________________
[ दशमः
२६४
साहित्यदर्पणः। १४३ सामान्यं वा विशेषेण विशेषस्तेन वा यदि ॥ ११४॥ - ___ कार्यं च कारणेनेदं कार्येण च समर्थ्यते ।
साधम्र्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः ॥ ११५ ॥ क्रमेणोदाहरणम्--. 'बृहत्सहायः कार्यान्तं क्षोदीयानपिगच्छति।सम्भूयाम्भोधिमभ्येति महानद्या नगापगा।२०८॥ अत्र द्वितीयार्धगतेन विशेषरूपेणार्थेन प्रथमार्धगतः सामान्योऽर्थः सोपपत्तिकः क्रियते। 'यावदर्थपदां वाचमेवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ २०९॥' 'पृथ्वि ! स्थिरा भव, भुजङ्गम ! धारयैनां, स्वं कूर्मराज ! तदिदं द्वितयं दधीथाः। दिक्कुञ्जराः ! कुरुत तत्रितये दिधीर्षा देवः करोति हरकार्मुकमाततज्यम् ॥ २१० ॥' अर्थान्तरन्यास लक्षयति-१४३ सामान्यमित्यादिना।
यदि । विशेषेण व्याप्यधर्मावच्छिन्नेन । सामान्य व्यापकधर्मावच्छिन्नम् । वा ( इदं समुच्चयार्थम् ) । तेन सामान्येन व्यापकधर्मावच्छिन्नेन । वा। विशेषो व्याप्यधर्मावच्छिन्नम्। कारणेन ज्ञापकनिष्पादकेतरसमर्थकरूपेण हेतुना । च । कार्य ज्ञाप्यनिष्पाद्येतरसमर्थ्यरूपं साध्यम् । कार्येण ज्ञाप्यनिष्पाद्येतरसमर्थ्यरूपेण साध्येन । च । इदं कारणं ज्ञापकनिष्पादकेतरसमर्थकरूपो हेतुरिति यावत् । समर्थ्यते। ततस्तर्हि । साधय॑ण साधर्म्यप्रकारकज्ञानेन । अथवा-इतरेण वैधयण वैधयंप्रकारकज्ञानेनेति यावत् । अर्थान्तरन्यासोऽर्थान्तरस्यानुपपद्यमानतया सम्भाव्यमानमर्थ समर्थयितुं तद्भिन्नस्योपपद्यमानतया सम्भाव्यमानस्यार्थस्य न्यासः समर्थकतया निरूपणमिति तथोक्तः। तत्रामाऽलङ्कार इति भावः । अष्टधाऽष्टप्रकारः । अयम्भावः-कमप्यनुपपद्यमानतया सम्भाव्यमानमर्थ समर्थयितुं कस्यचिदुपपद्यमानतया सम्भाव्यमानस्यार्थस्य समर्थकतया न्यासोऽर्थान्तरन्यासः । स च साधम्र्येण वैधयेण चेति द्विविधः । अयमपि प्रतिभेदं चतुर्धा भिद्यमानोऽष्टविधः । तत्र-विशेषेण सामान्यसमर्थनात्मैकः, सामान्येन विशेषसमर्थनात्मा द्वितीयः, कारणेन कार्यसमर्थनात्मा तृतीयः, कार्येण कारणसमर्थनात्मा पुनश्चतुर्थो भेदः । तथा च-अर्थान्तरस्य न्यास इति सामान्य लक्ष्म, अर्थान्तरस्य पुनासः साधयेण वैधयेण च भवतीति तस्य भेदद्वयम् , भेदयस्य पुनः प्रत्येक चातुर्विध्येऽष्टविधत्वमिति फलितम् ॥ ११४ ॥ ११५ ॥
उदाहत्तु प्रतिजानीते-क्रमेणेत्यादिना । क्रमेणानुपूर्येण । उदाहरणमुदाहियते 'ऽय'मिति प्रक्रमप्राप्तम् । बृहदित्यादिना।
'क्षोदीयान अतिशयेन क्षुद्र इति तथोक्तः । 'स्थूलदूरयवहस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ।' ६।४ । १५६ इत्यनेन यणादिपरलोपः पूर्वगुणश्च । अपि । बृहत्सहायो बृहन्तः सहाया यस्य तथोक्तः सन् । कार्यान्तं कार्य्यस्यान्तः पारस्तम् । गच्छति । तथा हि-नगापगा पर्वतनदी। महानद्या गङ्गायमुनाऽऽद्यन्यतमया नद्या । सम्भय । अम्भोधि समुद्रम् । अभ्येति । शिशुपालवधस्येदं पद्यम् । उद्धवस्य सभायामुक्तिरियम् ॥ २०८॥'
"उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना । स्पष्टम् ।
'माधवः श्रीकृष्णः । यावदर्थपदां यावानों यावदर्थ पदानि यस्यास्ताम् । 'यावदवधारणे।' २।१।८ इत्यव्ययीभावः । एवमुक्तरूपाम् । वाचम् । आदाय गृहीत्वोक्त्वेति यावत् । विरराम तूष्णीं बभूव । 'व्यापारीभ्यो रमः ।' ५। ३ । ८३ इति परस्मैपदम् । तथा हि-महीयांसोऽतिशयेन महान्तः । प्रकृत्या खभावेन । मितभाषिणो मितं भाषन्ते इत्येवंशीला भवन्तीति भावः । अत्र यावदर्थमुक्त्वे' पीत्यनुक्त्वा तथाऽभिधानं दुष्टमपि छन्दोऽ. नुरोधेन । एवं 'विररामे'त्यसहायस्योत्तरवाक्ये विन्यासोऽपि दुष्टः । शिशुपालवधस्येदं पद्यम् । अत्र सामान्येन 'महीयांस' इत्याद्यर्थेन विशेषस्य 'यावदर्थे' त्याद्यर्थस्य समर्थनम् । विवृण्वन्ति विवृतिकारा:-'अत्र व्यञ्जनया विधीयमानमपि माधवस्याल्पभाषणं प्रतिपाद्य बाहुल्ये सति अनुपपन्नमहत्तरस्य स्वभावत एवाल्पभाषणमिति सामान्यगोचरसाधर्म्यज्ञानेन समर्थ्यते। सामान्यधर्मो विशेषेष्वप्रतिहतप्रसर इति विशेषदर्शनेनानुपपत्तिनिरास इति भावः । इति ॥२०९॥
थ्वि! स्थिरा। भव । हे भुजड्रम शेषनाग ! एनां पृथ्वीम् । धारय । हे कूर्मराज! त्वम् । तत् । इदम् ।द्वितयं 'पृथ्वीभुजङ्गमयो' रिति शेषः । दधीथार्धारय । हे दिक्कुञ्जरा दिग्गजाः ! तत्त्रितये