________________
ताप
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः।
२६७ अनेकपदं यथा मम-- 'पश्यन्त्यसङ्ख्यपथगां त्वद्दानजलवाहिनीम्। देव! त्रिपथगाऽऽत्मानं गोपयत्युग्रमूर्धनि॥२१५॥'
इह केचिद् वाक्यार्थगतेन काव्यलिङ्गेनैव गतार्थतया कार्यकारणभावेऽर्थान्तरन्यासं नाद्रियन्ते, तदयुक्तम् । तथाहि अत्र हेतुस्त्रिधा भवति-ज्ञापको निष्पादकः समर्थकश्चेति । तत्र कोऽनुमानस्थ, निष्पादकः काव्यलिङ्गस्य, समर्थकोऽर्थान्तरन्यासस्यः इति पृथगेव कार्यकारणभावेर्थान्तरन्यासः काव्यलिङ्गात । तथाहि-'यत्त्ववेत्र' इत्यादौ चतुर्थपादवाक्यम्, अन्यथा साका.
ङ्क्षतयाऽसमञ्जसमेव स्यात् इति पादत्रयवाक्यं निष्पादकत्वेनापेक्षते । 'सहसा विदधीत..'इत्यादौ 'तु 'परापकारनिरतैर्दुर्जनैः सह सङ्गतिः। वदामि भवतस्तत्त्वं न विधेया कदाचन ॥' इत्यादिवदुर पदेशमात्रेणापि निराकाङक्षतया स्वतोऽपि गतार्थ सहसाविधानाभाव सम्पद्धरणं सोपपत्तिकमेव करोतीति पृथगेव कार्यकारणभावेऽर्थान्तरन्यासः काध्यलिङ्गात । निष्पादक इति भावः । यथा वा-'वदनाम्बुसहालोकनिन्दितेन्दुप्रभामराम् । त्वामवेक्ष्य मनोजस्य को युवा न वशवदः ॥' इत्यत्र पूर्वाद्धकपदार्थः परार्थे हेतुः ।
हेतोरनेकपदार्थतायामुदाहरति-अनेकपदमनेकपदार्थतेति भावः । यथा । मम 'पश्यन्तीत्यादि । व्याख्यातपूर्व पद्यमिदम् ॥ २१५ ॥' अत्र क्रियाऽन्वयासमाप्तौ वाक्यत्वम्प्राप्तस्य ‘पश्यन्ती' त्यादिपदानैक्यस्य कविप्रौढोक्तिसिद्धो ऽर्थः सम्भाव्यमानो गङ्गाया आत्मगोपने हेतुरिति बोध्यम् । यथा वा-'प्रणयि सखी सलीलपरिहासरसाधिगतैर्ललितशिरी.. षपुष्पहननैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्ड यमदंड इवैष भुजः ॥' इत्यत्र 'वपुषि शस्त्रमुपक्षिपतः' इत्यादीनां क्रियासाकाङ्क्षतया वाक्यत्वमप्राप्तानां शस्त्रोपक्षपरूपोऽर्थो भुजपातस्य निष्पादकः ।
अर्थान्तरन्यासादेरस्यावच्छेदक लक्षयन्मतान्तरमाक्षिपति-केचित काव्यप्रकाशकारादयः । इह काव्यलिङ्गोदाहरणप्रस्तावे । वाक्यार्थगतेन हेतोर्वाक्यार्थताया सम्भवतेति भावः ( पदार्थगतेन काव्यलि. ङ्गेनार्थान्तरन्यासासम्भवादिदमुक्तम् ) । काव्यलिङ्गेन । एव । गतार्थतया 'कारणेन कार्य्यस्य, कार्येण या कारणस्य समर्थकस्य परैः स्वीकृतस्यार्थान्तरन्यासस्येति शेषः । कार्यकारणभावे कार्य्यस्य कारणेन कारणस्य वा कारणेन समर्थने इति भावः । अर्थान्तरन्यासम् । न । आद्रियन्ते, 'किन्तु काव्यलि. अमेवेति शेषः । तत् । भयुक्तमसमजसम् । उपपादयति-तथा। हि । 'उपपाद्यत'इति शेषः । अत्रा
लङ्कारप्रस्तावे । हेतुः। ज्ञापकः । निष्पादक उपपादकः । समर्थकः पोषकः । च । इति । त्रिधा । भवति । सत्र त्रिषु तेषु मध्ये इत्यर्थः । ज्ञापको बोधको हेतुः । अनुमानस्य 'उपस्कारक' इति शेषः, एवं पुरस्तात् । निष्पा. दकः। काव्यलिङ्गस्य । समर्थकः । अर्थान्तरन्यासस्य तदभिधेयस्यालङ्कारस्योपस्कारक इत्यर्थः । इति निरुकादस्माद्धेतोः । काव्यलिङ्गात् । अर्थान्तरन्यासः। कार्यकारणभावे । पृथक् । एव । काव्यलिङ्गार्थान्तरन्यासयोः कार्यकारणभावपार्थक्येन पार्थक्यं सुतरामिति भावः । एतेनोपपादितमर्थ निर्दिशति-तथा। हि अत एवेति भावः । 'यत्त्वनेत्र' इत्यादौ । चतुर्थपादवाक्यं निष्पाद्य'मिति शेषः । अन्यथा निष्पाद्यत्वानङ्गीकारे। साका.
क्षतया कारणापेक्षितत्वेन । असमञ्जसमयुक्तं सुदृढप्रतिपत्तिजननाक्षममिति यावत् । एव । स्यात् । इति । पाद: वयवाक्यम् । निष्पादकत्वेनोपपादकत्वेन । अपेक्षते । नच अर्थान्तरन्यासोदाहरणेष्वप्येवमित्याह-'सहसा विदधीत' इत्यादौ । 'अर्थान्तरन्यासोदाहरणम्' इति शेषः । तु । 'परापकारनिरतः । दुर्जनः । सह । सङ्गतिः सङ्गः । कदाचन कदाऽपि । न । विधेया। इति-भवतः । तत्त्वं यथाऽर्थम् । वदामि ॥' इत्यादिवदित्यादाविव । उपदेशमात्रेण । अपि । निराकाङ्क्षतया । स्वतो हेतूक्तिं विना । अपि । गतार्थ सुदृढ प्रतिपादितस्वार्थम् । सहसाविधानाभावम् । सम्पदरणम् । सोपपत्तिकम् । एव । करोति । इति । काव्यलिङ्गात् । कार्यकारणभावः। अर्थान्तरन्यासः । पृथका एव । स्पष्टीकृतं च विवृतिकारैः-'तथा चहेत्वाकाङ्क्षया यद्वाक्यं ( कर्त) यद्वाक्यमपेक्षते, तदर्थस्य तदर्थों निष्पादकः, स एव काव्यलिङ्गस्य विषय: ( उपस्कारकः)। यत्र हेतूपदेशादिना हेतुनिरपेक्षं वाक्यं हेतुवाक्यस्यार्थः समर्थकः, सचार्थान्तरन्यासस्य विषयः (उपस्कारकः)।