________________
२६६
साहित्यदर्पणः।
[दशम:तत्र वाक्यार्थता यथा-'यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवर
मेधैरन्तरितः प्रिये ! तव मुखच्छायाऽनुकारी शशी । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता
स्त्वत्सादृश्यविनोदमात्रमपि मे देवेन न क्षम्यते ॥ २१३ ॥' . अत्र चतर्थपाटे पादत्रयवाक्यानि हेतवः । पदार्थता यथा'त्वदाजिराजिनि—तधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गां भूरिभारभिया हरः॥२१॥'
अत्र द्वितीयाधैं प्रथमार्धमेकपदं हेतुः। त्रिविधः काव्यलिङ्गनामाऽलङ्कारः । अत्रापि अलङ्कारसामान्यलक्षणस्यानुस्यूतत्वमातेन-'दण्डेन घट' इत्यादौ नातिप्रसङ्गः। अत एव नाप्येवंविधस्थले काव्यत्वम् । इति निष्कृष्टोऽर्थः । अनुमानादर्थान्तरन्यासाच्चैतस्य भेदः खयं वक्ष्यते, परिकरात् पुनः 'परिकरे वाक्यार्थपदार्थसामर्थ्यात् प्रतीयमानोऽर्थों वाच्योपस्कारकत्वं भजते, काव्यलिङ्गे पुनर्वाक्यार्थपदार्थावेव हेतुभावं भजत' इत्युक्तदिशाऽवगन्तव्यमित्येके, 'वस्तुतस्तु-निष्पादकस्य वाक्यार्थपदार्थत्वाभावादस्य सर्वेभ्योऽ. प्यन्येभ्यो भेद'इत्येव बोध्यमि'त्यन्ये प्राहः । अत्र कौस्तुभकाराः-"यत्त रसगङ्गाधरे-'अनुमितिकरणत्वेन सामान्यविशेषभावाभ्यां चानालिङ्गितः प्रकृतार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिङ्गम्'इति लक्षणं कृत्वोपपादकत्वेनेत्यस्य नतु शब्दात् तेन रूपेण बोधित इत्यर्थकतया शब्दप्रतिपादितहेतुत्वकस्य हेतोरेव वारणं प्रयोजनम् । तेन-'भयानकत्वादसि वर्जनीयोदयाऽऽश्रयत्वादसि देव ! सेव्यः ।' इत्यत्र न व्यभिचारः ।.' इत्युक्त्वा 'विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितैरवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः । हरन्ती है मनवरतमेनांसि कियतां कदाऽप्यश्रान्ता त्वं जगति पुनरेका विजयसे । त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधी करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः । इयं तं मामम्ब त्वमथ करुणाऽऽकान्तहृदये पुनाना सर्वेषामघमथनद दलयसि ॥' इत्युदाहृतं, तत्परस्परविरुद्धमिति स्पष्टमेव; हेत्वर्थकशतृप्रत्ययेन हेतुत्वस्य बोधितत्वात , अन्यथा पञ्चम्याऽपि तद्बोधानुपपत्तेः । 'हरि पश्यन्मुच्यते'इत्यादौ भगवद्दर्शनभक्त्योः कार्यकारणभावप्रत्ययस्य सर्वानुभवसिद्धत्वात् । तत्र हेतुभूतहरिदर्शनाश्रयो मुच्यते इति बोधस्यावश्यकत्वात् । हेतुत्वं च समभिव्याहृतकार्यापेक्षमेवेति । तत्रार्थान्मुक्तिनिष्ठकार्यत्वनिरूपितत्वलाभात् । इति दिक।
अथ क्रमादुदाहर्तुकाम आह-तत्र तयोप्रिभेदुयोर्भध्ये । वाक्यार्थता तन्मूलं काव्यलिङ्गम् । यथा
'हे प्रिये सीते! यत् । त्वनेत्रसमानकान्ति तव नेत्रे . तयोः समाना सदृशी कान्तिर्यस्य तथोक्तम् । तत इन्दीवरं नीलकमलम् । सलिले जले। 'सलिलं कमलं जलम् ।' इत्यमरः । मग्नं मज्जितम् । अत्रान्तर्भावितो णिचप्रत्ययः । 'वर्षाजलौघं सर्वतो वर्धयित्वेति शेषः । तव । मुखच्छायानकारी मुखस्थ च्छाया प्रतिबिम्ब कान्तिर्वा तामनुकरोतीति तथोक्तः। 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः ।'इत्यमरः । 'यः स'इति शेषः । शशी । मेधैः । अन्तरितोऽन्तर्गमितः । अत्रापि णिजोऽन्तर्भावः । ये । अपि । त्वदमनानुसारिगतयस्तव गमनं तस्यानुसारिणी गतिर्येषां तथोक्ताः । ते । राजहंसाः । गता गमिता'मानस'मिति शेषः । अत्रापि णिजोऽन्तर्भावः । 'वर्षासु मानसं हंसाः प्रयान्ती'ति कविसमयमनुरुध्येदमुक्तम् । एवम्-मे । देवेन दुर्दैवेन । त्वत्सादृश्यविनोदमानं तव सादृश्यं तस्य विनोदमानं विडम्बनमात्रं, तेन वा विनोदमानं सन्तापनिवर्तनमात्रमिति तथोक्तम् । अपि न । क्षम्यते । सीतां स्मरतस्तद्विरहेण वर्षासु व्याकुलस्य रामस्योक्तिरियम् । 'हनुमन्नाटके ति प्रसिद्धस्य चम्पूकाव्यस्येदं पद्यम् । शार्दूलविक्रीडितं वृत्तम्, तल्लक्षणं चोक्तं प्राक् ॥ २१३ ॥'
लक्ष्य लक्षयति-अत्र।चतुर्थपादे 'त्वत्सादृश्य...' इति पद्ये सादृश्यविनोदाभावे । पादत्रयवाक्यानि । - 'यत्वनेत्र...' इत्यारभ्य 'गता' इत्यन्ताः पूर्वपादवाक्यार्थी इति भावः । हेतवः। मज्जितादिक्रियाकर्मीभूता इन्दीवरादयो दैवेन त्वत्सादृश्यदर्शनजन्यसुखासहिष्णुत्वनिष्पादका इति फलितोऽर्थः।
___ हेतोरेकपदार्थतायामुदाहरति-पदार्थतेत्यादिना । स्पष्टम् । 'त्वदाजीत्यादि । व्याख्यातपूर्व पद्यमिदम् ॥२१४॥' लक्ष्य निर्दिशति-अत्र । द्वितीयाधै न धत्ते' इत्यादिप्रतिपाद्य सम्भाव्यमानभूरिभारभयकरणहरगङ्गात्यागे । प्रथमाध 'त्वद्वाजि' इत्यादि । एकपदमुपचारात्तदर्थः कविप्रौढोक्तिसिद्धतादृशपङ्किलत्वाभिधेय इति यावत् । हेतुस्तस्य