्वारा सूचन मिति शेषः। हे बालअ बालक लक्षणया तद्वदविदग्ध ! अहम् । दूती 'तस्या (तस्यास्तव प्रियायाः) इति शेषः । ण नेवास्मीत्यर्थः । तुभ त्वम् । प्पिओ प्रियः । असि । त्ति इति । मह मम । बाबारो व्यापार उद्यम इति यावत् । ण नैवास्तीत्यर्थः । तदर्थं न ममायं प्रयास इति भावः । सा तव कान्ता त्वदेकाधारेति यावत् । मरइ म्रियते 'जदि (यदि) इति शेषः । तुज्झ तव । 'तद्धि (तर्हि ) इति शेषः । अअसो अयशः । एअं एतत् । धंमक्खरं धर्मा। क्षरं सत्यवचनमिति यावत् । भणिमो भणामः । अत्रोक्तेऽपि दूतीत्वेऽति प्रसिद्ध 'दूत्या मिथ्यावादित्वं' निषेद्धं 'नाहं १ 'बालक ! नाहं दूती, त्वं प्रियोऽसीति न मम व्यापारः । सा म्रियते तवायश एतद्धमक्षिरं भणामः॥' इति संस्कृतम् ।

Loading...

Page Navigation
1 ... 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910