Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 851
________________ परिच्छेद: ] रुचिराख्यया व्याख्यया समेतः । अनिष्टत्वाद्गमनस्य विधिः प्रस्खलद्रूपो निषेधे पर्य्यवस्यति, विशेषश्च गमनस्यात्यन्तपरिहार्य्यस्वरूपः प्रतीयते । $ १५० विभावना विना हेतुं काय्र्योत्पत्तिर्यदुच्यते ॥ ११९ ॥ उक्तानुक्तनिमित्तत्वाद् द्विधा सा परिकीर्तिता । २७३ विना कारणमुपनिबध्यमानोऽपि कार्य्यादयः किञ्चिदन्यत्कारणमपेक्ष्यैव भवितुं युक्तः । तच्च कारणान्तरं क्वचिदुक्तं क्वचिदनुक्तमिति द्विधा । यथा 'अनायास कृशं मध्यमशङ्कतरले दृशौ । अभूषणमनोहारि वपुर्ववसि सुभ्रुवः ॥ २२५ ॥ अत्र वयोरूपं निमित्तमुक्तम्, अत्रैव 'वपुर्भाति मृगीदृश' इति पाठेऽनुक्तम् । १५१ सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा ॥ १२० ॥ तथेति उक्तानुक्तनिमित्तत्वात् । तत्रोक्त निमित्ता यथा-'धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः । प्रभवोऽप्यप्रमादास्ते महामहिमशालिनः ॥२२६॥' अत्र महामहिमशालित्वं निमित्तमुक्तम् । अत्रैव चतुर्थपादे कियन्तः सन्ति भूतले।' इति पाठे त्वमुक्तम् । अचिन्त्यनिमित्तत्वं चानुक्तनिमित्तत्वमेवास्या भेद इति पृथङ् नोक्तम् । उदाहृतमर्थं निर्दिशति - अत्र । अनिष्टत्वादनभिमतत्त्रात् । गमनस्य' गच्छेत्यनुज्ञाया इति भावः । विधिः । स्खलद्रूपोऽत्यन्तमसम्भवन् । निषेधेन त्वया गन्तव्यं गते त्वयि मम मरणं निश्चितमेवं' इत्येवं प्रतिषेधसूचने । पर्यवस्यति परिणमति । गमनस्य । अत्यन्तपरिहार्यत्वरूपः । विशेषः । च । प्रतीयते । I विभावनां लक्षयति- १५० यत् यत्र । हेतुं कारणम् । विना । काय्र्योत्पत्तिः काय्र्यस्योत्पत्तिः । उच्यते । सा | विभावना विभावयति कारणं विना काय्यै प्रत्याययति (सम्भावयति ) इति तथोक्ता, तन्नामाऽलङ्कार इति भावः । उक्तानुक्तनिमित्तत्वादुक्तं चानुक्तं चेति तादृशे निमित्ते यस्यां तस्या भावस्तत्त्वं तस्मात् । द्विधा । परिकीर्तिता । अयम्भावः कारणं विना यद्यपि न किमपि कार्य समुत्पद्यते, तथाऽपि प्रसिद्धं कारणं विना यदि कविः स्वप्रतिभोन्मेतं सूचयेत् तर्हि विभावना अत्र प्रसिद्धस्यैव कारणस्य निषेधात् तत्सद्भावे पुनर्वैचित्र्यानुदयात् । इति ॥ ११९ ॥ तदेव स्वयं वृत्तिकारो विवृणोति - विनेत्यादिना । स्पष्टम् । उदाहरति-यथा- ' सुभ्रुवः सुन्दरे भ्रुवौं यस्यास्तस्याः । वयसि अवस्थायां यौवनप्रादुर्भाव इति यावत् । मध्यमुदरम् | अनायासकृशमायासमन्तरैव कृशमिति भावः । 'जात' मिति शेषः । दृशौ नेत्रे । अशङ्कतरले शङ्कामन्तरा चञ्चले । वपुः शरीरम् । अभूषण मनोहारि भूषणपरिधानमन्तरा मनोरमणीयम् ॥ २२५ ॥' अत्रोक्तं निमित्तं सूचयन् अनुक्तनिमित्तत्व पाठभेदं निर्दिशति - अत्रेत्यादिना । स्पष्टम् । विशेषोक्तिं लक्षयति- १५१ हेतौ कारणे । सति । फलाभावः फलस्य कार्यस्याभावस्तथोक्तः । तद्रूपेति भावः । विशेषोक्तिः । तथोक्तानुक्तनिमित्तत्वादित्यर्थः । द्विधा ॥ १२० ॥ 'तथेतिपदार्थ स्पष्टयति- तथेत्यादिना । निगदव्याख्यातम् । उदाहर्तुमाह-तत्रेत्यादि । स्पष्टम् । 'ते । महामहि. मशालिनो महान् असौ महिमा तेन शालन्त इत्येवंशीलास्तथोक्ताः । धनिनः । अपि । निरुन्मादा उन्मादहीनाः । युवानः । अपि । चञ्चलाः । न । प्रभवः । अपि । अप्रमादाः प्रमादशून्याः । अत्रोन्मादस्य हतो. धनित्वस्य चाञ्चल्यस्य हेतोर्युक्त्वस्य, प्रमादस्य हेतोः प्रभुत्वस्य च सत्त्वेऽपि उन्मादादिराहित्याभिधानेन तत् कार्य्याभावोऽभिहितः ॥ २२६ ॥' अत्र निमित्तोक्तिं निर्दिशति अत्रेत्यादिना । स्पष्टम् । अत्रैवैकेनांशेन पाठपरिवृत्तौ द्वितीयोदाहरणं समर्थयते - अत्रैवेत्यादिना । स्पष्टम् । निमित्तस्याचिन्त्यतायामस्या अचिन्त्यनिमित्तत्वन्नाम परैः स्वीकृतो भेदोऽन्तर्भवतीत्याह- अचिन्त्य निमितत्वमचिन्त्यं निमित्तं यत्र तस्य भावस्तत्त्वम् । व । अस्या निरुक्तलक्षणाया विशेषोक्तेः । अनुक्तनिमित्तत्वम् । एव । भेदः । इति | पृथक् । न । उक्तम् । ३५

Loading...

Page Navigation
1 ... 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910