________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । तत्कान्तिजालैः प्रसृतस्तदनेष्यापाण्डता, कुलताऽक्षिपने ॥२१७ ॥ अत्र रूपकवशाद्विच्छित्तिः। यथा वा--
'यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः।
तच्चापरोपितशरो धावत्यासां स्मरो मन्ये ॥ २१८ ॥' अत्र कविप्रौढोक्तिवशाद्विच्छित्तिः। उत्प्रेक्षायामनिश्चिततया प्रतीतिः, इह तु निश्चिततये. त्यनयोर्भेदः।
१४६ अभेदेनाभिधा हेतुहेतोहे तुमता सह । ___ यथा मम-'तारुण्यस्य...' अत्र वशीकरणहेतुर्नायिका वशीकरणत्वेनोक्ता। विलासहासयोस्वध्यवसायमूलोऽयमलङ्कारः। चन्द्रः । विराजते । इति-जानीमहे निश्चिनुमः। तत् । तथाहि-प्रसृतैः विस्तीर्णैः । तत्कान्तिजालैस्तस्य प्रियवक्रचन्द्रस्य कान्तयस्तासां जालानि पुजास्तैः । अनेषु ।आपाण्डुता समन्ततः स्फुरितत्वम् । तथा-अक्षिपोऽक्षि नेत्रमेव पद्मं कमलं तत्र । कुइमलता मुकुलित्वम् । 'कुमलो मुकुलोऽस्त्रियाम् ।' इत्यमरः । अत्राङ्गानामापाण्डतयाऽक्षिपद्मस्य च कुड्मलतया च साधनेन प्रियवक्रचन्द्रस्य हृद्यन्तर्विराजनमनुमीयते । इन्द्रवज्रोपेन्द्रवज्रयोरुपजाति. श्छन्दः ॥२१७॥
अत्र विच्छित्तिं निर्दिशति-अत्र । रूपकवशात् रूपकालङ्कारसंसर्गबलात् । विच्छित्तिरलङ्कारत्वोपस्का. रकश्चमत्कारः।
उदाहरणान्तरं निर्दिशति-यथा।वा । 'यत्र यस्मिन् (यूनि)। अबलानां कामिनीनाम् । दृष्टिः। पतति । तत्र तस्मिन् (यूनि) निशितास्तीक्ष्णा उन्मादकत्वेनासह्या इति यावत् । शराः। 'कामस्येति शेषः । पतन्ति । तत् । आसामबलानाम् । पुरोऽग्रे। चापरोपितशरश्चापे धनुषि रोपित आरोपितः शरो येन तादृशः । स्मरः कामः । धावति । इति-मन्ये । अत्राबलानां दृष्टिपातविषयस्य (काम) निशितशरपातविषयत्वरूपात् साधनात् स्मरस्य धनुरारोपितशरतया पुरोधावनरूपस्य साध्यस्यानुमानम् । आUछन्दः, तल्लक्षणं चोक्तं प्राक् ॥ २१८॥
अत्र विच्छित्तिं निर्दिशति-अत्रेत्यादिना । स्पष्टम् । अत्रोत्प्रेक्षैव किं नाङ्गीक्रियेत? इत्याशङ्कयाह-उत्प्रेक्षायामित्यादि । स्पष्टम् । इदम्बोध्यम्-अस्य स्वार्थपरार्थत्वाभ्यां भेदद्वयमामनन्ति, तत्र-यत्र मयाऽयमनुमितोऽर्थ इति स्वपरामर्शनिश्चयः तत्स्वार्थम् , यत्र परेणाननुमितस्यार्थस्य प्रत्यायनं तत्परार्थम् । आद्यमुदाहृतम् , द्वितीयं यथा-'तदस्ति तेषां तमसि प्रसर्पिणां निशाचरत्वं यदि पारमार्थिकम् । ततः प्रिये ! सन्निहितेऽत्र वासरे कथं नु तत् सञ्चरणं भविष्यति।' अत्र दिवासश्चरणस्य साध्यस्य विरुद्धं निशाचरत्वं परप्रत्यायकंसाधनम् । अस्यालङ्कारान्तरविच्छित्तिमन्तराऽपि सम्भवति । यथा-'विकसन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः ।।
हेतुं लक्षयति-१४६ हेतुमता कार्येण । सह । हेतोः कारणस्य । अभेदेन । अभिधा कथनम् । हेतुः कारणं तमामाऽलङ्कार इत्यर्थः।
___ उदाहरति-यथा । मम-'तारुण्यस्येत्यादि । व्याख्यातपूर्वमिदं पद्यम् । लक्षणसमन्वयं दर्शयति-अत्रास्मिन्नुदाहृते पथे । वशीकरणहेतुः 'युवजनस्य'ति शेषः । नायिका। वशीकरणत्वेन वशीकरणरूपकार्यत्वेन । उक्ता। ननु लक्षणया वशीकरणकारणप्रतीतिरेव, न त्वभेदप्रतीतिरित्यत आह-विलासहासयोः। 'तारुण्यस्य विलासः समधिकलावणसम्पदो हास' इत्युक्तदिशा तारुण्यसम्बन्धिविलासस्य समधिकलावण्यसम्पत्सम्बन्धिनो हासस्य चेत्यर्थः । तु । अध्यबसायमूलोऽध्यवसाय आहार्याभेदप्रतीतिर्मूलमस्येति तथोक्तः । अयं हेत्वाख्यः । अलङ्कारः । निष्कर्षितं च विवृतिकारैः-'तथा च नायिकाया विलासहासयोः कार्यकारणभावरूपसम्बन्धाभावेन कारणलक्षणाया असम्भवादाहाऱ्यांभेदप्रतीतिरवश्यमशीकरणीया तत्साहचर्यात प्रकृतेऽध्याहार्यप्रतीतिरेव, नतु
१ प्रकरणादिदं लभ्यते।