________________
२७८ - साहित्यदर्पणः।
[ दशमः'भानन्दममन्दमिमं कुवलयदललोचने ! ददासि त्वम् ।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ २३७ ॥' अत्रानन्दजनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः।
य रत्नाकरोम्भोधिरित्यसेवि धनाशया। धनं दूरेऽस्तु वदनमपरि क्षारवारिभिः ॥२३८॥' अब केवलं काशितधनलाभो माऽभूत् , प्रत्युत क्षारवारिभिर्वदनपूरणम् ।
-'क वनं तरुघल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता।।
नियतं प्रतिकूलवर्तिनोबत धातुश्चरितं सुदुःसहम् ॥ २३९ ॥' अत्र वनराज्यश्रियोर्विरूपयोः सङटना। इदम्मम । यथा वा--
'विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥ २४०॥' द्वितीयमुदाहरति-'हे कुवलयदललोचने कुवलयस्य नीलकमलस्य दले तद्वलोचने यस्यास्तत्सम्बुद्धौ तथोक्ते! त्वम् । इमं मया सम्प्रत्यनुभूयमानमित्यर्थः । अमन्दम् । आनन्दम् । ददासि विदधासीति भावः । त्वया । एव । जनित उत्पादितः। विरहः। मे मम। शरीरम् । तापयतितराम् । नायिका प्रति नायकस्योक्तिरियम् । रुद्रटालङ्कारस्येदं पद्यम् । अत्रार्याछन्दस्तल्लक्षणं चोकं प्राक् ॥ २३७ ॥'
उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना । स्पष्टम् । अत्र विवृतिकाराः-'अत्र कारणस्य नायिकायाः क्रिया आनन्ददानं नायिकाकार्य्यस्य विरहस्य क्रिया शरीरतापनं तद्विरुद्धम् । यद्यपि-आनन्दतापौ गुणौ तथाऽपि अत्र द्वयोर्धात्वर्थघटकत्वेन क्रियात्वेनैव व्यवहारः ।' इति ।
तृतीयमुदाहरति-'अयम् । अम्भोधिः समुद्रः । रत्नाकरो रत्नानामाकरः । इति । धनाशया। असेवि । 'मयेति शेषः । धनम् । दरे। अस्तु । किन्तु-क्षारवारिभिः। वदनं मुखम् । अपूरि 'तेने'ति शेषः । अत्र यद्यपि अप्रस्तुतप्रशंसाऽथाप्येतदविरुद्धति विभाव्यम् ॥ २३८ ॥'
उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना । स्पष्टम् । अयम्भाव:-धनलाभाशयाऽऽरब्धं रत्नाकरस्य सेवनम्, तस्याभिमतलाभाभावेन न केवलं वैकल्यं जातं, किन्तु क्षारवारिभिर्मुखपूर्तेरनिष्टं फलं च जातमिति स्फुटो लक्षण. समन्वयः । इति ।
__ चतुर्थमुदाहरति-'तरुवल्कभूषणं तरूणां वृक्षाणां वल्कं वल्कलम् , तदेव भूषणं यत्र तथोक्तम् । वनम् । क्व । महेन्द्रवन्दिता महेन्द्रेण देवराजेन वन्दिता प्रशंसितेति तथोक्ता । नपलक्ष्मी राजलक्ष्मीः। क्व।बत कष्टम् । प्रतिकूलवर्तिनः प्रतिकूलतया स्थितवतः । धातुर्विधातुः । चरितं चरित्रम् । नियतं नूनम् । सुदुःसहमत्यन्तं दुःसहम् । वैतालीयं बृत्तम् , तल्लक्षणं चोकं प्राक् ॥ २३९॥' .
उदाहृतमर्थ निर्दिशति-अत्र । विरूपयोः। वन-राज्यश्रियोः । सङ्घटना मेलनम् । अत्रेदम्बोध्यम्श्रीरामे यौवराज्येनार्यमाणे कैकय्या वनवास नीयमाने तदानीं तं दृष्टवतः कस्याप्युक्तिरियम् । एवं च-तस्मिन् राजलक्ष्म्या वनवासस्य च सम्मेलनं सङ्गच्छते । एतेन-“वस्तुतस्तदानीं श्रीरामस्य राजश्रीलाभ एव नास्तीति न विरुद्धयोः सङ्घटनम् । किन्तु दशरथप्रयत्नस्य रामस्य राज्यलाभरूपफलानवाप्तिः, प्रत्युतानिष्टस्य रामवनवासस्य सम्भव इति तृतीयप्रकार एवेति पय॑वस्यति। एवं च-'शरीरादपि मृद्वङ्गी केयमायतलोचना। अयं कच कुकूलाग्निकर्कशो मदनानलः ॥' इत्युदाहरणमस्य वेदितव्यम् । अत्राङ्गमार्दवमदनानलसहनयोरेकत्र नायिकायां मेलकम् ।" इति विवृतिकारोक्तं दत्तोत्तरम् । अस्य स्वकीयत्वं सम्भावयति-इदमुदाहृतं पद्यम् । मम।
उदाहरणान्तरं निर्दिशति-यथा। वा। 'यस्य । सागरशयस्य सागरे महासमुद्रे शेते योगनिद्रां नाटयतीति तादृशस्य । श्रीकृष्णस्येति भावः । विपुलेन विस्तृतेन । कुक्षिणोदरेण । युगक्षये प्रलयकाले। भुवनानि भूर्भुवःस्वःसज्ञका लोका इत्यर्थः । पपिरे पीतानीत्यर्थः । स तथाभूतः श्रीकृष्णः । पुनः। एकतमया (कयाचित्)। पुरस्त्रिया । मदविभ्रमासकलया मदेन मदस्य वा विभ्रमो हावः शोभा वा तेनासकलाऽसम्पूर्णा तया तथाभूतया । एकया। दृशा। पपे सादरं दृष्ट्र इति भावः । शिशुपालवधस्येदं पेद्यम् । मजुभाषिणीछन्दः, तल्लक्षणं