________________
परिच्छेद
रुचिराख्यया व्याख्यया समेतः।
-
२६१
सम्भवि, अन्येषां तु सम्भवीत्युभयरूपत्वम्, अस्याश्च समासोक्तिवद् व्यवहारसमारोपप्राणत्वाच्छन्दशक्तिमूलाद्वस्तुवनेर्भेदः उपमाध्वनावप्रस्तुतस्य व्यङ्गयत्वम्, एवं समासोक्तौ। श्लेषे तु द्वयोरपि वाच्यत्वम् ।
• १४१ उक्ता व्याजस्तुतिः पुनः ।
निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोः ॥ ११३ ॥ निन्दया स्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिः, स्तुत्या निन्दाया गम्यत्वे व्याजरूपा स्तुतिः। क्रमेण यथा--
'स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव!
त्वयि कुपितेऽपि प्रागिव विश्वस्ता द्वित्रियो जाताः ॥ २०३ ॥' असम्भवि।अन्येषां कण्टकानाम्।तु।सम्भविाउभयरूपत्वं सम्भवासम्भवोभयविधत्वमिति भावः।इति।अत्रेदं तत्त्वम्छिद्राणि गुणान् भज्येरन् इति न सम्भवति, कण्टकास्तान् भज्येरनिति पुनः सम्भवतीति कमलदण्डे दुर्दैवहतकाभिन्नत्वेनाध्यवसिते 'छिद्राणी'त्यस्य 'क्षुद्रत्वप्रत्यायकानि कार्याणि इति, 'कण्टका' इत्यस्य च 'क्षुद्रशत्रवः' इत्यर्थे गुणानां शौर्यादीनां भगुरत्वं सर्वथाऽध्यवसीयते । यदाहुरलङ्कारसर्वखकाराः-'अत्र वाच्येऽर्थे कण्टकानां भङ्गुरीकरणे हेतुत्वं सम्भवि, छिद्राणां तु असम्भवि' इत्युभयविधत्वम् ( रूपत्वम् ), प्रस्तुतस्य तात्पर्येण प्रतीतेस्तदध्यारोपात्तत्र सङ्गतमेवैतदिति नासमीचीनं किञ्चित् ।' इति।
अस्या वाच्यत्वमलङ्कारान्तरतो भेदं च निर्दिशति-अस्याश्चेत्यादिना ।
अस्याः श्लेषमूलसमाप्रस्तुतप्रशंसायाः । च । समासोक्तिवत् समासोक्तेरिव । व्यवहारसमारोपप्राणत्वाद् व्यवहारस्य व्यापारस्य समारोपस्स एव प्राणो जीवनं यस्यास्तस्या भावस्तत्त्वं तस्मात् । शब्दशक्तिमूलात् । वस्तुध्वनेः। भेदः । तात्पर्य्य च विवृतं यथा विवृतिकारैः-'समासोक्तौ यथा श्लिष्टशब्दप्रयोगमात्रेण व्यवहारो न प्रती. यते, किंतु विशेषणसाम्यानुसन्धानेनापि; तथाऽत्रापि विशेषण साम्यानुसन्धानमप्यपेक्षितम्, शब्दशक्तिमूलवस्तुध्वनौ तु तन्नापेक्षितमिति ततोऽस्या भेद इति भावः ।' इति । उपमाध्वनौ । अप्रस्तुतस्य । व्यङ्यत्वम् अत्र पुनर्वाच्यत्वम् । अत्र प्रस्तुतस्य व्यङ्गयत्वं, तत्र पुनर्वाच्यत्वम्, इत्यनयोर्महान् भेद' इति शेषः । एवम् । समासोक्तौ । 'प्रस्तुतस्य व्यङ्गयत्वम्' इति पूर्वतोऽन्वेति 'अत्र पुनर्वाच्यत्वम् । अत्र प्रस्तुतस्य व्यङ्गयत्वं, तत्र पुनर्वाच्यत्वम् ; इत्यनयोर्महान् भेद' इति शेषः । श्लेषे। तु 'अपी'ति पाठान्तरेऽप्ययमेवार्थः, निपातानामनेकार्थत्वात् । द्वयोः प्रस्तुताप्र. स्तुतयोः । अपि 'न त्वेकतरस्येति शेषः । वाच्यत्वम् 'अत्राप्रस्तुतस्यैकस्येति भेद' इति शेषः । 'अन्योक्तिरित्यस्या एबापरः पर्साय इति बोध्यम् ।
व्याजस्तुतिं लक्षयति-१४१ उक्तेत्यादिना।
१४१ वाच्याभ्याम् । निन्दास्तुतिभ्याम् । स्तुतिनिन्दयोः । गम्यत्वे बोध्यत्वे सति । पुनः । व्याजस्तुतिस्तन्नामाऽलङ्कारः । उक्ता। तथा च यत्र वाच्यया निन्दया स्तुतिः, स्तुत्या पुनर्निन्दा पर्यवसीयते सा . व्याजस्तुतिरिति फलितोऽर्थः ॥ ११३॥ .
अस्या अन्वर्थतां निर्दिशति-निन्दयेत्यादिना । स्पष्टम् । उदाहतुकाम आह-क्रमेणेत्यादि । स्पष्टम् । 'स्तनेत्यादि।
हे देव राजन् ! त्वयि । कुपिते । अपि । द्विस्त्रियो द्विषां रिपूणां स्त्रियः । स्तनयुगमुक्ताभरणाः स्तुनयुगेषु मुक्ताभरणानि मौक्तिकगुम्फितभूषणानि यासां तादृश्यः । कण्टककलिताइयष्टयः कण्टकै रोमाञ्चैः पतिसुरतानुभवजन्यैः सात्त्विकभावविशेषैः कलिता व्याप्ता अङ्गयष्टयो यासां तादृश्यः । अत एव-प्राक् स्वय्यकुपिते । इव । विश्वस्ता निश्शङ्काः । जाताः। इति वाच्या राज्ञो निन्दा, अथ-त्वयि । कुपिते। स्तनयुगैर्मुक्तान्याभरणानि यासां ता इति स्तनयुगमुक्ताभरणाः । कण्टकैः पलायनसमये वृक्षाङ्गैः कलिताः खण्डिता अङ्गयष्टयो यासां ताः कण्टक