________________
परिच्छेदः ]
रुचिराख्यया व्याख्या समेतः । अस्याश्चापवादकत्वादेकदेशस्थयोर्विरोधे विरोधालङ्कारः। १५४ गुणौ क्रिये वा चेत् स्यातां विरुद्ध हेतुकार्ययोः ।
यद्वाऽऽरब्धस्य वैकल्यमनर्थस्य च सम्भवः ॥ १२३ ॥
विरुद्धयोः सङ्घटना या च तद्विषमं मतम् ।। क्रमेण यथा-'सद्यः करस्पर्शमवाप्य चित्रं रणेरणे यस्य कृपाणलेखा।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोक्याभरणं प्रसूते ॥ २३६ ॥' भघ्र कारणरूपासिलतायाः 'कारणगुणाः कार्यगुणानारभन्ते'इति स्थितेविरुद्धा शुक्लयशस उत्पत्तिः।
अत्र तर्कवागीशा:-"केचित्तु ( काव्यप्रकाशकारादयः) 'कार्यकारणभावयोधर्मयोरत्यन्तं भिन्नदेशतया युगपदुत्पन्नत्वेन ख्यातिरसङ्गतिः । एकधर्मिण्यवच्छेदकभेदेन भिन्नदेशतावारणायात्यन्तमिति । तेन 'दष्टो भुजङ्गेन पदेऽक्षिण घूर्णना' इत्यत्र नातिव्याप्तिः । दंशनघूर्णनयोरेकस्मिन् शरीरे सङ्गतिसत्त्वात् । कालभेदेन तदुभयख्यातिवारणाय युगपदिति । तेन-'क्रियाशरीरेऽत्र परत्र भोगः' इत्यत्र नातिव्याप्तिः ।' इत्याहुः । तन्न, 'दन्तक्षतं कपोले वध्वा, वेदना सपत्नीनाम्।' इत्यत्र खोक्तोदाहरणे बोधकाभावेन कार्यकारणयोर्युगपदुत्पन्नत्वख्यातिविरहात् । 'सा स्त्री वयं कातरः' इत्यत्र स्त्रीत्वस्य कारणत्वस्योत्पन्नत्वाभावादेव कार्योत्पत्तियुगपदुत्पन्नत्वख्यातिविरहात् । न च स्त्रीत्वस्योत्पन्नत्वमारोप्यमिति वाच्यम्, तस्य वैचित्र्यानावहत्वेन तदङ्गीकारस्यान्याय्यत्वात् । 'दष्टो भुजङ्गेन पदेऽक्षिण घूर्णना' इत्यादौ युगपदुत्पन्नत्वख्यातिविरहादेवातिप्रसङ्गभङ्गेन तद्वारणार्थमुपात्तस्यात्यन्तपदस्यानर्थकत्वाच । अस्मन्मते तु । कार्यकारणयोवैयधिकरण्यस्यैव यत्र विच्छित्तिविशेषजनकत्वं तत्रैव तस्यालङ्कारत्वखीकारः । 'दष्टो भुजङ्गेन पदेऽक्षिण घूर्णना' इत्यादौ कार्यकारणयोरवच्छेदकभेदसत्त्वेऽपि अधिकरणस्यैकत्वेन वैयधिकरण्याभावात् । 'क्रियाशरीरेऽत्र परत्र भोगः' इत्यादौ वैयधिकरण्यस्य सत्त्वेऽपि तस्य विच्छित्तिविशेषानाधायकत्वादेव नातिप्रसङ्गः । इत्याहुः ।" ननु कार्यकारणयोः सहानवस्थानलक्षणो विरोध एवात्राङ्गीक्रियतां किमस्या अङ्गीकारगौरवेणेत्याह-अस्या असङ्गतेः । च । अपवादकत्वात कार्यकारणयोभिन्नदेशवर्तित्वेन विलक्षणविच्छित्त्याधायकतया विशेषत्वात् । एकदेशस्थयोः। विरोधे । विरोधालङ्कारः। 'भिन्न' इति शेषः । एवं च-सामानाधिकरण्ये विरोधः, वैयधिकरण्येऽसङ्गतिरित्येतयोर्भेद इति फलितम् ।
विषमं लक्षयति-१५४ चेत् । हेतुकार्ययोः कारणस्य कार्य्यस्य चेत्यर्थः । गुणौ । 'विरुद्धौ' इति शेषः । वाऽथवा । क्रिये । विरुद्धे । स्याताम् । यद्धा । आरब्धस्य । 'कार्यस्य'ति शेषः । वैकल्यम् । अनर्थस्या. नभिमतस्य फलस्य । च । सम्भवः। च । यद्वा विरूद्धयोरेकत्र वस्तुन्यत्यन्तमसम्भवतोः । या । सङ्कटना मेलनम् । तत् । अत्र-सर्वनाम्नां पायेणोद्देश्यविधेयलिङ्गभाक्त्वेन विधेयलिङ्गत्वम् । विषमं तदाख्योऽलङ्कारः । मतम् । तथा च-कार्यकारणयोर्गुणविरुद्धत्वे एकम् , क्रियाविरुद्धत्वे द्वितीयम्, आरब्धस्य वैकल्यानर्थक्ययोस्तृतीयम्, विरूपयोमलने चतुर्थं विषमं च, तत्त्वं समविरुद्वत्वम्, एतच्च तत्रानुगतमित्यन्वथै सामान्य लक्षणम् । इति फलितम् ॥ १२३ ॥
उदाहर्तमुपक्रमते-क्रमेण । यथा । 'तमालनीला तमालवृक्षवन्नीला । कृपाणलेखा कृपाणस्य लेखा रेखा धारेति यावत् । तद्रूपा काऽपि नायिकेति भावः। रणरणे प्रतिसङ्ग्रामम् । यस्य। करस्पर्शम् । अवाप्यासद्यः।
लोक्याभरणम् । यशस्तद्रूपं पुत्रम् । प्रसते जनयति । चित्रम। 'स राजे'ति शेषः । पद्मगुप्तरचितस्य नवसाहसाचरितस्येदं पद्यम् । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दस्तल्लक्षणं चोक्तं प्राक् ॥ २३६ ॥'
उदाहृतमथै निर्दिशति-अत्र । कारणरूपासिलतायाः 'तमालनीलाया'इति शेषः । 'कारणगुणाकार्यगुणान् । आरभन्ते उत्पादयन्ते ।' इति । स्थितेः । विरुद्धा । शकुयशलः। उत्पत्तिः । अत्र विवृतिः-'यद्यपि अवयवविरूपकार्यगुणक्रिययोरेकावयवरूपकारणगुणक्रियाजन्यत्वनियमस्तथाऽपि तत्र तथादर्शनादन्यत्रापि तथात्वं कविसृष्टौ कल्प्यत इति नानुपपत्तिरिति भावः ।' इति ।