Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 852
________________ २७४ साहित्यदर्पणः । [दशम: यथा-- 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः। हरतापि तनुं यस्य शम्भुना न बलं हतम्॥२२७॥' अत्र तनुहरणेऽपि बलाहरणे निमित्तमचिन्त्यम् । इह च का भावः कार्यविरुद्धसद्भावमुखेनापि निबध्यते, विभावनाय कारणाभावः कारणविरुद्धसद्भावमुखेनाप्येवम् । अतः 'यः कौमारहरः' इत्यत्र उत्कण्ठाकारणविरुद्धस्य निबन्धनाद्विभावना, कारणस्य विरुद्धं यत् 'चेतः समुत्कपठते इति कायं तस्य निबन्धनाद्विशेषोक्तिश्च । अत एवात्र विभावनाविशेषोक्त्योः सङ्करः। शुद्धोदाहरणं तु मृग्यम् । १५२ जातिश्चतुभिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः । क्रिया क्रियाद्रव्याभ्यां यद् द्रव्यं द्रव्येण वा मिथः ॥ १२१ ॥ विरुद्धमिव भासेत विरोधोऽसौ दशाकृतिः। अथापि उदाहरति-यथा-'यस्य । तनुं शरीरम् । हरता निघ्नता । अपि । शम्भुना शङ्करेण । बलम् । न । हतम् । सः। एकोऽद्वितीयः । कुसुमायुधः । त्रीणि । जगन्ति लोकान् । जयति । अत्र तनुहरणरूपे हेतौ सत्यपि बलहरणरूपस्य कार्य्यस्यासत्त्वम् ॥ २२७ ॥' निमित्तस्याचिन्त्यतां निर्दिशति-अत्रेत्यादिना । स्पष्टोऽर्थः । अत्रेदम्बोध्यम्-अनुक्तनिमित्ताया द्वौ भेदौ, तत्राद्योऽनुक्तचिन्त्यनिमित्तो द्वितीयोऽनुक्ताचिन्त्यनिमित्त इति; अथापि भेदकल्पनाया गौरवं मन्यमाना द्वावप्येतो भेदावनुक्तनिमित्तरूपावेवात एवायं भेदो न पृथगुक्तः । इति । अस्यां का भावस्य विच्छित्त्यन्तरेण बन्धं दर्शयन् विभावनायो कारणाभावस्य तथा बन्धमनुषगतो दर्शयतिइहास्यां विशेषोक्ताविति यावत् । च। कार्याभावः । कार्यविरुद्धसद्भावमुखेन कार्य्यस्य यद् विरुद्ध (कारण)तस्य सद्भावस्तस्य मुखं द्वारं तेन । अपि किम्पुनरन्यथेति शेषः । निबध्यते । एवम । विभावनायाम् । कारणाभावः। कारणविरुद्धसद्भावमुखेन कारणस्य विरुद्धं ( कार्य्यम् ) तस्य सद्भावस्तस्य मुखं द्वारं तेन । अपि किम्पुनरन्यथेति शेषः । 'निबध्यत'इत्यनुषज्यते । अतः। 'यः कौमारहर...'इति व्याख्यातपूर्व पद्यम् । इत्यत्र । उत्कण्ठाकारणविरुद्धस्योत्कण्ठायास्तद्रूपस्य कार्य्यस्य कारणं (नायकाद्यसन्निधिः ). तस्य विरुद्ध (नायकादिसन्निधिः) तस्य । निबन्धनात् । विभावना । कारणस्योत्कण्ठारूपकार्य्यस्य कारणभूतो यो नायकाद्यसन्निधिस्तस्येति भावः । विरुद्धं प्रतिकूलम् । यत् । 'चेतः।समुत्कण्ठते' इति।कार्यम् । उत्कण्ठारूपं कार्यमिति भावः । तस्य । निबन्धनात् । विशेषोक्तिः। च । अतः । एव । अत्रोदाहृते पद्ये । विभाव विशेषोत्तयोः । सङ्करः । अलङ्कारसर्वस्वकारा अप्याहु:-कार्यानुत्पत्तिश्चात्र क्वचित् कार्यविरोधोत्पत्त्या निबध्यते, एवं विभावनायामपि कारणाभावः कारणविरुद्धमुखेन क्वचित्प्रतिपाद्यते। तथा च सति-'यः कौमारहर...' इत्यादौ विभावनाविशेषोक्त्योः सन्देहसङ्करः । तथाहि-उत्कण्ठाकारणं विरुद्धं यः कौमारहर'इत्यादिनिबद्धमिति धिभावना । तथा 'यः कौमारहर' इत्यादेः कारणस्य कार्य विरुद्धं 'चेतः समुत्कण्ठते' इत्युत्कण्ठाऽऽख्यं निबद्धमिति विशेषोक्तिः । इति । शुद्धोदाहरणम् । निरुक्तलक्षणयोरेतयोः पृथक्पृथगुदाहरणमिति भावः। तु। मृग्यमन्वेषणीयम् । अत्र विवृतिकारा:-"कार्यकारणविरुद्धसद्भावमुखेन कार्याभावकारणाभावोक्तौ विशेषोक्तिविभावनयोः शुद्धोदाहरणे क्रमेण यथा-'धनिनोऽपि स्थिरस्वान्ता यौवने धर्मतत्पराः । अनात्मश्लाधिनः शूरा भूपाला रघुवंशजाः॥' • अत्र स्थिरखान्तत्वमुन्मादविरुद्धं धर्मोपार्जनकारणं वार्द्धकं तद्विरुद्धं यौवनम् ।" इति। विरोधं लक्षयति-यद् यदि । चतुर्भिः । जात्याद्यैर्जातिगुणक्रियाद्रव्यैः । सहार्थेयं तृतीया । जातिः। 'विरुद्धमेव भासेते'त्येव लिङ्गविपारीणामेनात्र सर्वत्रान्वेति, तथा च-'विरुद्धैव भासेते' त्याकर्षणीयम् । त्रिभिः। गुणादिभिर्गुणक्रियाद्रव्यैः । सहाथेयं तृतीया । गुणः । “विरुद्ध एव भासेते' त्याकर्षणीयम् । क्रियाद्रब्याभ्याम् । सहाथैयं तृतीया। क्रिया। 'विरुद्धैव भासेते' त्याकर्षणीयम् । वा। द्रव्येण । मिथः समम् । द्रव्यम् विरुद्धम् । इव । भालेत । तर्हि-असौ । दशाकृतिर्दशविधः। विरोधः ॥ १२१ ॥

Loading...

Page Navigation
1 ... 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910