Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 859
________________ . परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः। . २८१ बोधनं प्रतिपाद्येत) विशेषस्त्रिविधस्त (पञ्चधा त) तः ॥ १२७ ॥ क्रमेण यथा-'दिवमप्युपयातानामाकल्पमनल्पगुणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो म ते वन्द्याः ॥२४६॥' 'कानने सरिदुद्देशे गिरीणामपि कन्दरे । पश्यन्त्यन्तकसङ्काशं त्वामेकं रिपवः पुरः ॥२४७॥" 'गृहिणी, सचिवः, सखी मिथः, प्रियशिष्या ललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता त्वां बद्र किन्न मे हृतम् ॥३४८॥' दैवाद्भाविमहिम्ना । इतरस्य तस्माद्भिन्नस्य । अशक्यस्य दुःसाध्यस्य । वा यद्वा । कार्य्यस्य। करणं सम्पादनम् । (प्रतिपाद्येत तदा तृतीयः । गुणे । वा दोषे । अपि । अन्यथा दोषरूपेण गुणरूपेण चेत्यर्थः । बोधनम् । प्रति. पायेत तदा चतुर्थः पञ्चमश्च )। ततः। विविधः (पश्चधा पञ्चविधः ।) विशेषो विशेषणमाधेयादेरनाधारत्वप्रतिपादनादिनेति तथोक्तः, तन्नामाऽलङ्कार इत्यर्थः । अत्रेदम्बोध्यम्-यद्यपि प्रायो विशेषालङ्कारस्त्रिविध एवानातः, तथाऽपि अनुज्ञालेशयोरत्रान्तर्भाव सिसाधयिषव आमनन्ति, तथा हि-त्रिविध इत्युपलक्षणम्, तेनानुज्ञालेशयोग्रहणम् । ननु 'दोषस्याभ्यर्थनाऽनुज्ञा तत्रैव गुणदर्शनात् ।' 'लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम् ।' इत्युक्तदिशा गुणदोषयो. रन्यथा बोधनस्य लेशमात्रविषयतयाऽनुज्ञाया अवशिष्टत्वेन कथमन्तर्भावः ? इति चेत् ! दोषेऽपि गुणमवधाय तदभ्यर्थनरूपाया अनुज्ञाया दोषेऽपि गुणत्वकल्पनरूपाल्लेशादनतिरिक्तत्वेन न काऽपि अनुपपत्तिः । यद्यपि-एनयोरप्रस्तुतप्रशंसाकाव्यलिङ्गदृष्टान्तादिष्वपि यथातथमन्तर्भावः कतै शक्यः, तथाऽपि विशेषविशेषत्वाङ्गीकार ऋजुः पन्थाः । एतेनैनयोः पार्थक्यम्, अनुज्ञायाश्च लेशातिरिक्तत्वं च परैरङ्गीक्रियमाणमपास्तम् । एवं-'सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः।' इत्युक्तामुद्राया अलङ्कारत्वमेव न, प्रकृतोपस्कारकत्वाभावात् , अमुच्या नाटकोपकरणमात्रत्वाच्च । 'क्रमिकं प्रकृतार्थानां न्यासं रत्नावली विदुः । चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते ॥' इति लक्षितस्य क्रमिकस्य तु रूपकेणैव गतार्थत्वम्, तद्भिन्नविच्छित्त्यनुपलब्धेः । यच्च-'दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषस्तिरस्कारः।' इति तिरस्कारस्यालङ्कारान्तरत्वं समर्थितं गङ्गाधरकारैः, तन्न; तस्याप्येनयोरेवान्तर्भावात् । इति दिक् ॥ १२६ ॥ १२७ ॥ उदाहर्तुमाह-क्रमेण । यथा-'दिवं वर्गम् । उपयातानां प्राप्तानाम् । मृतानामिति भावः । अपि। येषां 'कवीना'मिति शेषः । अनल्पगुणा अनल्पा बहवो गुणा याखिति तथोक्ताः । गिरो बचांसि । आकल्पम । जगन्ति । रमयन्ति रजयन्ति । ते । कवयः। कथमिव कथम् । 'कथमिहे'ति पाठान्तरम्, तत्र-इहास्मिलोक इत्यर्थः । न । वन्द्याः । अत्र कविरूपमाधारमन्तरैव गिरामुपस्थितिणितेति बोध्यम् । आधाराधेयभावश्चायं कविप्रकपितः । 'शब्दगुणमाकाश'मिति गिरामाधारस्तु आकाशमेव वास्तविकम् । आर्याछन्दः, तल्लक्षणं चोक्तं प्राक् ॥ २४६. ॥' यथा वा-'अये राजन्नाकर्णय कुतुकमाकर्णनयन ! त्वदाधारा कीर्तिर्वसति किल मौलौ दशदिशाम् :। त्वदेकालम्बोऽयं गुणगणकदम्बो गुणनिधे ! मुखेषु प्रौढानां विलसति कवीनामविरतम् ॥" युक्तं तु याते दिवमासफेन्दौ तदाश्रितानां यदभूद्विनाशः । इदं तु चित्रं भुवनावकाशे निराश्रया खेलति तस्य कीर्तिः ॥' इति वा । द्वितीयमुदाहरति-रिपवः। कानने वने । सरिदद्देशे सरिता नदीनामुद्देश उत्कृष्टो देशस्तत्र । गिरीणां पर्वतानाम् । कन्दरे गुहाप्रदेशे । अपि । त्वाम् । एकाम् । अन्तकसंकाशं यमराजसदृशम् । पुरः । पश्यन्ति । अत्र राज्ञः काननादयोऽनेकविधा विषया निर्दिष्टाः ॥ २४७ ॥' तृतीयमुदाहरति-'हे' प्रिये (इन्दुमति ! 'त्वं में' इत्यध्याहार्य्यम् । गृहिणी गृहेश्वरी । सचिवः (हितो. मन्त्री। मिथो रहसि । 'मिथोऽन्योऽन्य रहस्यपि।' इत्यमरः । सखी । ललिते सुन्दरे। कलाविधौ कलानां चातुर्य्यविशेषाणां कामकलानां वा विधिविधानं तत्र । प्रियशिष्या प्रेमास्पदतया शिक्षणीया । एवंविधाम्त्वाम् । हरताऽपहरता । करुणाविमुखेन निर्दयेन । मृत्युना कालाधिष्टात्रा । 'मृत्युर्ना मरणे यमे ।' इति मेदिनी। बत कष्टम् । किम् । मे मम । न । हृतम्, अपि तु सर्वमेव हृतम् । अजविलापोऽयम् । अत्रेन्दुमती. हरणरूपमेकं कुर्वता यमेन तेनैवैकदैव गृहिण्यादिकं सर्व हृतमित्यशक्यस्यास्य कार्यान्तरस्य करणम् । अपरवकं छन्दः, तल्लक्षणं च यथोक्तम्, 'अपरवकं नौ लौ गन्नौ जौ।' इति ॥२४८॥ यथा वा-'लोभाद्वराटिकानां विक्रेतुं तक्रमानि

Loading...

Page Navigation
1 ... 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910