________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
२६३
प्रस्तुतप्रशंसा, तुत्र कार्थ्यस्याप्रस्तुतत्वात्, इह तु वर्णनीयस्य प्रभावातिशयबोधकत्वेन काय्र्यमपि
कारणवत् प्रस्तुतम् । एवं च-
'अनेन पर्थ्यासयताऽश्रुबिन्दून् मुक्ताफलस्थूलतमान् स्तनेषु | प्रत्यर्पिताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः ॥ २०६ ॥ * अत्र वर्णनीयस्य राज्ञों गम्यभूतशत्रुमारणरूपकारणवत् कार्य्यभूतं तथाविधशत्रुस्त्रीक्रन्दनजलमपि प्रभावातिशयबोधकत्वेन वर्णनार्हमिति पर्य्यायोक्तमेव ।
'राजन् ! राजसुता न पाठयति मां देग्योऽपि तूष्णीं स्थिताः कुब्जे ! भोजय मां कुमार ! सचिवैर्नाद्यापि किं भुज्यते । इत्थं नाथ ! शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जराचित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥ २०७ ॥ '
अत्र 'प्रस्थानोद्यतम्भवन्तं श्रुत्वा सहसैवारयः पलायिता इति कारणं प्रस्तुतम् कार्य्यमपि वर्णनात्वेन प्रस्तुतम् इति केचित् अन्ये तु 'राजशुकवृत्तान्तेन कोऽपि प्रस्तुतप्रभावो बोध्यत इत्यप्रस्तुतप्रशंसैव' इत्याहुः ।
१
धाय प्रकृतं तत्कायै पारिजातमञ्जरीस्पर्शनरूपमभिहितम्, एतच 'सावज्ञ' मिति साचिव्येन प्रस्तुतस्यानायाससिद्धत्वं प्रत्याययति । इति । नन्वेवं कार्य्यात् कारणप्रतीतिरूपाऽप्रस्तुतप्रशंसैवेयं किं न स्यादित्याशङ्कयाह- इदं कारणं प्रत्याययितुं कार्य्याभिधानमित्यर्थः । च । कार्य्यात् कारणप्रतीतिरूपा । अप्रस्तुतप्रशंसा । न । हेतु निर्दिशति - तंत्र तस्यामप्रस्तुतप्रशंसायाम् । कार्य्यस्य । अप्रस्तुतत्वात् । इह । तु । वर्णनीयस्य स्वर्गविजयरूपस्य प्रस्तुतस्य कारणस्य । प्रभावातिशयबोधकत्वेन । कार्य्यम् । अपि । कारणवत् । प्रस्तुसम् । एतेन सिद्धमर्थ निर्दिशति एवं । च ।
.' शत्रुविलासिनीनां शत्रुस्त्रीणाम् । स्तनेषु । मुक्ताफलस्थूलतमान् मुक्ताफलेभ्यः स्थूलतमा अत्यन्तं स्थूलास्तान् । अश्रुबिन्दून् । पर्यासयता पातयता । अनेन शत्रुहन्त्राऽङ्गदेशाधिपेन । आक्षेपसूत्रेण ग्रन्थनसूत्रेण । विना । हाराः । एव । प्रत्यर्पिताः । रघुवंशस्येदं पद्यम् ॥ २०६ ॥ '
उदाहृते पद्येतत्सद्भावं समर्थयते - अत्रेत्यादिना ।
अत्र । वर्णनीयस्य प्रस्तुतवर्णनस्य । राज्ञोऽङ्गदेशाधीशस्य । गम्यभूतशत्रु मारणरूपकारणवत गम्यभूतं शत्रुन्दन कार्य्यानुमेयं यत् शत्रुमारणं तदेव रूपं यस्य तादृशं यत् कारणं तदिवेति तथोक्तम् । कार्य भूतम् । तथाविधशत्रुस्त्रीक्रन्दनजलम् । अपि । प्रभावातिशयबोधकत्वेन प्रभावातिशयोऽङ्गराजस्य पराक्रमातिशयस्तस्य बोधकं तस्य भावस्तत्त्वं तेन । वर्णनार्ह प्रस्तुतमिति भावः । इति । पर्य्यायोक्तम् । एव 'नत्वप्रस्तुतप्रशंसा' इति शेषः ।
उदाहरणान्तरं दर्शयति- 'राजन्नित्यादिना ।
'हे राजन् ! राजसुता । माम् (शुकम् ) । न । पाठयति । देव्यो राइयः । अपि । तूष्णीम् । स्थिताः । हे कुब्जे ( इदं तथाभूताया भोजिकायाः सम्बोधनम् ) ! माम् (शुकम् ) । भोजय । हे कुमार राजकुमार ! खचिवैर्मन्त्रिभिः । अद्यापि । किम् । न । भुज्यते । इत्थम् । हे नाथ प्रभो ! तव । शून्यवभौ शुन्या त्वदागमनभिया वलभ्युपरिगृहं यत्र तादृशे । अरिभको । अध्वगैः पथिकजनैः । 'शत्रुभिरिति शेषः । पञ्जरात्। मुक्तो निर्मुक्तबन्धनो निर्गत इति यावत् । शुकः । चित्रस्थान् राजादीन् । अवलोक्य । एकैकमेकमेकम् । अभाषते । यत्तु - 'शून्यवलभा' विति' अरिभवने' इत्यस्य विशेषणमस्मरन्तः 'शुन्यायां वलभौ उपरिगृहे' इति विवृण्वन्ति, तन्न साधु; 'शुद्धान्ते वलभी चन्द्रशाले सौधोर्ध्ववेश्मनि । ' इति रभस | तस्य वलभीशब्दस्य गौरादित्वेनीबन्ततया तथा निष्पत्त्यसम्भवात् । कस्यापि कवे राजानं प्रति स्तुतिपरेयमुक्तिः शार्दूलविक्रीडितं वृत्तम् ॥ २०७ ॥'
अत्र मतभेदेन पर्यायोक्तमप्रस्तुतप्रशंसां च निर्दिशति - अत्रेत्यादिना । स्पष्टम् ।