________________
परिच्छेदः ] , रुचिराख्यया व्याख्यया समेतः।
२७१ निषेध इति द्वौ भेदौ, उक्तविषये च क्वचिद्रस्तुस्वरूपस्य निषेधः, क्वचिदस्तुकथनस्येति द्वावित्याक्षेपस्य चत्वारो भेदाः। क्रमेण यथा
'स्मरशरशतविधुराया भणामि सख्याः कृते किमपि ।
क्षणमिह विश्राम्य सखे ! निर्दयहृदयस्य किं वदाम्यथवा ॥ २२०॥' अत्र संख्या विरहस्य सामान्यतः सूचितस्य वक्ष्यमाणविशेष निषेधः।
'तव विरहे हरिणाक्षी निरीक्ष्य नवमालिकां दलिताम् ।
हन्त नितान्तमिदानीमाः! किं हतजल्पितैरथवा ॥ २२१ ॥' 'अत्र मरिष्यती'त्यंशेनोक्तम् ।
'बालअ ! णाहं दूती तुअ पिओसि तिण मह बाबारो।
सा मरह तुज्झ अअसो एअं धमक्खरं भणिमो'॥ २२२ ॥' ऽन्यस्मिन्नंशे । उक्तिविषयांशातिरिक्तऽश इति भावः । निषेधः। इति । द्वौ । भेदौ । तथा च-वक्ष्यमाण
प्रयगतोऽयं द्विविधा तत्र सामान्यतः सचितस्य सर्वस्य निषेधात्मा,अंशेनाभिधानेऽशान्तरे निषेधात्मा चेति फलितम् । उक्तविषये । क्वचित् कस्मिंश्चिलक्ष्ये। वस्तुस्वरूपस्य वस्तुनो यत् स्वरूपमवच्छेदकं तस्य । वस्तुनि यद्वस्तुत्वावच्छेदकं तस्येति भावः । च। निषेधः। क्वचित् । वस्तुकथनस्य वस्तुनो विषयस्य यत् कथनं तस्य । 'निषेध'इति देहलीदीपकन्यायेनानुषज्यते । इति । द्वौ। 'भेदा' इति पूर्वतोऽनुषज्यते। तथा च-उक्तविषयगतोऽप्ययं द्विधा, वस्तुत्वनिषेधात्मा, वस्तुकथननिषेधात्मा च; इति फलितम् । इति । आक्षेपस्य । चत्वारः । भेदाः।
उदाहर्तुकाम आह-क्रमेण । यथा । 'हे सखे! स्मरशरशतविधुरायाः स्मरस्य शरशतेन विधुरा दुःखिता तस्यास्तथोकायाः। कामदेवस्य बहबाणप्रहारेण व्याकुलीकृताया इति भावः । 'वैकल्येऽपि च विश्लेषे विधुरं विकले त्रिषु।' इति त्रिकाण्डशेषः । सख्याः । कृते निमित्तम् । किमपि किञ्चित् । भणामि कथये । अत:-क्षणम् । इह । विश्राम्य उपविश । अथवा । किम् । निर्दयहृदयस्य निष्करुणान्तःकरणस्य । कर्मणि सम्बन्धमात्रविवक्षया षष्ठी। वदामि वदेयमित्यर्थः । न किमपि वक्तं शक्यमिति भावः । अत्र वक्ष्यमाणवस्तुगत आक्षेपः । अत्रोद्गीतिश्छन्दः, तल्लक्षणं चोतं प्राक् ॥ २२० ॥
उदाहृतमर्थ निर्दिशति-अत्र नायिकासख्या नायकं प्रत्युक्तौ । सख्याः सखीसम्बन्धिनः। विरहस्य । सामा. न्यतः। सचितस्य स्मरशरे'त्यादिनेति शेषः । वक्ष्यमाणविशेषे वक्ष्यमाणे (वस्तुनि) विशेषोऽशक्यवक्तव्यस्वरूपं वैलक्षण्यं तत्र, तस्मिन् विषय इति भावः । निषेधः 'निर्दयहृदयस्ये त्यनेन विवक्षितं व्यञ्जयित्वेति शेषः ।
हरिणाक्षी। तव तदेकाधारस्य भवत इति भावः । विरहे सान्निध्याभावे सतीति भावः । नवमालिकाम् । दलितां विकसिताम् । निरीक्ष्य दृष्ट्वा । हन्त कष्टम् । इदानीम् । नितान्तम् । आः! 'मृतप्राये'ति शेषः । अथवा । हतजल्पितर्हतानि वचनानहाँणि यानि जल्पितानि वचनानि तैः । किम । न किमपि प्रयोजनम् । अत्रापि वक्ष्यमाण आक्षेपः, किन्तु अंशत उक्त्वेति विशेषः । उपगीतिश्छन्दः ॥ १२१॥'
उदाहरणसङ्गतेर्हेतुं निर्दिशति-अत्र । 'मरिष्यतीति 'अशक्यं वक्तव्य' मिति शेषः । अंशेनेकदेशेन 'हन्त नितान्तमिदानी'मित्यनेन । उक्तम् । 'अंशान्तरेण पुनरशक्यवक्तव्यतया तस्य निषेधः । अशक्यवक्तव्यतायाश्च 'हतजल्पितैरित्यनेन जल्पितनिन्दनद्वारा सूचन मिति शेषः।
हे बालअ बालक लक्षणया तद्वदविदग्ध ! अहम् । दूती 'तस्या (तस्यास्तव प्रियायाः) इति शेषः । ण नेवास्मीत्यर्थः । तुभ त्वम् । प्पिओ प्रियः । असि । त्ति इति । मह मम । बाबारो व्यापार उद्यम इति यावत् । ण नैवास्तीत्यर्थः । तदर्थं न ममायं प्रयास इति भावः । सा तव कान्ता त्वदेकाधारेति यावत् । मरइ म्रियते 'जदि (यदि) इति शेषः । तुज्झ तव । 'तद्धि (तर्हि ) इति शेषः । अअसो अयशः । एअं एतत् । धंमक्खरं धर्मा। क्षरं सत्यवचनमिति यावत् । भणिमो भणामः । अत्रोक्तेऽपि दूतीत्वेऽति प्रसिद्ध 'दूत्या मिथ्यावादित्वं' निषेद्धं 'नाहं १ 'बालक ! नाहं दूती, त्वं प्रियोऽसीति न मम व्यापारः । सा म्रियते तवायश एतद्धमक्षिरं भणामः॥' इति संस्कृतम् ।