________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
क्रमेण यथा--'तव विरहे मलयमरुद् दवानलः शशिरुचोऽपि सोमाणः । हृदयमलिरुतमपि भिन्ते नलिनीदलमपि निदाघ रविरथाः ॥ २२८ ॥' 'सन्ततमुसलासङ्गाद्बहुतरगृहकर्मघटनया नृपते !
द्विजपarai कठिनाः सति भवति कराः सरोजसुकुमाराः ॥ २२९ ॥' 'अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्वपतो जागरूकस्य याथार्थ्य वेद कस्तव ॥ २३०॥ ' 'लभसङ्गेन विना हरिणचक्षुषः । राकाविभावरीजा निर्विषज्वालाऽऽकुलोऽभवत् ॥२३१॥ ' 'नयनयुगासेचनकं मानसवृत्त्याऽपि दुष्प्रापम्। रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ॥२३२॥' 'त्वद्वांजिरा जिनिर्धूतधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गां भूरिभारभिया हरः ॥ २३३॥ ' 'वल्लभङ्गसङ्गेन विना हरिणचक्षुषः । राकाविभावरीजा निर्मध्यन्दिनदिनाधिपः ॥ २३४ ॥'
२७५
उदाहर्तुमुपक्रमते - क्रमेण यथानिर्देशम् । यथा । 'तव । विरहे 'जाते' इति शेषः । अस्यास्त्वदेकाधारायाः प्रियाया इत्यर्थः । मलयमरुन्मलयस्तन्नामा चन्दनोत्पत्तिस्थानभूतः पर्वतस्तस्य मरुद्वायुः । चन्दनसौगन्ध्यसम्भृततया शीतलोऽपि वात इति भावः । दवानलो दावाग्भिः । शशिरुचश्चन्द्रकान्तयः । अपि । सोष्माण उष्णाः । अलिरुतम्भ्रमरझङ्कारः । अपि । हृदयम् । भिन्ते विदारयति । नलिनीदलं पद्मिनीपत्रम् । अपि । निदाघरविमसूयः । 'जात' इति शेषः । अत्र क्रमेण जातेजीत्यादिभिश्चतुर्भिर्विरोधो भासते ॥ २२८ ॥ '
एवं जातेर्जात्यादिभिर्विरोधाभासं दर्शयित्वा गुणस्य गुणेन विरोधाभासं दर्शयति- 'हे नृपते ! बहुतरगृहकर्मघनया बहुतरं गृहाणां कर्माणि गृहोचितानि कार्य्याणि तेषां घटना निर्माणं तया । सन्ततमुसलासङ्गात् सन्ततं निरन्तरं मुसलस्यासङ्गोऽत्यन्तं प्रसङ्गस्तस्मात् । द्विजपत्नीनां ब्राह्मणीनाम् । कठिनाः कठोराः । 'अपीति शेषः । करा हस्ताः । भवति यथेष्टं सन्ततं सम्प्रदातृत्वेन प्रसिद्धे त्वयीति भावः । सति । सरोजसुकुमाराः कमलवत अत्यन्तं कोमलाः । ' जाताः' इति शेषः । त्वया तथा सन्ततं सम्प्रदीयते यथा ब्राह्मणा दासीभिरेव स्वस्त्रीणां कर्त्तव्यानि कारयन्तीति भावः । गीतिश्छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ २२९ ॥ '
गुणस्य क्रियया विरोधाभासं दर्शयति- अजस्य न जायते कर्माधीनत्वेनेति तस्य । 'अपी'ति शेषः । जन्म । गृहतः 'स्वेच्छये 'ति शेषः । निरीहस्य निरस्तेहा चेष्टा यस्य तस्य । 'अपी'ति शेषः । हतद्विषो हता विनाशिता भक्तानुकम्पितया द्विषो भक्तदुःखदा येन तस्य । जागरूकस्य जागतीति तथोक्तस्य । 'अपी'ति शेषः । स्वपतः स्वमं नाटयतः । 'स्वप्नस्य सिद्धया मनः संयोगरूपतया गुणत्वम् । इति विवृतिः । तव भगवतः । याथार्थ्य सत्यं स्वरूपम् । कः किंखरूपो जनो ब्रह्मा वा । वेद जानीयात् । रघुवंशस्येदं वचम् ॥ २३० ॥'
गुणस्य द्रव्येण सह विरोधाभासं दर्शयति- 'वल्लभोत्सङ्गसङ्गेन वल्लभस्य प्राणप्रियस्योत्सङ्गः कोडमुपचारात् तत्सान्निध्यं तस्य सङ्गः सम्पर्कस्तेन । विना । हरिणचक्षुषो मृगाक्ष्याः । राका विभावरीजानि: राका पूर्णिमाऽसौ विभावरी रात्रिरिति सा जाया यस्य तथोक्तः । राकेशश्चन्द्र इति भावः । 'जायाया निङ् | १५|४|१३४ इति निङादेशः । विषज्वालाssकुलः । भभवत् । अत्र राकेशस्याने कव्यक्तिवाचित्वाभावाद्रव्येण दाहजनकत्वस्य गुणस्य विरोध आभासमानोऽपि विरहदशायां तस्य सम्भवात्परिहियते ॥ २३१ ॥ '
. क्रियायाः क्रियया विरोधाभासं दर्शयति- 'नयनेत्यादिना । व्याख्यातपूर्वमिदम् । अत्र खेदजननक्रियायाः प्रहर्षजननक्रियया समं विरोध आभासते, परन्तु सङ्गाभावं यावदित्यन्ततोऽविरोधः ॥ २३२ ॥ क्रियाया द्रव्येण विरोधाभासं दर्शयति- ' त्वद्वाजीत्यादिना । व्याख्यातपूर्वमिदम् । अत्र हरेणैकव्यक्तिवाचितया द्रव्येण गङ्गाधरत्वेन प्रसि नापि समं गङ्गाधारणाभावरूपक्रियायास्तादात्म्येनापाततो विरोधः कविप्रौढोक्त्या निरसनीय इत्याभासमात्रः ॥ २३३ ॥ '
,
द्रव्यस्य द्रव्येण विरोधाभासं दर्शयति- 'वल्लभोत्सङ्गसङ्गेन । विना । हरिणचक्षुषः । राकाविभावरीजानिः । मध्यन्दिनदिनाधिपो मध्यन्दिनस्य मध्याह्नस्य दिनाधिपः सूर्यः । अत्र राकाविभावरीजानेवन्द्रस्य दिनाधिपस्य सूर्यस्य च द्रव्यत्वाद विरोधो भासते, अथापि विरहे राकेशस्य सन्तापकत्वेन तथा प्रतीतिः सङ्गच्छत एवेत्यविरोधः ॥ २३४ ॥ '