________________
साहित्यदर्पणः।
- (दशमःअत्र दूतीत्वस्य वस्तुनो निषेधः। 'विरहे तव सन्वङ्गी कथं क्षपयतु क्षपाम् । दारुणव्यवसायस्य पुरस्ते भणितेन किम्॥३२३॥'
अत्र कथनस्यैव निषेधः। प्रथमोदाहरणे सख्या'अवश्यम्भावि 'मरण'मिति विशेषः प्रतीयते, द्वितीयेऽशक्यवक्तव्यत्वादि, तृतीय दूतीत्वे यथाऽर्थवादित्वम्, चतुर्थे दुःखस्यातिशयः । न चायं विहितनिषेधः, अब निषेधाभासत्वात् ।
१४९ अनिष्टस्य तथाऽर्थस्य विध्याभासः परो मतः । तथेति पूर्ववद्विशेषप्रतिपत्तये । यथा
'गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ २२४ ॥' दूलन्तरवन्मिथ्यावादिनी'ति प्रत्याययितुं खवैलक्षण्यं सूचितम् । आर्याछन्दः । दूतीत्वेन कथितात्मनः कस्याश्चित् खाभिधित्सितं द्योतयितुं निषेधोक्तिरियम् ॥ २२२ ॥'
अत्र यस्य वस्तुनो निषेधस्तनिर्दिशति-अत्रेत्यादिना । स्पष्टम् । 'अत्र सतोऽपि खस्मिन् दूतीत्वस्य निषेधेन दूत्यन्तरवन्नाहं मिथ्या वदामीति स्ववैलक्षण्यं व्यज्यते । निषेधस्यारोप्यमाणत्वादाभासत्वम् ।' इति विवृतिकाराः ।
'तव | विरहे वियोगे । तन्वङी कृशोदरी । कथम् । क्षपारात्रिम् । क्षपयतु व्यपनयतु । अथवा-दारुणव्यवसायस्य दारुणः परप्राणान्तकारकत्वेन नितुरो व्यवसायो निश्चयो यस्य तादृशस्य । ते तव । पुरः । भणितेन कथनेन । किम् । दूत्या नायकं प्रत्युक्तिरियम् । यत्ततं 'वर्षाssरम्भे प्रवसन्तं नायकं प्रति सख्या वचनमिद'मिति, तन; तादृशप्रकरणोपयोगिनोऽर्थस्यानुपलम्भात् ॥ २२३ ॥'
उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना ।
अत्र । कथनस्य विवक्षिताभिधानस्य । एव । निषेधः। अयम्भाव:-'कथं क्षपयतु क्षपा'मित्यनेन 'तत्सवि. धेऽवश्यं रात्रौ त्वया गन्तव्य'मित्यर्थस्य प्रत्यायनम् , अतोऽस्य कथनम् । अनन्तरं तस्यैव 'पुरस्ते' इत्यादिना प्रतिषेधः । अयं चाभासमात्रेण ।
एवं चतुरो भेदानुदाहृत्य तत्र क्रमेण बोद्धव्यं विशेष निर्दिशति-प्रथमोदाहरणे 'स्मरशर...' इत्यादा' वित्यर्थः । 'सख्याः । अवश्यम्भावि । मरणम ।' इति। विशेषः 'अशक्यवक्तव्य' इति शेषः । प्रतीयते । द्वितीये 'तव विरह' इत्यादौ । अशक्यवक्तव्यत्वादि अशक्यं यद्वक्तव्यत्वं तदादिर्यस्य तत् 'मरिष्यती'त्येवम्भूतं वस्तु । 'प्रतीयत' इति शेषः । तृतीये 'बालअ' इत्यत्र । दृतीत्वे 'सत्यपि' इति शेषः । यथाऽर्थवादित्वम् 'विशेषः प्रतीयते' इति शेषः । चतुर्थे 'विरहे' इत्यत्र । दुःखस्य । अतिशयः 'नायिकाया' इति शेषः । विशेषः प्रतीयत' इति शेषः । अयम्भावः-नायिकाया नायकविरहे राज्यपयामनं दुःशकमित्यतिप्रसिद्धत्वरूपो विशेषः प्रतीयते । इति । नच 'निषेधो वक्तमिष्टस्य यो विशेषामिधित्सया।' इत्यायुक्तदिशा वास्तवनिषेध आक्षेपघटक इति न चिन्त्यम् , तस्य वैचित्र्यानाधायकत्वात् इत्यभिप्रायेणाह-न । च । अयम् । विहितनिषेधः। 'येन वैचित्र्यन्न स्यात्' इति शेषः । कुत इत्याह-अत्र । निषेधाभासत्वात् निषेधस्याभासमात्ररूपत्वात् ।
अस्यैव प्रकारान्तरं लक्षयति-१४९ तथा विशेषप्रतिपत्तये। परोऽन्य आक्षेपः । अनिष्टस्यानभिमतस्य । अर्थस्य विषयस्य । विध्याभासो विधेराभासः नतु वास्तविकत्वम् । मतः।
तथेत्यस्य दुर्बोधता परिहरति-तथेत्यादिना । स्पष्टम् ।
उदाहरति-यथा-'हे कान्त ! चेत् । गच्छसि प्रयासि 'परदेश'मिति ईषः। तर्हि-गच्छ। ते तव । पन्थानो मार्गा गन्तव्याः प्रदेशा इति यावत् । शिवाः । सन्तु। यत्र । भवान् । गतः प्राप्तः स्यादिति शेषः । तत्र। एष नान्यत्रेति भावः । मम । अपि । जन्म। भूयात् । प्रवसन्तं नायकं प्रत्युक्तिरियम् । दण्डिनः पद्यमिदम् ॥ २२४ ॥'