________________
परिच्छेद: ]
रुचिराख्यया व्याख्यया समेतः ।
अनिष्टत्वाद्गमनस्य विधिः प्रस्खलद्रूपो निषेधे पर्य्यवस्यति, विशेषश्च गमनस्यात्यन्तपरिहार्य्यस्वरूपः प्रतीयते ।
$
१५० विभावना विना हेतुं काय्र्योत्पत्तिर्यदुच्यते ॥ ११९ ॥ उक्तानुक्तनिमित्तत्वाद् द्विधा सा परिकीर्तिता ।
२७३
विना कारणमुपनिबध्यमानोऽपि कार्य्यादयः किञ्चिदन्यत्कारणमपेक्ष्यैव भवितुं युक्तः । तच्च कारणान्तरं क्वचिदुक्तं क्वचिदनुक्तमिति द्विधा । यथा
'अनायास कृशं मध्यमशङ्कतरले दृशौ । अभूषणमनोहारि वपुर्ववसि सुभ्रुवः ॥ २२५ ॥ अत्र वयोरूपं निमित्तमुक्तम्, अत्रैव 'वपुर्भाति मृगीदृश' इति पाठेऽनुक्तम् । १५१ सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा ॥ १२० ॥ तथेति उक्तानुक्तनिमित्तत्वात् । तत्रोक्त निमित्ता यथा-'धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः । प्रभवोऽप्यप्रमादास्ते महामहिमशालिनः ॥२२६॥' अत्र महामहिमशालित्वं निमित्तमुक्तम् । अत्रैव चतुर्थपादे कियन्तः सन्ति भूतले।' इति पाठे त्वमुक्तम् । अचिन्त्यनिमित्तत्वं चानुक्तनिमित्तत्वमेवास्या भेद इति पृथङ् नोक्तम् ।
उदाहृतमर्थं निर्दिशति - अत्र । अनिष्टत्वादनभिमतत्त्रात् । गमनस्य' गच्छेत्यनुज्ञाया इति भावः । विधिः । स्खलद्रूपोऽत्यन्तमसम्भवन् । निषेधेन त्वया गन्तव्यं गते त्वयि मम मरणं निश्चितमेवं' इत्येवं प्रतिषेधसूचने । पर्यवस्यति परिणमति । गमनस्य । अत्यन्तपरिहार्यत्वरूपः । विशेषः । च । प्रतीयते ।
I
विभावनां लक्षयति- १५० यत् यत्र । हेतुं कारणम् । विना । काय्र्योत्पत्तिः काय्र्यस्योत्पत्तिः । उच्यते । सा | विभावना विभावयति कारणं विना काय्यै प्रत्याययति (सम्भावयति ) इति तथोक्ता, तन्नामाऽलङ्कार इति भावः । उक्तानुक्तनिमित्तत्वादुक्तं चानुक्तं चेति तादृशे निमित्ते यस्यां तस्या भावस्तत्त्वं तस्मात् । द्विधा । परिकीर्तिता । अयम्भावः कारणं विना यद्यपि न किमपि कार्य समुत्पद्यते, तथाऽपि प्रसिद्धं कारणं विना यदि कविः स्वप्रतिभोन्मेतं सूचयेत् तर्हि विभावना अत्र प्रसिद्धस्यैव कारणस्य निषेधात् तत्सद्भावे पुनर्वैचित्र्यानुदयात् । इति ॥ ११९ ॥ तदेव स्वयं वृत्तिकारो विवृणोति - विनेत्यादिना । स्पष्टम् ।
उदाहरति-यथा- ' सुभ्रुवः सुन्दरे भ्रुवौं यस्यास्तस्याः । वयसि अवस्थायां यौवनप्रादुर्भाव इति यावत् । मध्यमुदरम् | अनायासकृशमायासमन्तरैव कृशमिति भावः । 'जात' मिति शेषः । दृशौ नेत्रे । अशङ्कतरले शङ्कामन्तरा चञ्चले । वपुः शरीरम् । अभूषण मनोहारि भूषणपरिधानमन्तरा मनोरमणीयम् ॥ २२५ ॥' अत्रोक्तं निमित्तं सूचयन् अनुक्तनिमित्तत्व पाठभेदं निर्दिशति - अत्रेत्यादिना । स्पष्टम् ।
विशेषोक्तिं लक्षयति- १५१ हेतौ कारणे । सति । फलाभावः फलस्य कार्यस्याभावस्तथोक्तः । तद्रूपेति भावः । विशेषोक्तिः । तथोक्तानुक्तनिमित्तत्वादित्यर्थः । द्विधा ॥ १२० ॥
'तथेतिपदार्थ स्पष्टयति- तथेत्यादिना । निगदव्याख्यातम् । उदाहर्तुमाह-तत्रेत्यादि । स्पष्टम् । 'ते । महामहि. मशालिनो महान् असौ महिमा तेन शालन्त इत्येवंशीलास्तथोक्ताः । धनिनः । अपि । निरुन्मादा उन्मादहीनाः । युवानः । अपि । चञ्चलाः । न । प्रभवः । अपि । अप्रमादाः प्रमादशून्याः । अत्रोन्मादस्य हतो. धनित्वस्य चाञ्चल्यस्य हेतोर्युक्त्वस्य, प्रमादस्य हेतोः प्रभुत्वस्य च सत्त्वेऽपि उन्मादादिराहित्याभिधानेन तत् कार्य्याभावोऽभिहितः ॥ २२६ ॥' अत्र निमित्तोक्तिं निर्दिशति अत्रेत्यादिना । स्पष्टम् ।
अत्रैवैकेनांशेन पाठपरिवृत्तौ द्वितीयोदाहरणं समर्थयते - अत्रैवेत्यादिना । स्पष्टम् ।
निमित्तस्याचिन्त्यतायामस्या अचिन्त्यनिमित्तत्वन्नाम परैः स्वीकृतो भेदोऽन्तर्भवतीत्याह- अचिन्त्य निमितत्वमचिन्त्यं निमित्तं यत्र तस्य भावस्तत्त्वम् । व । अस्या निरुक्तलक्षणाया विशेषोक्तेः । अनुक्तनिमित्तत्वम् । एव । भेदः । इति | पृथक् । न । उक्तम् ।
३५