Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 843
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः। अब कारणभूतं हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्य्यादेः कार्य्यस्य समर्थकम् । 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।। वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ २११ ॥' अत्र सम्पत्करणं कार्यं सहसा विधानाभावस्य विमृश्यकारित्वरूपस्य कारणस्य समर्थकम् , एतानि साधर्म्य उदाहरणानि, वैधयें यथा 'इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् । शाम्येत् प्रत्युपकारेण नोपकारेण दुर्जनः॥२१२॥' अब सामान्य विशेषस्य समर्थकम् । 'सहसा विदधीत...'इत्यादौ सहसा विधानाभावस्या. पत्पदत्वं विरुद्ध कार्य समर्थकम् । एवमन्यत् ।। १४४ हेतोर्वाक्यपदार्थत्वे काव्यलिङ्ग निगद्यते । तेषो पृथ्वीभुजङ्गमकूर्मराजानां त्रितयं तत्र । दिधीर्षा धर्तुमिच्छाम् । कुरुत । देवः पूज्यः श्रीरामभद्रः । हरकामकं महादेवस्य धनुः । आततज्यमातताऽऽरूढा ज्या मौर्वी यस्य तत्तथोक्तम् । करोति । बाकरामायणे श्रीलक्ष्मणस्योक्तिरियम् । वसन्ततिलकं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ २१० ॥' उदाहृतमय निर्दिशति-अत्रेत्यादिना । स्पष्टम् । 'सहसा...... । व्याख्यातपूर्वं पद्यमिदम् ॥ २११॥' उदाहृतमर्थं निर्दिशति-अत्रेत्यादिना। . अत्र । सम्पत्करणं 'वृणते' इत्यायुक्तम् । कार्यम् । सहसाऽविमृश्य । विधानाभावस्य । विमृश्य. कारित्वरूपस्य । कारणस्य । समर्थकम् । साधर्म्यनिबन्धनस्यास्योदाहृतान्येवोदाहरणानीत्याह-एतानीत्यादिना । स्पष्टम् । वैधम्य उदाहरणानि दयन्त इत्याह-वैधये इत्यादिना । स्पष्टम् । 'इत्थमित्यादि। 'इत्थं निरुतप्रकारेण । आराध्यमान उपास्यमानः । अपि 'किं पुनरुपेक्ष्यमाण'इति शेषः । 'तारकासुर' इति प्रक्रमप्राप्तम् । भुवनत्रयं, नत्वस्माकमेव भुवनमिति शेषः । क्लिश्नाति दुःखाकरोति । तथा हिंदुर्जनो दुष्टो जनः । प्रत्यपकारेणापकारप्रतिक्रियया । शाम्येत् । उपकारेण । न 'शाग्ये'दिति पूर्वतोऽन्वेति । कुमारसम्भवे ब्रह्माणं प्रति गुरोरुक्तिरियम् ॥ २१२॥' उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना । अत्र । सामान्य 'शाम्ये दित्यायुक्तं दुर्जनमात्रखाभाव्यम् । विशेषस्य 'इत्थमाराध्यमानोऽपी' त्यस्य तारकासुरचेष्टितस्य । 'उपकारेण कुप्येत्'इति वैधयेणेति शेषः । समर्थकम् । 'सहसा विदधीत..'इत्यादौ व्याख्यातपूर्व पद्ये । 'पूर्वार्द्ध' इति शेषः । सहसा। विधानाभावस्य 'सहसा विदधीत न क्रिया'मित्यनेन निर्दिष्टस्य कारणस्य । 'असहसा विधानं श्रेय' इति वैधयेद्वारेति शेषः । आपत्पदत्वं आपस्पदता 'अविवेकः परमापदां पद' मित्युक्तरूपमिति यावत् । विरुद्ध विरुद्धजन्यं सहसा विधानजन्यमिति यावत् । कार्यम् । समर्थकम्। ___ उदाहरणान्तरं खयमूत्यमित्याह-एवम् । अन्यत् । इति । स्पष्टम् । एवं च-'अहन्नेको रणे रामो यातुधानाननेकशः । नूनं सहायसम्पत्तिमपेक्षन्ते बलोज्झिताः ॥' इत्यत्र 'नून'मित्यायुक्तेन विशेषेण 'नूनं सहायसम्पत्तिमुपेक्षन्ते बलोद्धताः । इति वैधHद्वारा अह'नित्यादिनोक्तं सामान्यं समर्थितम् । 'बहिरेव चिरादनाश्रवे विलसत्येष तुषारदीधितिः। भज सम्मदमत्र सन्ततं ननु सन्तापमिनः प्रसूयते ॥' इत्यत्रेनः (सूर्यः) सन्तापं प्रसूयत इत्युक्तदिशा सूर्य्यस्य सन्तापजनने कारणत्वम् , तच'इनादन्यः प्रशान्तिजनक'इति वैधर्म्यद्वारा तुषारदीधितेः (चन्द्रात् ) सम्मदरूपकार्यस्योत्पत्तिं समर्थते । इति बोध्यम् । ___काव्यलिङ्ग लक्षयति-१४४हेतोापकसमर्थकेतरनिष्पादककारणस्यावाक्यपदार्थत्वे वाक्यं च पदानि चेति वाक्यपदानि, तान्यर्थाः प्रयोजनभूतानि यस्य तस्य भावस्तत्त्वं तस्मिंस्तथोक्ते । पदं च पदे च पदानि चेति पदानि, तथा चवाक्यार्थत्वे एकपदार्थत्वे द्विपदार्थत्वे बहुपदार्थत्वे चेति फलितम् । इदम्बोध्यम्-अस्य द्विपदार्थत्वबहुपदार्थत्वाभ्यां विभेदत्वमनेकपदार्थत्वेनैकभेदत्वमेवामनन्त्या• इति । काव्यलिई काव्यस्य लिङ्गं निष्पादकं कारणमिति तथोक्तम् । तन्नामाऽलङ्कार इति भावः । निगद्यते । एवं च-निष्पादकत्वावच्छिन्नस्य कारणस्य वाक्यार्थत्वमेकपदार्थत्वमनेकपदार्थत्वं चेति

Loading...

Page Navigation
1 ... 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910