________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। अब कारणभूतं हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्य्यादेः कार्य्यस्य समर्थकम् ।
'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ २११ ॥' अत्र सम्पत्करणं कार्यं सहसा विधानाभावस्य विमृश्यकारित्वरूपस्य कारणस्य समर्थकम् , एतानि साधर्म्य उदाहरणानि, वैधयें यथा
'इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् । शाम्येत् प्रत्युपकारेण नोपकारेण दुर्जनः॥२१२॥'
अब सामान्य विशेषस्य समर्थकम् । 'सहसा विदधीत...'इत्यादौ सहसा विधानाभावस्या. पत्पदत्वं विरुद्ध कार्य समर्थकम् । एवमन्यत् ।।
१४४ हेतोर्वाक्यपदार्थत्वे काव्यलिङ्ग निगद्यते । तेषो पृथ्वीभुजङ्गमकूर्मराजानां त्रितयं तत्र । दिधीर्षा धर्तुमिच्छाम् । कुरुत । देवः पूज्यः श्रीरामभद्रः । हरकामकं महादेवस्य धनुः । आततज्यमातताऽऽरूढा ज्या मौर्वी यस्य तत्तथोक्तम् । करोति । बाकरामायणे श्रीलक्ष्मणस्योक्तिरियम् । वसन्ततिलकं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ २१० ॥'
उदाहृतमय निर्दिशति-अत्रेत्यादिना । स्पष्टम् । 'सहसा...... । व्याख्यातपूर्वं पद्यमिदम् ॥ २११॥' उदाहृतमर्थं निर्दिशति-अत्रेत्यादिना। .
अत्र । सम्पत्करणं 'वृणते' इत्यायुक्तम् । कार्यम् । सहसाऽविमृश्य । विधानाभावस्य । विमृश्य. कारित्वरूपस्य । कारणस्य । समर्थकम् ।
साधर्म्यनिबन्धनस्यास्योदाहृतान्येवोदाहरणानीत्याह-एतानीत्यादिना । स्पष्टम् । वैधम्य उदाहरणानि दयन्त इत्याह-वैधये इत्यादिना । स्पष्टम् । 'इत्थमित्यादि।
'इत्थं निरुतप्रकारेण । आराध्यमान उपास्यमानः । अपि 'किं पुनरुपेक्ष्यमाण'इति शेषः । 'तारकासुर' इति प्रक्रमप्राप्तम् । भुवनत्रयं, नत्वस्माकमेव भुवनमिति शेषः । क्लिश्नाति दुःखाकरोति । तथा हिंदुर्जनो दुष्टो जनः । प्रत्यपकारेणापकारप्रतिक्रियया । शाम्येत् । उपकारेण । न 'शाग्ये'दिति पूर्वतोऽन्वेति । कुमारसम्भवे ब्रह्माणं प्रति गुरोरुक्तिरियम् ॥ २१२॥'
उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना ।
अत्र । सामान्य 'शाम्ये दित्यायुक्तं दुर्जनमात्रखाभाव्यम् । विशेषस्य 'इत्थमाराध्यमानोऽपी' त्यस्य तारकासुरचेष्टितस्य । 'उपकारेण कुप्येत्'इति वैधयेणेति शेषः । समर्थकम् । 'सहसा विदधीत..'इत्यादौ व्याख्यातपूर्व पद्ये । 'पूर्वार्द्ध' इति शेषः । सहसा। विधानाभावस्य 'सहसा विदधीत न क्रिया'मित्यनेन निर्दिष्टस्य कारणस्य । 'असहसा विधानं श्रेय' इति वैधयेद्वारेति शेषः । आपत्पदत्वं आपस्पदता 'अविवेकः परमापदां पद' मित्युक्तरूपमिति यावत् । विरुद्ध विरुद्धजन्यं सहसा विधानजन्यमिति यावत् । कार्यम् । समर्थकम्।
___ उदाहरणान्तरं खयमूत्यमित्याह-एवम् । अन्यत् । इति । स्पष्टम् । एवं च-'अहन्नेको रणे रामो यातुधानाननेकशः । नूनं सहायसम्पत्तिमपेक्षन्ते बलोज्झिताः ॥' इत्यत्र 'नून'मित्यायुक्तेन विशेषेण 'नूनं सहायसम्पत्तिमुपेक्षन्ते बलोद्धताः । इति वैधHद्वारा अह'नित्यादिनोक्तं सामान्यं समर्थितम् । 'बहिरेव चिरादनाश्रवे विलसत्येष तुषारदीधितिः। भज सम्मदमत्र सन्ततं ननु सन्तापमिनः प्रसूयते ॥' इत्यत्रेनः (सूर्यः) सन्तापं प्रसूयत इत्युक्तदिशा सूर्य्यस्य सन्तापजनने कारणत्वम् , तच'इनादन्यः प्रशान्तिजनक'इति वैधर्म्यद्वारा तुषारदीधितेः (चन्द्रात् ) सम्मदरूपकार्यस्योत्पत्तिं समर्थते । इति बोध्यम् ।
___काव्यलिङ्ग लक्षयति-१४४हेतोापकसमर्थकेतरनिष्पादककारणस्यावाक्यपदार्थत्वे वाक्यं च पदानि चेति वाक्यपदानि, तान्यर्थाः प्रयोजनभूतानि यस्य तस्य भावस्तत्त्वं तस्मिंस्तथोक्ते । पदं च पदे च पदानि चेति पदानि, तथा चवाक्यार्थत्वे एकपदार्थत्वे द्विपदार्थत्वे बहुपदार्थत्वे चेति फलितम् । इदम्बोध्यम्-अस्य द्विपदार्थत्वबहुपदार्थत्वाभ्यां विभेदत्वमनेकपदार्थत्वेनैकभेदत्वमेवामनन्त्या• इति । काव्यलिई काव्यस्य लिङ्गं निष्पादकं कारणमिति तथोक्तम् । तन्नामाऽलङ्कार इति भावः । निगद्यते । एवं च-निष्पादकत्वावच्छिन्नस्य कारणस्य वाक्यार्थत्वमेकपदार्थत्वमनेकपदार्थत्वं चेति