________________
२७४
साहित्यदर्पणः ।
[दशम:
यथा-- 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः। हरतापि तनुं यस्य शम्भुना न बलं हतम्॥२२७॥'
अत्र तनुहरणेऽपि बलाहरणे निमित्तमचिन्त्यम् । इह च का भावः कार्यविरुद्धसद्भावमुखेनापि निबध्यते, विभावनाय कारणाभावः कारणविरुद्धसद्भावमुखेनाप्येवम् । अतः 'यः कौमारहरः' इत्यत्र उत्कण्ठाकारणविरुद्धस्य निबन्धनाद्विभावना, कारणस्य विरुद्धं यत् 'चेतः समुत्कपठते इति कायं तस्य निबन्धनाद्विशेषोक्तिश्च । अत एवात्र विभावनाविशेषोक्त्योः सङ्करः। शुद्धोदाहरणं तु मृग्यम् ।
१५२ जातिश्चतुभिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ।
क्रिया क्रियाद्रव्याभ्यां यद् द्रव्यं द्रव्येण वा मिथः ॥ १२१ ॥
विरुद्धमिव भासेत विरोधोऽसौ दशाकृतिः। अथापि उदाहरति-यथा-'यस्य । तनुं शरीरम् । हरता निघ्नता । अपि । शम्भुना शङ्करेण । बलम् । न । हतम् । सः। एकोऽद्वितीयः । कुसुमायुधः । त्रीणि । जगन्ति लोकान् । जयति । अत्र तनुहरणरूपे हेतौ सत्यपि बलहरणरूपस्य कार्य्यस्यासत्त्वम् ॥ २२७ ॥'
निमित्तस्याचिन्त्यतां निर्दिशति-अत्रेत्यादिना । स्पष्टोऽर्थः । अत्रेदम्बोध्यम्-अनुक्तनिमित्ताया द्वौ भेदौ, तत्राद्योऽनुक्तचिन्त्यनिमित्तो द्वितीयोऽनुक्ताचिन्त्यनिमित्त इति; अथापि भेदकल्पनाया गौरवं मन्यमाना द्वावप्येतो भेदावनुक्तनिमित्तरूपावेवात एवायं भेदो न पृथगुक्तः । इति ।
अस्यां का भावस्य विच्छित्त्यन्तरेण बन्धं दर्शयन् विभावनायो कारणाभावस्य तथा बन्धमनुषगतो दर्शयतिइहास्यां विशेषोक्ताविति यावत् । च। कार्याभावः । कार्यविरुद्धसद्भावमुखेन कार्य्यस्य यद् विरुद्ध (कारण)तस्य सद्भावस्तस्य मुखं द्वारं तेन । अपि किम्पुनरन्यथेति शेषः । निबध्यते । एवम । विभावनायाम् । कारणाभावः। कारणविरुद्धसद्भावमुखेन कारणस्य विरुद्धं ( कार्य्यम् ) तस्य सद्भावस्तस्य मुखं द्वारं तेन । अपि किम्पुनरन्यथेति शेषः । 'निबध्यत'इत्यनुषज्यते । अतः। 'यः कौमारहर...'इति व्याख्यातपूर्व पद्यम् । इत्यत्र । उत्कण्ठाकारणविरुद्धस्योत्कण्ठायास्तद्रूपस्य कार्य्यस्य कारणं (नायकाद्यसन्निधिः ). तस्य विरुद्ध (नायकादिसन्निधिः) तस्य । निबन्धनात् । विभावना । कारणस्योत्कण्ठारूपकार्य्यस्य कारणभूतो यो नायकाद्यसन्निधिस्तस्येति भावः । विरुद्धं प्रतिकूलम् । यत् । 'चेतः।समुत्कण्ठते' इति।कार्यम् । उत्कण्ठारूपं कार्यमिति भावः । तस्य । निबन्धनात् । विशेषोक्तिः। च । अतः । एव । अत्रोदाहृते पद्ये । विभाव
विशेषोत्तयोः । सङ्करः । अलङ्कारसर्वस्वकारा अप्याहु:-कार्यानुत्पत्तिश्चात्र क्वचित् कार्यविरोधोत्पत्त्या निबध्यते, एवं विभावनायामपि कारणाभावः कारणविरुद्धमुखेन क्वचित्प्रतिपाद्यते। तथा च सति-'यः कौमारहर...' इत्यादौ विभावनाविशेषोक्त्योः सन्देहसङ्करः । तथाहि-उत्कण्ठाकारणं विरुद्धं यः कौमारहर'इत्यादिनिबद्धमिति धिभावना । तथा 'यः कौमारहर' इत्यादेः कारणस्य कार्य विरुद्धं 'चेतः समुत्कण्ठते' इत्युत्कण्ठाऽऽख्यं निबद्धमिति विशेषोक्तिः । इति । शुद्धोदाहरणम् । निरुक्तलक्षणयोरेतयोः पृथक्पृथगुदाहरणमिति भावः। तु। मृग्यमन्वेषणीयम् । अत्र विवृतिकारा:-"कार्यकारणविरुद्धसद्भावमुखेन कार्याभावकारणाभावोक्तौ विशेषोक्तिविभावनयोः शुद्धोदाहरणे क्रमेण यथा-'धनिनोऽपि स्थिरस्वान्ता यौवने धर्मतत्पराः । अनात्मश्लाधिनः शूरा भूपाला रघुवंशजाः॥' • अत्र स्थिरखान्तत्वमुन्मादविरुद्धं धर्मोपार्जनकारणं वार्द्धकं तद्विरुद्धं यौवनम् ।" इति।
विरोधं लक्षयति-यद् यदि । चतुर्भिः । जात्याद्यैर्जातिगुणक्रियाद्रव्यैः । सहार्थेयं तृतीया । जातिः। 'विरुद्धमेव भासेते'त्येव लिङ्गविपारीणामेनात्र सर्वत्रान्वेति, तथा च-'विरुद्धैव भासेते' त्याकर्षणीयम् । त्रिभिः। गुणादिभिर्गुणक्रियाद्रव्यैः । सहाथेयं तृतीया । गुणः । “विरुद्ध एव भासेते' त्याकर्षणीयम् । क्रियाद्रब्याभ्याम् । सहाथैयं तृतीया। क्रिया। 'विरुद्धैव भासेते' त्याकर्षणीयम् । वा। द्रव्येण । मिथः समम् । द्रव्यम् विरुद्धम् । इव । भालेत । तर्हि-असौ । दशाकृतिर्दशविधः। विरोधः ॥ १२१ ॥