________________
२७६ साहित्यदर्पणः।
[दशमःअत्र 'तव विरहे...'इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाजातिशब्दानां दवानलोप्महदयभेदनसूय॒जातिगुणक्रियाद्रव्यरूपैरन्योऽन्य विरोधो मुखत भाभासते, विरहहेतुकत्वात्समाधानम् । 'अजस्थ..' इत्यादौ अजत्वादिगुणस्य जन्मग्रहणादिक्रियया विरोधो भगवतः प्रभावातिशयान्नु समाधानम्। त्वद्धाजि...इत्यादौ 'हरोऽपि शिरसा गङ्गां न धत्तं'इतिविरोधी, 'त्वद्धाजि...'इत्यादिकविप्रौढोक्त्या तु समाधानम् । स्पष्टमन्यत् । विभावनायां कारणाभावेनोपनिवध्यमानत्वात कार्य्यमेव बाध्यत्वेन प्रतीयते, विशेषोक्तौ च कार्याभावेन कारणमेव; इह त्वन्योऽन्यं द्वयोरपि बाध्यत्वमिति भेदः।
१५३ कार्यकारणयोभिन्नदेशतायामसङ्गतिः ॥ १२२ ॥ यथा-सा बाला, वयमप्रगल्भमनसः सा स्त्री, वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते, सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा, गन्तुं न शक्ता वयं;
दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ २३५ ॥ बोधसौलभ्याय दुर्बोधं लक्ष्यसमन्वयं निर्दिशति-अत्रैतेषूदाहृतेषु मध्ये । 'तव विरहे...'इत्यादौ । पवनादीनां पवनत्वादीनामित्यर्थः । आदिपदेन रुचिध्वनिपत्रत्वानां ग्रहणम् । बहुव्यक्तिवाचकत्वात् । जातिशब्दानां जातिः शब्दो येषां तेषां तथाभूतानाम् । दवानलोष्म-हृदयभेदन-सूर्यैर्दवानलत्वोष्म-हृदयभेदनसूय्यः । जातिगुणक्रियाद्रव्यरूपैः । अन्योऽन्यं परस्परम् । विरोधः । मुखतः प्रथमतः । आभासते प्रतीयते । विरहहेतुकत्वातु मलयमरुदादेविरहिणीनां सन्तापकत्वेन । समाधानं तत्र दवानलत्वाद्यारोपेण परिहारः । एवम्-'अजस्य..' इत्यादौ । अजत्वादिगुणस्य । आदिपदेन निरीहत्वजागरूकत्वयोर्ग्रहणम् । 'नन्वजत्वं जन्माभाव एव कथमस्य गुणत्वमिति चेत् ! जातिक्रियाभिन्नानां विशेषणानामपि गुणत्वस्वीकारात् । इति विवृतिः । जन्मग्रहणादिक्रियया । आदिपदेन शत्रुहनन-वपनयोर्ग्रहणम् । विरोधः । तस्य च-भगवतो भगवत्सम्बधिनः । प्रभावातिशयात् । तु पुनः । समाधान परिहारः । तथा-'विद्वाजि..'इत्यादौ । 'हरो गङ्गाधरत्वेन प्रसिद्धः शङ्करः । अपि । शिरसा। गङ्गाम् । न । धत्ते।' इति । विरोधः । तस्य च-'त्वदाजि..'इत्यादिकविप्रौढोत्या। तु । समाधानम् । अन्यत् उदाहरणान्ते विरोधस्तत्समाधानं चेत्यर्थः । स्पष्टम।
अस्यालङ्कारतो भेदं निदर्शयति-विभावनायाम् (इत्यस्य 'प्रतीयते' इत्यनेनान्वयः) । कारणाभावेन । कार्य्यस्येति शेषः । उपनिबध्यमानत्वात् । कार्यम् । एव । 'नतु कारणम्' इति शेषः । बाध्यत्वेन विरुद्धत्वेन । प्रतीयते । विशेषोक्तौ। च पुनः । कार्याभावेन । 'कारणस्योपनिबध्यमानत्वा'दिति शेषः । कारणम् । एव 'नतु कायँ बाध्यत्वेन प्रतीयत' इति शेषः । इह विरोधाभासापरपर्साये विरोधालङ्कारे। तु । अन्योऽन्यं परस्परम् । द्वयोः कार्यकारणयोः । अपि । बाध्यत्वं विरुद्धत्वम् । इति । भेदः।
असङ्गतिं लक्षयति-१५३ कार्यकारणयोः। भिन्नदेशतायां भिन्नदेशवर्तित्वे । असतिस्तन्नामाऽलकारः । तथोक्तम्-'यद्देशं कारणं तद्देशमेव कार्य्यमुत्पद्यमानं दृष्टं यथा घटादिः; किन्तु-यत्र केनापि हेतुना तयो नादेशसम्भवितयाऽसङ्गतत्वं साऽसङ्गतिर्नामालङ्कारः ।' इति ॥ १२२॥
__ उदाहरति-यथा-'सा । बाला । वयं तत्सम्पर्कमपि अलब्धवन्तः । अप्रगल्भमनसो न प्रगल्भ कार्याकाविधारणक्षमं मनो येषां तथोक्ताः । सा । स्त्री । वयम् । कातराः सभयचेतसः । सा। पीनोन्नतिमत्पयोधरयुगं पीनं पुष्टं चोन्नतिमदिति तथाभूतं पयोधरयुगं कुचद्वन्द्वं तत्तथोक्तम् । धत्ते । वयम् । सखेदाः । सा। गुरुणा बृहता । जघनस्थलेन । आक्रान्ता । वयम् । गन्तुम् । न । शक्ताः क्षमाः । एवम्-'अन्यजनाश्रयैरन्यजनवार्तिभिः । दोषैलित्वादिभिः । स्मो वयम् (इदमव्ययम् ) । अपटवोऽकर्मण्याः । जाताः। इति । अद्भुतं विचित्रत्वम् । सखायं प्रति कस्याश्चिद्दर्शनेन खिन्नस्योक्तिरियम् ।' अमरुशतकस्येदम् । शार्दूलविक्रीडितं वृत्तम् । तलक्षणं चोक्तं प्राक् ॥ २३५॥'