________________
२७० साहित्यदर्पणः।
[दशमः १४७ अनूकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् ॥ ११७ ॥ । यथा-'कुपिताऽसि यदा तन्वि ! निधाय करजक्षतम् ।।
बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा ॥ २१९ ॥ अस्य च विच्छित्तिविशेषस्य सर्वालङ्कारविलक्षणत्वेन स्फुरणात् पृथगलङ्कारत्वमेव न्याय्यम्। १४८ वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये ।
निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ॥ ११८ ॥ तत्र वक्ष्यमाणविषये क्वचित्सर्वस्यापि सामान्यतः सूचितस्य निषेधः, क्वचिदंशोक्तावंशान्तरे
लाक्षणिकी प्रतीतिरिति भावः । इति । अत्र प्राञ्चः-हेतुमता सह हेतोरभिधानमभेदतो हेतुः इति हेत्वलङ्कारो न लक्षितः, 'आयुघृत'मित्यादिरूपो ह्येष न भूषणतां कदाचिदर्हति, वैचित्र्याभावात् 'अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति सम्प्रति लोकोत्कण्ठाकरः कालः ॥' इत्यत्र काव्यरूपता कोमलानुप्रासमहिन्नैव
पुन पुनर्हेत्वलकारकल्पनयेति पूर्वोक्तकाव्यलिङ्गमेव हेतुः । इति, नव्यास्त्वाहः-माभूत् 'आयुघृत'मित्यादौ वैचित्र्याभावात्, किन्त्वयं 'अविरला..'इत्यादावस्त्येव, न पत्रानुप्रासेन गतार्थत्वं कल्पनीयम्, अनुप्रासघटकशब्द. परिवृत्तावपि वैचित्र्यस्य सद्भावात् । अत एव तद्वयाख्यातारोऽपि "वस्तुतस्तु 'अविरलकमलविकास'इत्यादिषु वैचित्र्य. मनुभवसिद्धमेवेत्युद्भटादिमतं समीचीनमेवेति नवीनाः ।"इति ।
अनुकूलं लक्षयति-१४७ चेत् । अनुकूलानुबन्धि अनुकूलमभिमतमनुबध्नातीति तथोक्तम्, आनुकूल्येन सम्भवीत्यर्थः । प्रातिकल्यं प्रतिकूलत्वम् । तर्हि-अनुकलमेतदभिधेयोऽलङ्कारः ॥ ११७॥
उदाहरति-यथा-'हे तन्वि ! यदा यदि । कुपिता । असि त्वम् । तदा तर्हि । करजक्षतं करजैनखैः क्षतं तत् । निधाय । अस्य ममेति शेषः । कण्ठम् । दृढं गाढम् । भुजपाशाभ्यां भुजरूपाभ्यां पाशाभ्याम् । बधान । अत्र क्षतस्य पाशबन्धनस्य च प्रतिकूलत्वेऽपि प्रकृतनायकानुकूल्यकरत्वेन युज्यते इत्यनुकूलम् ॥ २१९ ॥
अस्य प्राचीनैरलङ्कारत्वेनानगीकारेऽपि कथं तदङ्गीक्रियते इत्याशङ्कयाह-अस्येत्यादि । स्पष्टम् ।
आक्षेपं लक्षयति-१४८ वक्तुम् । इष्टस्याभिमतस्य । वस्तुनो विषयस्य । विशेषप्रतिपत्तये विशेषेण बैलक्षण्येन प्रतिपत्तिर्बोधनं तस्यै। निषेधाभासो निषेधस्याभासः प्रकाशनम् । आक्षेप आक्षेपणं विवक्षितस्यार्थस्य भर्त्सनमिति तथोक्तः, तन्नामाऽलङ्कारः । स च-वक्ष्यमाणोक्तगो वक्ष्यमाणो वक्ष्यमाणं चोक्तं चेति ते (वस्तुनी) गच्छतीति तथोक्तः। द्विधा । अयम्भावः-विवक्षितं वस्तु वचनानाहमवचनाई वा, तस्य निषेधाभासः (शब्दशक्त्या निषेधोऽप्यर्थशक्त्या विधानम् ) आक्षेपः । स च-विशेषेण विवक्षितमेवार्थ बोधयितुमीप्स्यते, अन्यथा तस्य चमत्काराधायकत्वाभावेनालङ्कारव्यपदेशाहत्वं न स्यात् । तत्सुष्ठक्तं विशेषप्रतिपत्तय इति । वक्ष्यमाणविषयगत उक्तविषयगत श्वायम् । एवं च-'वक्तुमिष्टस्य वस्तुनो निषेधाभास आक्षेप इति सामान्य लक्षणम् , तावन्मात्रत्वेऽलङ्कारत्वोपकारकस्यवैचित्र्यस्यानुदयात् 'विशेष'त्याद्युक्तम् , तेन सति विशेषप्रतिपादकत्व एवेति पर्य्यवसितम् । अस्य भेदद्वयम्-वक्ष्यमाणविषयगतत्वेनोक्तविषयगतत्वेन चेति । तत्र वक्ष्यमाणे प्रकृतोपयोगिनि वस्तुनि विशेषोऽशक्यवक्तव्यत्वरूप, उक्त पुनरतिप्रसिद्धत्वरूप इति बोध्यम् । तथाऽऽहुः-'अवश्यवक्तव्यस्यार्थस्य विधानाभिप्रायकं विशेषप्रतिपत्तये प्रतिषेधनमाक्षेपालङ्कारः । स च वक्ष्यमाणे विषयेऽशक्यवक्तव्यत्वेनोक्त विषयेऽतिप्रसिद्धत्वेन विच्छित्तिं लभत इति द्विविधः ।' इति ॥ ११८॥'
एवमस्य भेदद्वयं निर्दिश्य सूक्ष्मदृशा पुनर्भेदद्वयं वृत्तिकारो निर्दिशति-तत्रेत्यादिना ।
तत्र तयोर्भेदयोर्मध्ये। वक्ष्यमाणविषये वक्ष्यमाणे विषये । क्वचित् कस्मिंश्चिल्लक्ष्ये । सामान्यतः। सुचितस्य । सर्वस्य समुदितस्य अपि । निषेधः क्वचित । अंशोक्तावंशेनोक्तिः कथनं तस्यां सत्याम् । अंशान्तरे