________________
२६२
।
साहित्यदर्पणः।
[ दशमःइदं मम --
'व्याजस्तुतिस्तव पयोद ! मयोदितेयं सोवनाय जगतस्तव जीवनानि । स्तोत्रं तु ते महदिदं धन ! धर्मराजसाहाय्यमर्जयसि यत् पथिकानिहत्य॥ २०४॥'
१४२ पर्यायोक्तं यदा भङ्गया गम्यमेवाभिधीयते । उदाहरणम्-- 'स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिता। सावनं पारिजातस्य मञ्जर्यो यस्य सैनिकैः॥२०५॥'
अत्र 'हयग्रीवेण स्वर्गो विजित'इति प्रस्तुतमेव गम्यं कारणं वैचित्र्यविशेषप्रतिपत्तये सैन्यस्य पारिजातमञ्जरीसावज्ञस्पर्शनरूपकार्य्यद्वारेणाभिहितम् । न चेदं कार्यात् कारणप्रतीतिरूपाsकलिताशयष्टयः । प्रागिव । विश्वस्ता विधवाः । 'विश्वस्ता विधवा समे।' इत्यमरः । अपि । द्विस्त्रियः । जाताः; इति गम्या स्तुतिः । राज्ञः स्तुतिरियम् । अतएव स्तुतेर्व्यङ्गयत्वमावश्यकमूह्यम् । अत्रााछन्दस्तल्लक्षणं चोक्तं प्राक् ॥ २०३॥
उक्तपद्यस्य स्वीयत्वं निर्दिशति-इदमित्यादिना । स्पष्टम् ।
'हे पयोद मेघ ! तव । जीवनानि प्राणधारणाजलानि च । 'जीवनं सलिले प्राणधारणायां च जीविते ।' इति गोपालः । जगतो विश्वस्य । सञ्जीवनाय जीवितरक्षणाय । 'यज्जीवनायेति पाठे तु 'य'दिति पृथक पदम् । इति ( यत् ) इयम् । तव । व्याजस्तुतिक्जरूपा स्तुतिः। मया। उदिता। हे घन ! स्तोत्रं स्तुतिर्वास्तविकी प्रशंसा । तु । इदम् । ते । महत् । यत् । पथिकान् । निहत्य । 'पथिकार्पणेने ति पाठस्तु साधीयान् । धर्मराजसाहाय्यं धर्मराजस्य साहाय्यम् । अर्जयसि सम्पादयसि । अत्र स्तुत्या वाच्यया निन्दाया अवगमः । वसन्ततिलकं वृत्तम् , तल्लक्षणं चोक्तं प्राक् ॥ २०४ ॥'
अत्राहः-'इयं चालङ्कारान्तरसङ्कीर्णाऽपि, यथा-" अये राजन्नाकर्णय कुतुकमाकर्णनयन ! स्फुरन्ती हस्ताम्भोरुहि तव कृपाणी रणमुखे । विपक्षाणां वक्षस्यहह तरुणानां निपतति प्रगल्भाः श्यामानामनुपरतकामाः प्रकृतयः ॥” इति, अत्र हि समासोक्त्यर्थान्तरन्यासपोषिता निन्दया स्तुतिः । ननु कथमिह व्याजेन स्तुतिः, वाच्याभ्यामेव निन्दास्तुतिभ्यां स्तुतिनिन्दयोर्गम्यत्वे तस्याः स्वीकारात्, समासोक्त्या च कामुकाव्यापारस्य निन्दनीयत्वेऽपि गम्यत्वात् न प्रकृतो. पयोगित्वम् । इति चेत् ! वाच्याभ्यामामुखे प्रतीयमानाभ्यामित्यर्थं गृहाण ।' इत्येके, अपरे तु 'गम्यया निन्दया गम्यायाः स्तुतेाजस्तुत्युपस्कारकत्वमेव न, व्याजस्तुतिर्हि वाच्यार्थीह विवक्षिता, न तु गम्या।' इति ।
पर्सायोक्तं लक्षयति-१४२ पायोक्तमित्यादिना ।
१४२ यदा भङयोक्तिवैचित्र्येण । गम्यं बोध्यम् । एव । अभिधीयते । तदा-पायोक्तं पर्यायेण प्रकारान्तरेणोक्तं कथनमिति तन्नामालङ्कार इति भावः । तथाऽऽहु:-'विवक्षितस्यार्थस्य भगवन्तरेण प्रतिपादनं पायोक्तम् ।' इति ।
उदाह काम आह-उदाहरणमिति । स्पष्टम् । 'यथा' इति शेषः । 'स्पृष्टा इत्यादि।
'नन्दने । यस्य हयग्रीवस्य दैत्यराजस्य । सैनिकः सेनास्थितैवारैः । शच्या इन्द्रपत्न्याः । केशसम्भोगलालिताः केशानां सम्भोगो भूषणं तस्मै लालिता प्रेम्णा वर्धिताः । ताः प्रसिद्धाः । पारिजातस्य कल्पवृक्षस्य । मचर्यः। सावनं साक्षेपम् । स्पष्टाः। 'स हयग्रीव'इति शेषः । मेण्ठकवेर्हयग्रीववधस्येदं पद्यम् ॥ २०५॥'
भनयन्तरेणाभिधानं सप्रयोजनं निर्दिशति-अत्रेत्यादिना।
अत्र । 'हयग्रीवेण तदाख्येन दैत्येन । स्वर्गः । विजितः।' इति । प्रस्तुतम् । एव । कारणम् । गम्यं व्यङ्गयम । वैचित्यविशेषप्रतिपत्तये वैचित्र्यविशेषस्याप्रस्तुतप्रशंसासमासोक्तिचमत्कारातिशयस्य प्रतिपत्तिरवबोधस्तस्यै । सैन्यस्य हयग्रीवयोवृसङ्घस्य । पारिजातमञ्जरीसायज्ञस्पर्शनरूपकार्य्यद्वारेण । अभिहितम् । अयम्भावः-हयग्रीवस्य सैनिकैनन्दनस्थाः शचीप्रियाः पारिजातमजयः सावज्ञं स्पृष्टा इत्यभिधानं हयग्रीवेण स्वर्गो विजित'इति प्रस्तुतं व्यञ्जयति, स्वर्गविजयमन्तरा शचीप्रियाणां तासां सावज्ञपरस्पर्शनासम्भवात् । अतः प्रकृतं स्वर्ग विजयमनभि
।