Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 844
________________ २६६ साहित्यदर्पणः। [दशम:तत्र वाक्यार्थता यथा-'यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवर मेधैरन्तरितः प्रिये ! तव मुखच्छायाऽनुकारी शशी । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता स्त्वत्सादृश्यविनोदमात्रमपि मे देवेन न क्षम्यते ॥ २१३ ॥' . अत्र चतर्थपाटे पादत्रयवाक्यानि हेतवः । पदार्थता यथा'त्वदाजिराजिनि—तधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गां भूरिभारभिया हरः॥२१॥' अत्र द्वितीयाधैं प्रथमार्धमेकपदं हेतुः। त्रिविधः काव्यलिङ्गनामाऽलङ्कारः । अत्रापि अलङ्कारसामान्यलक्षणस्यानुस्यूतत्वमातेन-'दण्डेन घट' इत्यादौ नातिप्रसङ्गः। अत एव नाप्येवंविधस्थले काव्यत्वम् । इति निष्कृष्टोऽर्थः । अनुमानादर्थान्तरन्यासाच्चैतस्य भेदः खयं वक्ष्यते, परिकरात् पुनः 'परिकरे वाक्यार्थपदार्थसामर्थ्यात् प्रतीयमानोऽर्थों वाच्योपस्कारकत्वं भजते, काव्यलिङ्गे पुनर्वाक्यार्थपदार्थावेव हेतुभावं भजत' इत्युक्तदिशाऽवगन्तव्यमित्येके, 'वस्तुतस्तु-निष्पादकस्य वाक्यार्थपदार्थत्वाभावादस्य सर्वेभ्योऽ. प्यन्येभ्यो भेद'इत्येव बोध्यमि'त्यन्ये प्राहः । अत्र कौस्तुभकाराः-"यत्त रसगङ्गाधरे-'अनुमितिकरणत्वेन सामान्यविशेषभावाभ्यां चानालिङ्गितः प्रकृतार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिङ्गम्'इति लक्षणं कृत्वोपपादकत्वेनेत्यस्य नतु शब्दात् तेन रूपेण बोधित इत्यर्थकतया शब्दप्रतिपादितहेतुत्वकस्य हेतोरेव वारणं प्रयोजनम् । तेन-'भयानकत्वादसि वर्जनीयोदयाऽऽश्रयत्वादसि देव ! सेव्यः ।' इत्यत्र न व्यभिचारः ।.' इत्युक्त्वा 'विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितैरवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः । हरन्ती है मनवरतमेनांसि कियतां कदाऽप्यश्रान्ता त्वं जगति पुनरेका विजयसे । त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधी करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः । इयं तं मामम्ब त्वमथ करुणाऽऽकान्तहृदये पुनाना सर्वेषामघमथनद दलयसि ॥' इत्युदाहृतं, तत्परस्परविरुद्धमिति स्पष्टमेव; हेत्वर्थकशतृप्रत्ययेन हेतुत्वस्य बोधितत्वात , अन्यथा पञ्चम्याऽपि तद्बोधानुपपत्तेः । 'हरि पश्यन्मुच्यते'इत्यादौ भगवद्दर्शनभक्त्योः कार्यकारणभावप्रत्ययस्य सर्वानुभवसिद्धत्वात् । तत्र हेतुभूतहरिदर्शनाश्रयो मुच्यते इति बोधस्यावश्यकत्वात् । हेतुत्वं च समभिव्याहृतकार्यापेक्षमेवेति । तत्रार्थान्मुक्तिनिष्ठकार्यत्वनिरूपितत्वलाभात् । इति दिक। अथ क्रमादुदाहर्तुकाम आह-तत्र तयोप्रिभेदुयोर्भध्ये । वाक्यार्थता तन्मूलं काव्यलिङ्गम् । यथा 'हे प्रिये सीते! यत् । त्वनेत्रसमानकान्ति तव नेत्रे . तयोः समाना सदृशी कान्तिर्यस्य तथोक्तम् । तत इन्दीवरं नीलकमलम् । सलिले जले। 'सलिलं कमलं जलम् ।' इत्यमरः । मग्नं मज्जितम् । अत्रान्तर्भावितो णिचप्रत्ययः । 'वर्षाजलौघं सर्वतो वर्धयित्वेति शेषः । तव । मुखच्छायानकारी मुखस्थ च्छाया प्रतिबिम्ब कान्तिर्वा तामनुकरोतीति तथोक्तः। 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः ।'इत्यमरः । 'यः स'इति शेषः । शशी । मेधैः । अन्तरितोऽन्तर्गमितः । अत्रापि णिजोऽन्तर्भावः । ये । अपि । त्वदमनानुसारिगतयस्तव गमनं तस्यानुसारिणी गतिर्येषां तथोक्ताः । ते । राजहंसाः । गता गमिता'मानस'मिति शेषः । अत्रापि णिजोऽन्तर्भावः । 'वर्षासु मानसं हंसाः प्रयान्ती'ति कविसमयमनुरुध्येदमुक्तम् । एवम्-मे । देवेन दुर्दैवेन । त्वत्सादृश्यविनोदमानं तव सादृश्यं तस्य विनोदमानं विडम्बनमात्रं, तेन वा विनोदमानं सन्तापनिवर्तनमात्रमिति तथोक्तम् । अपि न । क्षम्यते । सीतां स्मरतस्तद्विरहेण वर्षासु व्याकुलस्य रामस्योक्तिरियम् । 'हनुमन्नाटके ति प्रसिद्धस्य चम्पूकाव्यस्येदं पद्यम् । शार्दूलविक्रीडितं वृत्तम्, तल्लक्षणं चोक्तं प्राक् ॥ २१३ ॥' लक्ष्य लक्षयति-अत्र।चतुर्थपादे 'त्वत्सादृश्य...' इति पद्ये सादृश्यविनोदाभावे । पादत्रयवाक्यानि । - 'यत्वनेत्र...' इत्यारभ्य 'गता' इत्यन्ताः पूर्वपादवाक्यार्थी इति भावः । हेतवः। मज्जितादिक्रियाकर्मीभूता इन्दीवरादयो दैवेन त्वत्सादृश्यदर्शनजन्यसुखासहिष्णुत्वनिष्पादका इति फलितोऽर्थः। ___ हेतोरेकपदार्थतायामुदाहरति-पदार्थतेत्यादिना । स्पष्टम् । 'त्वदाजीत्यादि । व्याख्यातपूर्व पद्यमिदम् ॥२१४॥' लक्ष्य निर्दिशति-अत्र । द्वितीयाधै न धत्ते' इत्यादिप्रतिपाद्य सम्भाव्यमानभूरिभारभयकरणहरगङ्गात्यागे । प्रथमाध 'त्वद्वाजि' इत्यादि । एकपदमुपचारात्तदर्थः कविप्रौढोक्तिसिद्धतादृशपङ्किलत्वाभिधेय इति यावत् । हेतुस्तस्य

Loading...

Page Navigation
1 ... 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910