Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
२७९ १५५ समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुनः ॥ १२४ ॥ यथा--'शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जहुकन्याऽवतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणाकटु नृपाणामेकवाक्यं विवनुः ॥२४१॥'
१५६ विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् । यथा-'प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुश्चति प्राणान् ।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ॥ २४२ ॥' चोक्तं यथा-'सजसा जगौ भवति मजुभाषिणी।' इति ॥' अत्र यदेकावयवभूते कुक्षौ सर्वेषां जगतां विलयस्तस्यैव कस्याश्चित् पुरस्त्रियाश्चक्षुरेकदेशेऽवस्थानमिति विपुलतमत्वाल्पतमत्वयोर्भगवति समावेश इति तत्त्वम् । अत्र रसगङ्गाधरकाराः प्राहुः-"ननुक शुक्तयः क्व वा मुक्ताः क्व पङ्कः क्व च पङ्कजम्।क्क मृगाः क्व च कस्तूरी धिग् विधातुर्विदग्धताम् ॥' इत्यादौ वस्तुमात्रकथने विषमालङ्कारप्रसङ्गः । न चेष्टापत्तिः । वस्तुवृत्तस्य लोकसिद्धत्वेनालङ्कारत्वायोगात् । यतो बहिरसन्तः कविप्रतिभामात्रकल्पिता अर्थाः काव्येऽलङ्कारं पदास्पदम् । न च 'यथा पन तथा मुखम् ।' इत्यादौ सादृश्यस्य लोकसिद्धत्वात् कविप्रतिभाऽनुत्थापितत्वेऽपि कथमलङ्कारत्वमिति बाच्यम् । सादृश्यरूपे सादृश्योत्थापके वाऽभिन्नधर्मेऽभेदांशस्य कविप्रतिभामात्राधीनत्वात् । नहि पद्ममुखयोः शोभारूपो धर्मो जात्यादिवद्वस्तुत एकोऽस्ति । यो हि जात्यादिरूपो वस्तुत एकस्तदुस्थापितं सादृश्यमल. कारबहिर्भूतमेव । यथा-'पद्ममिवास्या मुखं द्रव्य'मित्यादौ । एवं च-'वनान्तः खेलन्ती शशकशिशुमालोक्य चकिता भुजप्रान्तं भर्तुः श्रयति भयहर्तुः सपदि वा । अहो सेयं सीता शिव ! शिव ! परीता श्रुतिचलतूकिरीटीकोटीभिर्वसति खलु रक्षोयुवतिभिः ॥इति प्रतिपाद्यायाः सीताराक्षसवधूसंसर्गाननुरूपताया लौकिकीत्वेन कविप्रतिभानेपेक्षत्वान्नालङ्कारत्वम् । एतेन-'अरण्यानी केयं, धृतकनकसूत्रः क स मृगः, क मुक्ताहारोऽयं, क च स पतगः, क्वेयमबला । क्व तत् केन्यारत्नं ललितमहिभत्तः क्व च वयं स्वमाकूतं धाता कमपि निभृतं पल्लवयति ॥' इत्यलकारसर्वस्वकृतोदाहृतमपि प्रत्युक्तम् । इयमेव पद्यान्तरेऽपि कविप्रतिभाऽनुत्थापितार्थके सरणिरिति सत्यम् । एवं तर्हि-'क्व सा कुसुमसाराङ्गी सीता चन्द्रकलोपमा । क्व रक्षः खदिराजारमध्यसंवासवैशसम् ॥' इति पद्यमुदाहरणं गृहाण । अत्र हि केवलसीतायाः केवलराक्षसीनां च संसर्गस्याननुरूपतायां सत्यामपि न सा कवेर्विवक्षिता, किन्तु या कुसुमसारखदिराङ्गारसंसर्गस्याननुरूपता सेति स्फुटमेवास्यामलौकिकत्वात् कविप्रतिभाऽपेक्षित्वम् ।"इति ॥-२४०॥
समं लक्षयति-१५५ आनुरूप्येणानुरूपतया समानतयेति यावत् । योग्यस्य । वस्तुनः । श्लाघा प्रशंसनम् । समं सह तुल्यतया मीयते इति तथोक्तम् । तन्नामाऽलङ्कार इति भावः । स्यात् ॥ १२४ ॥
उदाहरति-यथा-'इयमिन्दुमती। कौमुदी चन्द्रिका । अनुरूपं सदृशम् (अजम्)। मेघमुक्तं मेघावरणशुन्यम् । शशिनं चन्द्रम् । उपगता । इयम् (इन्दुमती) जहुकन्या(गङ्गा)। अनुरूपम् ( अजम् ) । जलनिधि समुद्रम् । अवतीर्णा प्राप्ता । इति । समगुणयोगप्रीतयः समोऽन्योऽन्यमनुरूपो गुणो ययोस्तयोर्योगस्तेन प्रीतिर्येषां तथोक्ताः । अत्र व्यधिकरणो बहुव्रीहिः । पौरा नागरिकाः । तत्र स्वयंवरमण्डपे । नृपाणामिन्दुमतीमुपलब्धुमुपेतानाम्, अथ च तामप्राप्तवतामजद्वेषिणां राज्ञाम् । श्रवणकटु । एकवाक्यमभिन्नवाक्यम् । विवतुः कथयामासुः। रघुवंशस्येदं पद्यम् । अत्र लक्षणसमन्वयः स्फुटः । मालिनीवृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ २४१ ॥
विचित्रं लक्षयति-१५६ चेत् । इष्टफलायाभिमतायार्थाय । विरुद्धस्यानिष्टफलकस्य कर्मणः । कृतिविधामम् । तत्तर्हि । विचित्रं तन्नामाऽलङ्कारः। ।
__उदाहरति-यथा-'उन्नतिहेतोरुन्नतिं लब्धुमिति भावः । प्रणमति प्रकर्षणावनतो भवति । जीवितहेतो जीवननिमित्तम् । प्राणान् ( युद्धादिषु)। विमुश्चति । सुखहेतोः सुखलाभाशया। दुःखीयति परिश्रान्तोऽ. पीतस्ततो धावति, अशक्यमपि कर्तुं प्रवर्तते चेति भावः । अत:-सेवकात् किकरात् । अन्यः । कः । मूढो न कोऽपि मूढ इति भावः । आ-छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ २४२॥'
Loading... Page Navigation 1 ... 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910