Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 853
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः । क्रमेण यथा--'तव विरहे मलयमरुद् दवानलः शशिरुचोऽपि सोमाणः । हृदयमलिरुतमपि भिन्ते नलिनीदलमपि निदाघ रविरथाः ॥ २२८ ॥' 'सन्ततमुसलासङ्गाद्बहुतरगृहकर्मघटनया नृपते ! द्विजपarai कठिनाः सति भवति कराः सरोजसुकुमाराः ॥ २२९ ॥' 'अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्वपतो जागरूकस्य याथार्थ्य वेद कस्तव ॥ २३०॥ ' 'लभसङ्गेन विना हरिणचक्षुषः । राकाविभावरीजा निर्विषज्वालाऽऽकुलोऽभवत् ॥२३१॥ ' 'नयनयुगासेचनकं मानसवृत्त्याऽपि दुष्प्रापम्। रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ॥२३२॥' 'त्वद्वांजिरा जिनिर्धूतधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गां भूरिभारभिया हरः ॥ २३३॥ ' 'वल्लभङ्गसङ्गेन विना हरिणचक्षुषः । राकाविभावरीजा निर्मध्यन्दिनदिनाधिपः ॥ २३४ ॥' २७५ उदाहर्तुमुपक्रमते - क्रमेण यथानिर्देशम् । यथा । 'तव । विरहे 'जाते' इति शेषः । अस्यास्त्वदेकाधारायाः प्रियाया इत्यर्थः । मलयमरुन्मलयस्तन्नामा चन्दनोत्पत्तिस्थानभूतः पर्वतस्तस्य मरुद्वायुः । चन्दनसौगन्ध्यसम्भृततया शीतलोऽपि वात इति भावः । दवानलो दावाग्भिः । शशिरुचश्चन्द्रकान्तयः । अपि । सोष्माण उष्णाः । अलिरुतम्भ्रमरझङ्कारः । अपि । हृदयम् । भिन्ते विदारयति । नलिनीदलं पद्मिनीपत्रम् । अपि । निदाघरविमसूयः । 'जात' इति शेषः । अत्र क्रमेण जातेजीत्यादिभिश्चतुर्भिर्विरोधो भासते ॥ २२८ ॥ ' एवं जातेर्जात्यादिभिर्विरोधाभासं दर्शयित्वा गुणस्य गुणेन विरोधाभासं दर्शयति- 'हे नृपते ! बहुतरगृहकर्मघनया बहुतरं गृहाणां कर्माणि गृहोचितानि कार्य्याणि तेषां घटना निर्माणं तया । सन्ततमुसलासङ्गात् सन्ततं निरन्तरं मुसलस्यासङ्गोऽत्यन्तं प्रसङ्गस्तस्मात् । द्विजपत्नीनां ब्राह्मणीनाम् । कठिनाः कठोराः । 'अपीति शेषः । करा हस्ताः । भवति यथेष्टं सन्ततं सम्प्रदातृत्वेन प्रसिद्धे त्वयीति भावः । सति । सरोजसुकुमाराः कमलवत अत्यन्तं कोमलाः । ' जाताः' इति शेषः । त्वया तथा सन्ततं सम्प्रदीयते यथा ब्राह्मणा दासीभिरेव स्वस्त्रीणां कर्त्तव्यानि कारयन्तीति भावः । गीतिश्छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ २२९ ॥ ' गुणस्य क्रियया विरोधाभासं दर्शयति- अजस्य न जायते कर्माधीनत्वेनेति तस्य । 'अपी'ति शेषः । जन्म । गृहतः 'स्वेच्छये 'ति शेषः । निरीहस्य निरस्तेहा चेष्टा यस्य तस्य । 'अपी'ति शेषः । हतद्विषो हता विनाशिता भक्तानुकम्पितया द्विषो भक्तदुःखदा येन तस्य । जागरूकस्य जागतीति तथोक्तस्य । 'अपी'ति शेषः । स्वपतः स्वमं नाटयतः । 'स्वप्नस्य सिद्धया मनः संयोगरूपतया गुणत्वम् । इति विवृतिः । तव भगवतः । याथार्थ्य सत्यं स्वरूपम् । कः किंखरूपो जनो ब्रह्मा वा । वेद जानीयात् । रघुवंशस्येदं वचम् ॥ २३० ॥' गुणस्य द्रव्येण सह विरोधाभासं दर्शयति- 'वल्लभोत्सङ्गसङ्गेन वल्लभस्य प्राणप्रियस्योत्सङ्गः कोडमुपचारात् तत्सान्निध्यं तस्य सङ्गः सम्पर्कस्तेन । विना । हरिणचक्षुषो मृगाक्ष्याः । राका विभावरीजानि: राका पूर्णिमाऽसौ विभावरी रात्रिरिति सा जाया यस्य तथोक्तः । राकेशश्चन्द्र इति भावः । 'जायाया निङ् | १५|४|१३४ इति निङादेशः । विषज्वालाssकुलः । भभवत् । अत्र राकेशस्याने कव्यक्तिवाचित्वाभावाद्रव्येण दाहजनकत्वस्य गुणस्य विरोध आभासमानोऽपि विरहदशायां तस्य सम्भवात्परिहियते ॥ २३१ ॥ ' . क्रियायाः क्रियया विरोधाभासं दर्शयति- 'नयनेत्यादिना । व्याख्यातपूर्वमिदम् । अत्र खेदजननक्रियायाः प्रहर्षजननक्रियया समं विरोध आभासते, परन्तु सङ्गाभावं यावदित्यन्ततोऽविरोधः ॥ २३२ ॥ क्रियाया द्रव्येण विरोधाभासं दर्शयति- ' त्वद्वाजीत्यादिना । व्याख्यातपूर्वमिदम् । अत्र हरेणैकव्यक्तिवाचितया द्रव्येण गङ्गाधरत्वेन प्रसि नापि समं गङ्गाधारणाभावरूपक्रियायास्तादात्म्येनापाततो विरोधः कविप्रौढोक्त्या निरसनीय इत्याभासमात्रः ॥ २३३ ॥ ' , द्रव्यस्य द्रव्येण विरोधाभासं दर्शयति- 'वल्लभोत्सङ्गसङ्गेन । विना । हरिणचक्षुषः । राकाविभावरीजानिः । मध्यन्दिनदिनाधिपो मध्यन्दिनस्य मध्याह्नस्य दिनाधिपः सूर्यः । अत्र राकाविभावरीजानेवन्द्रस्य दिनाधिपस्य सूर्यस्य च द्रव्यत्वाद विरोधो भासते, अथापि विरहे राकेशस्य सन्तापकत्वेन तथा प्रतीतिः सङ्गच्छत एवेत्यविरोधः ॥ २३४ ॥ '

Loading...

Page Navigation
1 ... 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910